________________
२४२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे एषु विधिविधिषु अविकल्पः शब्दार्थः, न त्वज्ञातः सर्वस्यैकत्वाद् यस्य कस्यचिज्ज्ञाने सर्वस्य ज्ञातत्वात् । अन्वाह
शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते ॥ अनागमविकल्पा तु स्वयं विद्योपवर्तते ॥ [वाक्यप० २१२३५]
5 ब्रह्म निर्विकारं 'स्तिमितं व्योमवदेव स्थितम् , नपुंसकॅनिर्देशः सर्वभेदाभिमतासद्विकारसाधारणत्वाद॑व्यक्ते गुणसन्देहे नपुंसकलिङ्गप्रयोगवचनात् , भवनापेक्षया वा नपुंसकम् । अकलुषमपि सदविद्यया ज्ञानाभासेन कलुषत्वमिवापन्नमनापन्नमपि अभेदरूपं सद् भेदरूपमाभाति । एवं तावदमलं मलरूपेणाभातीत्युक्तम् । इदानीमेकं सदनेकधा प्रविभज्यत इति ब्रुमः - तस्यैकमपीत्यादि । यथा उदन्वतां तोयमुत्पातेऽङ्गारराशिवत्
प्रज्वलदुपलक्ष्यते तथास्यानेकरूपता मिथ्यैव । प्रकृतित्वमिति, प्रकर्षेण कृतिः प्रकृतिर्घटपटादिप्रकारो 10भेदः, तद्भावमनापन्नानेव विकारांस्तानेव घटपटादीनात्मभावादप्रच्युतानेव नर्तकहस्तभ्रूक्षेपादिकल्पाना
करोति स स्वतः स्वात्मानं भाव एवाकाररूपेण सृजति उपसंहरति च, को दृष्टान्तः ? ऋतुधामेव, ऋतूनां ...धाम इन्द्रः, इन्द्र इव । निर्मलमाकाशं दृष्ट्वा वक्तारो भवन्ति - महावर्षस्य गर्भ इति, कुतो निर्मले नभसि वर्षसम्भवः ? तथापि तन्नैर्मल्याविनाशनेनैव शक्रः शक्रकार्मुक-शतहदा-महाघन-स्तनित-वर्षित-करका-धारावर्षादीन सृजत्युपसंहरति चेत्युच्यते क्षणेनैव पुनस्तादृग्वैमल्यदर्शनान्नभसः । यथेयं ऋतुधाम्नः सृष्टिः शुद्ध15 गगनाप्पृथग्भूतजलप्रकृतित्वाभिमतमेघादिरूपा तथा सर्वघटादिगवादिरूपा सृष्टि वादेवोपसंहारश्चेति भावविधिविधिनयः समाप्तः ॥
एवं तावद् वस्त्वर्थतो विधिविधिनयविकल्पाः पुरुष-नियति-काल-स्वभाव-भावा व्याख्याताः । अनया दिशा शब्दब्रह्मविधिविधिनयग्रहायेककारणवादा उन्नयनीयाः । इदानीं तेषु शब्दार्थो वक्तव्यः, स च
सामान्येनोच्यते सर्वेषां तुल्यत्वात् । स च द्विविधः - पदार्थो वाक्यार्थश्च । तत्र पदार्थस्तावत् - एषु 20 विधिविधिष्वविकल्पः शब्दार्थः, उक्तेषु पुरुषादिवादेष्ववस्थाद्युपचरितप्रक्रियाभेदकल्पितविकल्पासत्त्वात् तद्वस्तुनिर्विकल्पत्वात् । न त्वित्यादि, नाज्ञातः, सर्वस्यैकत्वाद् यस्य कस्यचिज्ज्ञाने सर्वस्य ज्ञातत्वात् । एतेन वक्तृत्वाद्यसमन्वयो व्याख्यातो दृष्टान्ताभावात् सर्वस्य सर्वज्ञत्वाद् भेदाभावात् । एतमर्थमन्योऽप्यन्वाहशास्त्रेषु प्रक्रिया । साङ्ख्ययोगवैशेषिकवेदशिरःप्रभृतिषु नृप्रकृतिपुरुषद्रव्यगुणादिनित्यानित्याद्वैतद्वैतत्रतादिपदार्थप्रक्रियाभेदैर्विकल्पात्मकपदार्थप्रणयने यथाप्रक्रियमविद्यैवोपवर्ण्यते विकल्पस्यावस्तुत्वात् । विद्या तु 25 तत्त्वज्ञानं सा आगमविकल्परूपा न भवितुमर्हति, वाग्गोचरातिक्रान्तत्वात् तत्त्वज्ञानविषयानन्तात्मकैकपर
१ स्तिमिरं प्र० ॥ २ व्योमदेव भा० । व्योमादवि य० ॥ ३°निर्देश सर्व भेदा य० । निर्देशा सर्व भेदा भा० ॥ ४ "एवं हि दृश्यते लोके-अनिर्मातेऽर्थे गुणसन्देहे च नपुंसकलिङ्गं प्रयुज्यते । 'किं जातम्' इत्युच्यते, द्वयं चैव हि जायते-स्त्री वा पुमान् वा । तथा विदूरेऽव्य तं रूपं दृष्ट्रा वक्तारो भवन्ति-'महिषीरूपमिव' 'ब्राह्मणीरूपमिव' ।" इति पातजलमहाभाष्ये १।२।६९ ॥ ५ °दिप्ररो भेदः भा० । 'दिपरो भेदः य० ॥ ६ र्तनकहस्त प्र० ॥ ७ विद्युत् ॥ ८ सृष्टिर्भावा प्र० ॥ ९ह्मविधिन प्र० ॥ १० °दिवाष्वेवस्थाभ्युप भा० । °दिष्वेवस्थाभ्युप य० । अत्र 'दिवादेष्वेवावस्थाद्युप इत्यपि पाठः स्यात् ॥ ११ दृश्यतां पृ० १७९ पं० ४ ॥ १२ त्वात् भेदा भा० । त्वात् सदा य० ॥ १३ षुतप्रकृति २० ही० विना । २० ही प्रत्योस्तु षु प्रकृति इति पाठः, स च समीचीन एवेति भाति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org