________________
सुखदुःखमोहानामनन्यत्वापादनम् ] द्वादशारं नयचक्रम्
२७९
निवृत्तिरिति चेत्, न, अवरणाद्यात्मकशब्दस्य विधिप्रधानपर्युदासात्मकत्वात् अनपुंसकवचनादप्रतिषेधेऽनपुंसकस्रुटि सर्वनामस्थानत्ववत् तटस्तदंतटी स्त्रीपुंनपुंसकास्त्रीपुंनपुंसकत्ववदेतत् स्यादेकस्मिन्नेव लिङ्गत्रयदर्शनात् अवरणाद्यात्मकत्वेऽप्यन
प्रतिषेधादेव अवरणाद्यात्मकाभ्यां सत्त्वरजोभ्यां मोहस्य प्रतिषेध्यस्यान्यत्वं सिद्धम्, तस्मान्न तदन्यत्वनिवृत्तिरिति । एतच्च न, 'अवरणाद्यात्मकत्वात्' इति अवरणाद्यात्मकशब्दस्य विधिप्रधानपर्युदासात्मक- 5 त्वात् । नत्रो हि द्वयी गतिः – प्रसज्यप्रतिषेधः पर्युदासश्च यथा ब्राह्मणो न भवत्यब्राह्मण इति ब्राह्मणस्य निवृत्तिप्रधानः प्रसज्यप्रतिषेधः, ब्राह्मणादन्योऽब्राह्मणः क्षत्रियादिरिति क्षत्रियादिविधानप्रधानः पर्युदासः, तथेहापि 'अवरणाद्यात्मकत्वात्' इति वरणाद्यात्मकाद् मोहादन्यदवरणाद्यात्मकं शोषादिप्रसादाद्यात्मकं विधीयते, वरणाद्यात्मकत्वस्य तु न विधिर्न प्रतिषेधः पर्युदासात्मकत्वात्, न तु प्रसज्यप्रतिषेध इति । तदर्थसमर्थनार्थं दृष्टान्तमाह – अनपुंसकैर्वैचनादप्रतिषेधेऽनपुंसकैं सुटि सर्वनामस्थानत्ववत् यथा नपुंसकादन्यत्र सुट् 10 सर्वनामस्थानसंज्ञं भवतीति स्त्रीपुंसयोः सुटः सर्वनामस्थानसंज्ञा विधीयते, नपुंसके तु 'शिः सर्वनामस्थानम् २०४-१ [ पा० १|१|४१ ] इति विध्यन्तरविहिता सुटः सर्वनामस्थानता न विहिता न निषिद्धा, तथेहापि वरणाद्यात्मकत्वस्य न विधिर्न प्रतिषेधः शोषप्रसादाद्यात्मकत्वविधानादिति ।
स्यान्मतम् – वैषम्याददृष्टान्तोऽयम्, सम्बन्धिनः सुटः सर्वनामस्थानविधाने नपुंसकानपुंसकविषयत्वाविरोधाद् युज्येत सर्वनामस्थानसंज्ञा, विषयस्य तु नपुंसकानपुंसकत्वविरोधवद् वरणावरणाद्यात्मकत्वानु- 15 पपत्तिरिति । एतदपि च न वैषम्याय, अत्रापि तत्तुल्यत्वात्, तटस्तटतटी स्त्रीपुंनपुंसका स्त्रीपुंनपुंसक - त्ववदेतत् स्यात् एकस्मिन्नेव लिङ्गत्रयदर्शनात्, दृष्टं हि तटे लिङ्गत्रयं ' तटं तटस्तटी' इत्येकस्मिनेव, यदा च नपुंसकलिङ्गं तदा न स्त्रैणं न पौंस्नम्, पुंस्त्वे न स्त्रीता न नपुंसकता, स्त्रीत्वे नेतरद्वयता, इत्यस्त्रीपुंनपुंसकत्वं च तथा वरणावरणाद्यात्मकत्वमस्तु, को दोषः ? सरूपैकशेषाकरणमनुकरणत्वाद् लिङ्गव्यक्त्यर्थमित्यदोषः ।
एवं तर्हि सुखदुःखयोरपि वरणाद्यात्मकत्वादवरणाद्यात्मकत्वासिद्धिरेवं अवरणाद्यात्मकत्वसिद्धौ वाऽनन्यत्वासिद्धिरिति चेत्, नेत्युच्यते, अवरणाद्यात्मकत्वेऽप्यनन्यत्वाद् वरणाद्यात्मकत्वस्य, अवरपाद्यात्मके अपि सुखदु:खे वरणाद्यात्मकत्वतोऽनन्ये, तस्मादभिन्ने वरणाद्यात्मके एव प्रसादशोषादिकार्यभेदेऽपि कारणत्वानात्मत्यपरिणामित्वादिभ्यः । किमिव ? अवरणसदनादिमोहात्मकत्ववत् यथा
१ णात्मकं भा० । णात्मक य० ॥ २ तु वि प्र० ॥ ३ वचनाप्रति वि० विना य० । भा० प्रतौ तु * * एतचिह्नान्तर्गतः पाठो नास्त्येव ॥ ४ " शि सर्वनामस्थानम् ||१/४१ | सुडनपुंसकस्य |१|१|४२ | शि सर्वनामस्थानं सुडनपुंसकस्येति चेज्जसि शेः प्रतिषेधः प्राप्नोति, कुण्डानि तिष्ठन्ति वनानि तिष्ठन्ति यत्तावदुच्यते "शि सर्वनामस्थान सुडनपुंसकस्येति चेज्जसि शिप्रतिषेधः' इति न अप्रतिषेधात् । नायं प्रसज्यप्रतिषेधो नपुंसकस्य नेति, किं तर्हि ? पर्युदासोऽयं यदन्यन्नपुंसकादिति, नपुंसके न व्यापारः, यदि केनचित् प्राप्नोति तेन भविष्यति, पूर्वेण च प्राप्नोति ।" इति पातञ्जलमहाभाष्ये । "जशसोः शिः । " पा० ७ १२० ॥ ५ न्धिना भा० ॥ ६ त तुल्य भा० ० ही ० । न तुल्य पा०डे० लीं० वि० ॥ ७ 'स्त्रीनपुंसकास्त्री नपुंसकत्व य० ॥ ८ वरणाद्यात्मकत्व प्र० ॥ ९ 'रेव वरणाद्य य० । रेणाद्या भा० ॥ १० मकत्वे अपि सुखदुःखयो व पा० डे० लीं० २० ही ० । 'त्मकत्वे अपि सुखदुःखयोः व वि० ॥
Jain Education International
For Private & Personal Use Only
20
www.jainelibrary.org