________________
भाववादिमतनिरूपणम्] द्वादशारं नयचक्रम्
२४१ ज्ञानत्रयेऽन्तर्भावाभावात् संशयनीयविपर्येतव्यविषयप्रत्यक्षात्यन्ताभावादाधिक्यावसायासम्भवाच्चानध्यवसायासम्भवात् । अन्वाह च
'यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ।। तथेदममृतं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रकाशते ॥ तस्यैकमपि चैतन्यं बहुधा प्रविभज्यते । अङ्गारकितमुत्पाते वारिराशेरिवोदकम् ॥ प्रकृतित्वमनापन्नान् विकारानाकरोति सः।
10 ऋतुधामेव ग्रीष्मान्ते महतो मेघसम्प्लवान् ।। [ ]
विशेषस्मृतेश्च संशयः [वै० सू० २।२।१७ ], तथा समानानेकधर्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः [न्यायसू० १॥१॥२३] इति सामान्यविशेषयोः प्रत्यक्षपूर्वकत्वे समानानेकधर्मत्वादीनि विशेषणानि स्युर्नान्यथा स्थाणुपुरुषादिष्विति संशयनीयार्थाभावान्न संशयः । तत एव विपर्थेतव्याभावान्न विपर्ययस्त्वन्मतेनैवेत्यत आह-संशयनीयविपर्येतव्यविषयप्रत्यक्षात्यन्ताभावात् । 15 अनध्यवसायोऽध्यवसायपूर्वः, स चाधिकोऽवसायोऽध्यवसायः प्रत्यक्षज्ञानम्, एतदभावस्योक्तत्वाद् नाध्यवसायोऽनध्यवसाय इत्याधिक्यावसायासम्भवाच्च तद्वयावृत्तिविषयानध्यवसायासम्भवाद् कुतोऽनध्यव-१७५-१ सायः ? तस्माद् यदुक्तं पुंढविकायिकादी जीवा अन्धा मूढतमपविट्ठा [भंगवतीसू० ७।७।२९२ ] इत्यादि तत् सत्यम् ।
अन्वाह चेति तस्मिन् जिनप्रवचनप्रसिद्धाभेदभावनिर्विकल्पविधिविधिनयदर्शने भेदाभासप्रत्यक्षा-20 नुमानसंशयविपर्ययानध्यवसायासम्भवमनुवर्तमानोऽन्योऽप्याह । यथा विशुद्धमाकाशमिति दृष्टान्तसमर्थनम् , तिमिरोपप्लुतदृष्टेविशुद्धे नभसि केशोन्दुकमशकमक्षिकामयूरचन्द्रिकादिमात्राभिरवयवैर्विततमिति निरवयवेऽप्यसङ्कीर्णे सङ्कीर्णदर्शनं भवति । तथेदमिति दार्टान्तिको भावैकपरमार्थः, अमरणादमृतमविनाशाद् बृहत्त्वाद्
१ "तथा ह्युक्तम्-यः सर्वपरिकल्पानामाभासेऽप्यनवस्थितः । तांगमानुमानेन बहुधा परिकल्पितः ॥१॥ व्यतीतो भेदसंसर्गों भावाभावौ क्रमाक्रमौ । सत्यानृते च विश्वात्मा प्रविवेकात् प्रकाशते ॥ २॥.... "प्रकृतित्वमपि प्राप्तान विकारानाकरोति सः । ऋतुधामेव ग्रीष्मान्ते महतो मेघसम्प्लवान् ॥ ४ ॥ तस्यैकमपि चैतन्यं बहुधा प्रविभज्यते । अङ्गारकितमुत्पाते वारिराशेरिवोदकम् ॥ ५॥..... 'यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥१०॥ जथेदममृतं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं विवर्तते ॥ ११ ॥" इत्युद्धृतमिदं कारिकाचतुष्टयं भर्तृहरिणा वाक्यपदीयवृत्तौ १।१॥ २ विपर्ययेण(विपर्ययि ? )तव्याभावान विपर्ययस्त्वन्मतेनैवेत्यत आह संशयनीयविपर्यये(यि ?)तव्य प्र० । विपरिपूर्वकोऽयधातुश्चेदत्राभिप्रेतस्तर्हि विपर्ययितव्य इति पाठः सङ्गच्छेत ॥ ३ पुढवी य० ॥ ४ "इमे भंते असन्निणो पाणा तं जहा-पुढ विकाइया जाव वणस्सइकाइया छट्ठा य एगइया तसा, एए णं अंधा मूढा तमंपविट्ठा तमपडलमोहजालपडिच्छण्णा अकामनिकरणं वेयणं वेदेंतीति वत्तव्वं सिया ? हंता गोयमा! जे इमे असन्निणो पाणा पुढविकाइया जाव वणस्सइकायिया छट्ठा य जाव वेयणं वेदेंतीति वत्तवं सिया।" इति भगवतीसूत्रे पाठः ७७१२९२॥ ५°मानोनोप्याह डे० लीं विना। मानोऽप्याह डे. ली.॥
नय० ३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org