________________
प्रकाशप्रवृत्तिनियमानामैक्यापादनम् ] द्वादशारं नयचक्रम्
एवं चैकैकपूर्वकवादापत्तेरेव किमनेकात्मकैककल्पनया ? सङ्घातपारार्थ्यादिभिस्तस्य चेतनादन्यत्वे स्थिताचेतनत्वैकत्वपरिणामित्ववृत्ति उक्तवत् स्थापितात्म
व्यवस्थाऽभाव एव । उक्तवद्रा व्यवस्थानुमतौ प्रधानातिदेशस्त्याज्यः । तदत्यागे यदर्थमयमतिदेशो ऽ'द्वैतैकान्तार्थस्तस्यैवासिद्धि:, यत् तदेकमेव सम्भाव्यते प्रधानं तस्याप्य ने केतैवैवमापद्यते, यत्स्वरूपाव्यतिरिक्तलक्षणा गुणा विना भेदेनोच्यन्ते तत् प्रधानमपि प्रधानेनाभिव्याप्तत्वादनवस्थितैकत्वतत्त्व - 5 प्रतिष्ठं 'प्रधानम्' इत्यतिदेश्यं स्यात् प्रधानस्वात्मत्वाद् गुणवत् । प्रत्यक्षार्थेदं विषयतायां वा व्यक्तमूर्ता नित्यादिरूपार्थप्रधानपरमार्थता ।
गुणास्त्वन्यत्वानेकत्व एव प्रधानम् । अवश्यमन्ये ते तस्मात्, तद्रूपापत्त्यनिष्टत्वात् गुणान्तरवत् । यतो गुणस्वात्मत्वमस्य नेष्यते । प्रधानातिदेशात् तु पुनः स्वेपर विषय कृतभेदद्वारानभ्युपगमे कस्यचित् कथञ्चिदप्यन्यस्यानुपपत्तौ तेऽप्यन्यत्वापत्तिवत् पृथक् पृथक् प्रधानम् । अथ प्रधानलक्षणापि प्रवृत्तिर्न 10 प्रधानं प्रधानमपि तर्हि न प्रधानं प्रधानलक्षणत्वात् प्रवृत्तिवत् । एवं शेषावपीति प्रधानाभाव एव, कुतोऽस्य सर्वगतता ? तदर्भाव एव त्वयाभिप्राय एवं प्रतिपाद्यते तदात्मत्वाभिमत निरसनादुष्णत्वनिरसनेनाश्यभावप्रतिपादनवत् ।
२७७
कृतं भङ्गचक्रावर्तनम्, आपादितं चैकैकपूर्वकमिदं 'नानेकैकपूर्वकम्' इत्येतदापन्नमित्याह - एवं चैकैकपूर्वकवादापत्तेरेवेति अवधारणार्थत्वादेवकारस्य ततश्च त्रिगुणप्रधानकारणकल्पनानर्थक्यमित्यत 15 आह- किमनेकात्मकैककल्पनया ? यदि प्रवृत्तिलक्षणं प्रधानमेवैकं प्रकाशनियमप्रवृत्तिरूपेण प्रवर्तते प्रवृत्तिरेव वैका त्रिगुणरूपा ततश्चोभयथाप्येकैककारणवाद एवेति पृथगात्मक त्रिगुणकारणकल्पनाव्याख्या आयासमात्रम् । तस्मादेकात्मकैकमेव व्यक्त्यन्तरसहस्र करणायानेकाकारं भवति, यथा प्राग्वर्णित पुरुषादिकारणपूर्वकानन्तप्रभेदजगत्सृष्टिसमर्थं यत् तदेवास्तु अनेकाकारम्, किं 'त्रिगुणम्' इत्येतावता ? इति । किञ्चान्यत्, यद्यपि त्वदुक्तैर्हेतुभिः सङ्घातपारार्थ्यादिभिः प्रकृतेरन्यः पुरुषः सिध्यति
सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात् कैवल्यर्थप्रवृत्तेश्च ॥ [ साङ्ख्यका० १७ ] इति,
Jain Education International
१ दृश्यतां पृ० २०९-२॥ २ 'कतैवेवमा प्र० ॥ ३ गुणस्त्वं प्र० । दृश्यतां पृ० २५७पं० २ ॥ ४ नवश्य प्र० ॥ ५ स्वविषयकृत प्र० ॥ ६ भाव एव त्वया ( त्वदभि ? ) प्राय एवं य० । 'भाव एवं भा० । दृश्यतां पृ० २५८ पं० ३ ॥ ७पत्ति भा० ॥ ८ ख्यायाममात्रं प्र० ॥ ९ का प्र० ॥ १० “ल्यार्थप्र" जे० साङ्ख्यका० A,B । ““ल्यार्थ प्र" मुद्रितसाङ्ख्य का० ॥ ११ चेतनो ह्यचेतनस्य भोक्तेति चेतनेऽचेतनस्य भोक्तृत्वं निर्बाधमेव ॥ १२ 'त्वाचं तेनै य० । त्वा तेनै भा० ॥ १३ तां तच्चैव ते पोग्गल परिणमंति ते भा० । क्तं तचैव ते प्पोग्गल परिणमंति ते य० । दृश्यतां पृ० २५७ - १, २५८-२ ॥
२०२-२
तथापि च तस्य कारणस्य चेतनादन्यत्वे सत्येवैतानि स्वरूपाणि स्थितानि, चेतनस्य परस्यार्थे प्रवृत्ते"रचेतनस्य भोक्तृत्वाद् रूपादिपरिणामिनोऽचेतनत्वाच्च तेनैवाचेतनत्वेनैकत्वं स्थितम्, न ह्याचैतन्यस्य भेदोSस्ति, परिणामित्वं चास्य तत एव स्थितम्, आपत्तिभवनस्य रूपादिरूपस्य परिणामाख्यत्वात् तस्य च सन्निधि- 25 भवनाद्भिन्नत्वात्, यथोक्तं" तेच्चैव ते पोग्गला सुष्भिगंधत्ताए परिणमंति ते चेव ते पोग्गला दुब्भिगंध
For Private & Personal Use Only
20
www.jainelibrary.org