________________
२७८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे स्वतत्त्वप्रवृत्तित्वात् किमिति न गम्यते मया वा किमिति नोच्यते सुखादनन्यदेव दुःखम्, अनात्मत्वेऽवरणाद्यात्मकत्वात्, अवधारणेन च वक्ष्यमाणसाधनान्तरापक्षिप्तान्यत्वो विपक्षाभावः सूच्यते, सुखस्वात्मवत्, अन्यस्याभावात् । ... मोहेऽन्यत्वमिति चेत्, तन्निवर्तयिष्यते । अवरणाद्यात्मकत्वात् कुतोऽन्यत्व
२०३१
इत्ताए परिणमंति [ज्ञाताधर्म० ] 'त्ति । ततस्तस्य सङ्घातपारार्थ्यादिभिश्चेतनादन्यत्वे स्थिताचैतन्यैकत्वपरिणामित्वानि वृत्तयोऽस्य तदिदं कारणं स्थिताचेतनत्वैकत्वपरिणामित्ववृत्ति, तच्च सुखमिति वा दुःखमिति वा मोह इति वा परमाणव इति वा कारणमित्येव वा । उक्तवत्, उक्तेन तुल्यमुक्तवत् , यथोक्तं भिन्नात्मकतायां तु सत्त्वं न प्रकाशेत अप्रवृत्तत्वादित्यतः प्रभृति यावदेषोऽवधिः, तद्वदुक्तवदेव . स्थापितात्मस्वतत्त्वप्रवृत्तित्वात् , आत्मस्वतत्त्वेन स्थापिताऽस्य प्रवृत्तिरित्यतः किमिति न गम्यते त्वया 10वक्ष्यमाणसाधनवत् 'अनन्ये सुखदुःखे' इति, किं स्वपक्षरागाद् मोहाद्वा ? मया वा किमिति नोच्यते ? तत्त्वकथायां प्रस्तुतायां किमनुवृत्त्या आयतिलोपायशोभयादितो वा ? इति । किं पुनस्तत् साधनमिति चेत् , सुखादनन्यदेव दुःखम् , अनात्मत्वेऽवरणाद्यात्मकत्वात् , वरण-सदना-ऽपवंसन-बैभत्स्यदैन्य-गौरवाणि वरणादीनि, वरणादीन्यस्यात्मा कार्यं तद् वरणाद्यात्मकं तमः, न वरणाद्यात्मकमवरणाद्यात्मकम् , किं तत् ? दुःखम् , तस्यानात्मत्वे सति अवरणाद्यात्मकत्वात् सुखादनन्यत्वमेव । किमर्थं पुनः 'अनन्य15 देव' इत्यवधार्यते ? उच्यते - अवधारणेन च 'सुखादनन्यदेव' इत्यनेन वक्ष्यमाणसाधनान्तरापक्षिप्ता
न्यत्वो विपक्षाभावः सूच्यते, वक्ष्यमाणं साधनं सुखादनन्य एव मोह इति, तेनापक्षिप्तमन्यत्वं तमसो२०३-२ ऽपीति विपक्षाभावः सोऽनेनावधारणेन सूच्यते । पुरुषस्तु स्यात् सुखादन्यत्वाद् विपक्षः, ततो व्यावर्त
नार्थम् 'अनात्मत्वे सति' इति विशेषणम् । सुखस्वात्मवदिति दृष्टान्तः । यथाऽवरणाद्यात्मकत्वात् सुखस्वात्मा सुखादनन्य एवं दुःखमप्यवरणाद्यात्मकत्वात् सुखादनन्यदिति । अंन्यस्याभावादिति हेतोरव्यभि20 चारव्याख्यानम्, सुखादनन्यत्वेन दुःखे साध्येऽनात्मत्वविशेषणेन आत्मनि निरस्ते साधनान्तरनिरस्ते तमसोऽन्यत्वे न किञ्चित् सुखादन्यदस्ति, तस्मादन्यस्य कस्यचिदभावाद् विपक्ष एव नास्ति । विपक्षाभावादेवावृत्तिरसपक्षेऽस्य हेतोरित्यव्यभिचारी हेतुः । ... मोहेऽन्यत्वमिति चेत्, तन्निवर्तयिष्यते, व्याख्यातार्थस्फुटीक्रियायै चोद्योत्तरपक्षौ गतार्थों न विवियेते । अवरणाद्यात्मकत्वात् कुतोऽन्यत्वनिवृत्तिरिति चेत्, स्यान्मतम् - वरणाद्यात्मकमोह
१“एवं खलु सामी! सुब्भिसद्दा वि पोग्गला दुब्भिसत्ताए परिणमंति, दुब्भिसद्दा वि पोग्गला सुब्भिसद्दत्ताए परिणमंति । सुरूवा वि पोग्गला दुरूवत्ताए परिणमंति, दुरूवा वि पोग्गला सुरूवत्ताए परिणमंति । सुब्मिगंधा वि पोग्गला दुन्भिगंधत्ताए परिणमंति, दुब्भिगंधा वि पोग्गला सुन्भिगंधत्ताए परिणमंति। सुरसा वि पोग्गला दुरसत्ताए परिणमंति, दुरसा वि पोग्गला सुरसत्ताए परिणमंति । सुहफासा वि पोग्गला दुहफासत्ताए परिणमंति, दुहफासा वि पोग्गला सुहफासत्ताए परिणमंति । पओगविससा वि य णं परिणया वि य णं सामी पोग्गला पण्णत्ता।" इति ज्ञाताधर्मकथासूत्रे पाठः १२॥६॥ २ दृश्यतां पृ० ४ टि० २॥ ३ना इत्यत्वे य० । नारू इत्यत्वे भा०॥ ४तनैकत्वपय० ॥ ५°त्तित्वा प्र० । दृश्यतां पृ० २७० पं० ४॥ ६त्यायति प्र०॥ ७दृश्यतां पृ० २०९-२॥ ८ अन्यस्यादिति प्र०॥ ९°चिद् वि य० ॥ १० यादौ प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org