________________
पदार्थनिरूपणम्] द्वादशारं नयचक्रम्
२४३ __ ये त्वेते घटादिशब्दा मेघस्तनितवदेते शब्दा एव केवला नार्थस्वरूपस्य वाचका मयूरविरुतवत् सङ्केताद् व्यवहारानुपातिनस्तस्यैव चैकस्य ब्रह्मणो लक्षणार्थाः तदेकदेशत्वात् प्रागभिहितप्रत्यक्षसिद्धिवत् । एवं च कृत्वाहुः-सर्वधातवो भुवोऽर्थमभिदधति [ ] इति ।
मार्थस्य । यथोक्तम् -पण्णवणिजा भावा [आव० नि० ४८८ ] इत्यादि । आगमाभ्यासात्तु सम्यग्दर्शन-ज्ञान-5 चारित्र-तपोविशेषविशेषिताविद्यस्य सर्वभावविषया विद्या स्वयमेव स्वात्मनैव उपवर्तते, नाविद्यमाना कुतश्चिदानीयते, सा चानागमविकल्पेत्यत आह - अनागमविकल्पा तु स्वयं विद्योपवर्तते । तथा चान्यः
विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः।
तेषामत्यन्तसम्बन्धो नार्थाशब्दाः स्पृशन्त्यपि ॥ शब्दा इति शब्दगैडुमात्रप्रतिपत्तिहेतव इत्यत आह -ये त्वेते घटादिशब्दा मेघस्तनितवदेते 10 शब्दा एव केवला:, नार्थस्वरूपस्य वाचकाः, घटादिप्रतिपादनसमर्थाभिमता न प्रतिपादका इत्यर्थः । नन्विदं प्रसिद्धप्रस्तुतव्यवहारविरुद्धं त्वयोक्तम् - अर्थस्याप्रतिपादका घटादिशब्दा मेघस्तनितवच्छ्रोत्रग्राह्यत्वादिति, घटादिशब्दा इति च त्वद्वचनादेव तेषां घटाद्यर्थप्रतिपादनदर्शनादिति । अत्रोच्यते - न ब्रूमः 'अप्रतिपादकाः' इति । 'किं तर्हि ? अवाचका इति ब्रुमः, प्रतिपत्तृसङ्केतवशात् तदुपलक्षणत्वेन प्रतिपादकत्वं विकल्पात्मार्थविषयं न विरुध्यते, यस्माद् मयूरविरुतवत् सङ्केताद् व्यवहारानुपातिनः, यथा मयूरविरुतं 15 त्रासमहर्षस्थानगमनाद्यन्यतमावस्थाविशेषसहचरं श्रुतचरं तथोत्तरकाले कृतसङ्गीतेः पुरुषस्य तादृग् विज्ञानमादधाति एवं पुरुषोऽपि घटपटादिशब्दोच्चारणेन पूर्वसङ्केतवशात् पुरुषान्तराय स्वाभिप्रायमर्पयतीति न प्रसिद्धिव्यवहारविरोधौ, तथैव अचेतनशब्देष्वपि कालाकालमेघस्तनितादिषु सङ्केतादेव शुभाशुभादिपरिज्ञानं १७६.२ दृश्यते । अथवा किमनेन प्रसिद्धिव्यवहारविरोधपरिहारपंरिक्लेशेन ? नन्वयमेव सुश्लिष्टः परिहारो व्यापी च, तद्यथा-ते सर्व एव शब्दास्तस्यैव चैकस्य ब्रह्मणः पुरुषाद्यन्यतमविधिविधिनयविकल्पस्य यथोपपा- 20 दितं त्वया रुचितस्यान्यतमस्य लक्षणार्थाः तदेकदेशत्वात् प्रागभिहितप्रत्यक्षसिद्धिवत् । यथा 'गौविषाणी ककुद्मान प्रान्तेवालधिः सास्त्रावान्' इति यथैते विषाण्यादिशब्दा गोरेकदेशवाचित्वात् तदुपलक्षणार्थाः प्रसिद्धसङ्केतवशाद् गोरेव वाचकास्तवयवानां तस्मादभिन्नत्वादेवं सर्वशब्दास्तदवयवानां ततोऽपृथक्त्वात् तस्यैव ब्रह्मणो वाचका इति वाचकत्वेऽप्युपपन्नः प्रसिद्धिव्यवहाराविरोधः । अभिन्नैकभवनब्रह्मोपलक्षणार्थत्वे सर्वशब्दानां शब्दलक्षणविन्मतिसंवादि ज्ञापकमाह - एवं च कृत्वाहुः शब्दलक्षणविद इति 25 वाक्यशेषः । सर्वधातवो भुवोऽर्थमभिदधतीति तेषामप्यस्मिन्नेव दर्शने करोत्यादिधातूनां सत्तार्थानति
१ दृश्यतां पृ० ६ पं० ११ ॥ २ विशेषिताविद्यस्य विनाशिताविद्यस्य विशोषिताविद्यस्य विश्लेषिताविद्यस्येत्याशयः ॥ ३ नार्थाशब्दाः प्र० । दृश्यतां पृ० ४९८-१॥ ४ गतुमात्र प्र० ॥ ५ किं तर्हि अवाचका इति य० प्रतिषु नास्ति ॥ ६ दर्षस्था य० । दषस्था भा० ॥ ७ कालं भा० ॥ ८°रिक्लेशेनत्वयमेव प्र० ॥९ वादे भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org