________________
२४४
न्यायागमानुसारिणीवृत्यलङ्कृतम् [द्वितीये विधिविध्यरे स एकोऽनवयवः शब्दो वाक्यार्थः, न तु सर्वाणि । सङ्ग्रहदेशत्वाचास्य द्रव्या र्थता । भवति भवनं भावो द्रवतीति द्रव्यम् , न विकारावयवी ।
१७७-१
10
क्रमे भ्वर्थवचनमुपपद्यते, 'भुवं वदन्ति' इति भूवादयः, वादिशब्दस्य औणादिकेअन्तत्वात् तथा भूवादिशब्दव्याख्यानात्, नान्यथा । इत्युक्तः पदार्थः । 5 इदानीं वाक्यार्थ उच्यते - स एकोऽनवयवः शब्दो वाक्यार्थः, वाक्यं च वाक्यार्थश्च वाक्यार्थः, वाक्येन युक्तोऽर्थो वाक्यार्थः, वाक्यसम्बधी वाक्याद् वाक्यस्यैवार्थः । यथाहुः
आख्यातशब्दः सङ्घातो जातिः सङ्घातवर्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः ॥ पदमाद्यं पृथक सर्व पदं साकाङ्क्षमित्यपि ।
वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायदर्शिनाम् ॥ [वाक्यप० २।१,२] इति । तत्र यैः ‘एकोऽनवयवः शब्दः' इत्युक्तं तैर्विनिश्चित्योक्तं भवनस्यानवयवत्वात् तथैव पदवाक्यशब्दंतदर्थाद्यात्मत्वादिति । न तु सर्वाणि एकस्यैव सर्वत्वादिति चरितार्थ एष द्रव्यार्थो विधिविधिनयः, हेतोस्मिात् सङ्ग्रहदेशत्वाच्चास्य द्रव्यार्थतेति, सङ्ग्रहो द्रव्यार्थः, स पुनर्द्विविधः - सर्वसङ्ग्रहो देशसङ्ग्रहश्च, इत्येवमादिशतप्रस्तारोऽसावार्षे शतभेदश्रुतेर्नयानाम् । यथोक्तम् - एक्किको य सतविधो सत्त णयसता हैवंत्येवं [आव० 15नि० ७५९ ] इति । सङ्ग्रहस्यापि द्रव्यार्थता
तित्थकरवयणसंगहविसेसपत्थारमूलवाकरणी।
दव्वट्टिओ य पजवणयो य सेसा विकप्पा सिं ॥ [सन्मति० १६३ ] "तिवचनात् । द्रव्यार्थसमासश्च ऑदिनये व्याख्यातः । तस्मात् सङ्ग्रहदेशत्वात् तदवयवत्वादस्य द्रव्यातेति ।
द्रव्यशब्दस्य कोऽर्थः ? द्रवतीति द्रव्यम् , गुणसन्द्रावो द्रव्यम् [पा० म० भा० ५।१।११९], द्रव्यं 20 भव्यं योग्यं भू प्राप्तौ [पा० धा० १८४५] इति प्राप्तियोग्यमिष्टार्थप्राप्तियोग्यं दारु, 'क्रियावदादिलक्षणं द्रव्यम् , इत्येवमादि यथासम्भवं लक्षणं वाच्यम् । इह तु भवति भवनं भावः । 'भवति' प्राच्यचतुष्टये पुरुषादिस्वभावान्ते, भवनं भावोऽन्त्ये पूर्वोक्तवत् , पूर्वविरुद्धत्वान्नयानां द्रवति भवति गच्छति सततमिति द्रव्यं गत्यात्मकत्वात् द्रव्यं च भव्ये [पा० ५।३।१०४] इति वचनात् , न विकारावयवाँविति विधिनयायुक्तत्वाद् गतार्थम् ।
१ स्वर्थ य० । स्वार्थ भा० ॥ २ पद्य भुवं प्र० ॥ ३ "भूवादयो धातव इति । कथम् ? नेदमादिग्रहणम् । वदेरयमौणादिक इञ् कर्तृसाधनः - भुवं वदन्तीति भूवादय इति ।" इति पातञ्जलमहाभाष्ये ॥ ४ “वसिवपियजिराजिवजिसदिहनिवाशिवादिवारिभ्य इञ् ।५७४ ॥” इति पाणिनीयव्याकरणे उणादिषु चतुर्थपादे ॥ ५°संबंधा प्र०॥ ६'वाक्याद् वाक्यस्यैव वार्थः' इत्यपि पाठोऽत्र स्यात् ॥ ७°ब्दः तद य०॥ ८ न तु सर्वाणि पदानि वा इत्याशयः ॥ ९ चरितार्थ भा० ॥ १० सर्व प्रतिषु नास्ति ॥ ११ विहो सत्त नय य० ॥ १२ हवंत्येवमिति प्र०॥ १३ दृश्यतां पृ० ४ टि. २॥ १४ दृश्यतां पृ. ७५०८॥ १५ "क्रियावद् गुणवत् समवायिकारणमिति द्रव्यलक्षणम् ।" वै० सू० १।१।१५॥ १६ भवति भा० प्रतौ नास्ति ॥ १७ वाविधिविधिनया य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org