________________
२७६
[तृतीये विध्युभयारे
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् प्रवृत्तिखात्मैव वा त्रीणीति पुरुषावस्थावत् ।
रूपनिरूप्यत्वाद् विनिद्रावस्थास्वात्मवदिति तथा प्रवृत्त्येकलक्षणमेव प्रधानं प्रवृत्त्यापत्तिरूपनिरूप्यत्वात् प्रवृत्तिस्वात्मवत्, *न ह्यसावितरात्मिका स्ववृत्तित्यागापत्तेः । तन्मात्रत्वे तु प्रधानस्यापि तद्वत् प्रकाशाद्यनात्मकत्वादसर्वगतत्वम् । 5 अथ प्रवृत्तिलक्षणमपि न प्रवृत्तिमात्रमेव प्रधानं सर्वत्वात्, न तु सर्वाणि एकस्यैव सर्वत्वात् , प्रवृत्तिरपि सर्वत्वात् प्रवृत्त्यात्मिका सती न प्रवृत्तिमात्रैव प्रवृत्तिलक्षणत्वात् प्रधानस्वात्मवत् । ततश्च प्रतिगुणं तस्याः सर्वात्मकत्वात् तृणाद्यपि सर्वगतमिति किं 'प्रधान कत्वम् इति कल्पनया? अतल्लक्षणत्वां द्वा] प्रवृत्तिगुणाभावः, ततश्च तत्तत्त्वत्रिगुणसर्वात्मकप्रधानाभावः ।
____ अथ प्रवृत्तिलक्षणविपरीतमपि प्रधान प्रधानमेव अवधारणभेदात्, गुणस्वात्मनि 'गुण एव लक्ष10 णम्' इत्यवधारणम् , प्रधाने तु 'प्रवृत्तिर्लक्षणमेव' इतरयोरप्यत्यागात्, तद्ध्य नेकरूपं मेचकवत् । न, २०१-२ उक्तवदवधारणस्यान्याय्यत्वात् प्रतिज्ञातव्याघाताद् घटरूपादित्ववत्, प्रधानत्वं प्रागुक्तं गुणानाम्
'अंजामेकां लोहितशुक्लकृष्णाम्' इत्यादि, इदानीं पृथक्स्वात्मानस्त उच्यन्ते इति तत्त्वं प्रधानस्य, न प्रधानत्वं तेषाम् , रूपादिघटत्वपक्षवत् । यदा च तेषामेव तत्त्वं ततस्तेषां [तथा ] तथेतरेतरात्मसु
अभावादवधारणभिन्नभिन्नार्थत्वाद् ननु तदेव सर्वासर्वगतत्वमिति लोकवदेव तत्त्वापत्तिः। 15 अथ सर्वसर्वात्मकत्वादविकल्पशब्दार्थत्वाँ[द]लक्षणमेव कथं तर्हि त्रिगुणवर्णनमनेकात्मकसर्व
गतत्वर्भावनं च? यदि अस्यैकैका प्रत्येकं गुणो न भवति ततोऽस्य कुतोऽसत्त्वात् तदेकत्वापत्यात्मिका अविकल्परूपता? न हि पृथगवृत्ते रूपे मेचकात्मके भवतः । असदेव तु तदेवम्, अगुणत्वेऽव्यात्मकत्वात् , खपुष्पवत् । त्वदुक्तेरेव च [न] तल्लक्ष्यं नार्थो न वस्तु, अलक्षणत्वात् , खपुष्पवत् ।
अथात इतश्चान्यतरोपादानपरित्यागायुक्तत्वात् तल्लक्षणाभावादस्यांवाच्यतैव, तथा तन्नैव स्यात् 20 प्रवृत्त्या सहैकत्वान्यत्वे प्रत्यवचनीयत्वात्, न तदेकं नान्यद् वाच्यम्, निरुपाख्यत्वात् । यत्तु सत् तत् प्रवृत्त्या सहकत्वान्यत्वे प्रति वचनीयम्, यथा प्रवृत्तिस्वात्मा प्रकाशनियमात्मानो वा अन्यतरोपग्राहपरित्यागायुक्तत्वादपि च ननूभययुक्तत्ववाच्यत्वाभ्युपगम एव पितृपुत्रवत् ।
प्रवृत्तिस्वात्मैव वा त्रीणीति पुरुषावस्थावदिति । यथैव हि यदि पुरुषस्वात्मा अवस्थाः न तर्हि ना अनवस्र्थत्वात् खपुष्पवदिति तथैव यदि प्रधानस्वात्मा गुणा न तर्हि प्रधानम् , अंगुणत्वात्, "खपुष्पवत । अभ्यपगमेऽपि त प्रधानस्य गुणानां त्रयाणामप्यैक्यं प्रधानत्वात्मत्वात् प्रधानवदिति सर्व त्वसम्भाव्याभावादेव सर्वाव्यापिता । प्रवृत्तिगुण एव हि प्रकाशगुणः प्रवृत्तिस्वात्मत्वात् प्रवृत्तिवत् , एवमितरोऽपि । प्रकाश एव प्रवृत्तिः प्रकाशस्वात्मत्वात् प्रकाशवत्, एवमितरोऽपि । नियम एव च प्रवृत्तिः नियमस्वात्मत्वाद् नियमवत्, एवमितरोऽपि । य एव चान्यो गुणः स एवेतरोऽपि एक त्वात्मत्वात् स इव [इति] 'प्रकृतिरेवेदं सर्वम्' इत्यतिदेशाभावो भेदाभावात् । 30 उपवर्णनभिन्नरूपव्यतिकरसङ्कराभ्यां त्वेवमतथात्वमेषामस्य च ततत्स्वात्मत्वादिति प्रधानगुण
१** एतचिहान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ २ दृश्यतां पृ. २४९ पं० १॥ ३ वाक्यमिदं प्र० २४४ पं० १२ इत्यत्रापि दृश्यते ॥ ४°त्वाप्र( त्वात्प्र?)वृत्ति प्र० ॥ ५ दृश्यतां पृ. २४९ पं० ६ ॥ ६ दृश्यतां पृ०२६६ पं०६। ७°त्वालक्ष भा० । त्वाल्लक्ष य० । दृश्यतां पृ० २५१ पं. ३,१६॥ ८°भावगं च प्र०॥ ९°स्यादतैव भा० । स्यदतैव य० । दृश्यतां पृ० २५२ पं० ३॥ १० ननुरूपयु य० ॥ ११ पुत्रत्ववत् य० ॥ १२ तर्हि ता ना अन प्र० । दृश्यतां पृ० २५३ पं० ६ ॥ १३ स्थात्वात् भा० ॥ १४ अ प्रतिषु नास्ति ॥ १५ सर्वत्रस प्र० ॥ १६ ततस्वात्मप्र० । दृश्यतां पृ० २५५ पं० २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org