________________
२४०
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [द्वितीये विधिविध्यरे अस्य प्रत्यक्षप्रमाणसिद्धिरिदेव, अन्यत्रानुमानतैव सम्बन्धैकदेशप्रत्यक्षत्वप्रत्ययशेषसिद्ध्यात्मकत्वात् । कुतोऽनुमानतापि ? सम्बद्धयोः कदाचिदग्रहणात् प्रत्यक्षपूर्वकत्वे तत्सम्भवात् तदभावे तदसिद्धेः । कुतोऽज्ञानमपि ? प्रत्यक्षपूर्वका
किञ्चान्यत् , अस्य प्रत्यक्षप्रमाणसिद्धिरिहैव, अभिन्नभावपक्षे प्रत्यक्षत्वाद् भावस्य प्रत्यक्षं प्रमाणं 5 सिध्यति, 'उक्तवत्' इति वर्तते । यथोक्तं तस्य ह्यकोऽपि प्रथनं प्रतिदेशः सर्वाविभक्तभवनवृत्त्यात्मकत्वात् सार्वरूप्यमनतिकान्तः, ततस्तद्भावत्वात् ततोऽभिन्नत्वात् तस्य य एकदेशस्तस्य ग्रहणे तस्यैव ग्रहणं देशस्वात्मवदित्युक्तं भावप्रत्यक्षत्वम् । ततः सर्वप्रमाणज्येष्ठप्रत्यक्षप्रमाणसिद्धिरिहैव यथार्थवस्तुविषयत्वात् । अन्यत्रानुमानतैव, भावकवस्तुपक्षादन्यत्र भेदपक्षेऽनुमानतैव प्रत्यक्षाभिमतस्यापि । किं कारणम् ? सम्बन्धैकदेशप्रत्यक्षत्वप्रत्ययशेषसिद्ध्यात्मकत्वात् , द्वयोः सम्बद्धयोः सम्बन्धे तदेकदेशप्रत्यक्षत्वे तत्प्रत्यया10च्छेषसिद्धिरात्मा अनुमानस्येति तदात्मकं तत् , सम्बद्धैकदेश इति वा पाठः, यथोक्तम् -
सम्बद्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम्। [ ] सम्बद्धानां भावानां स्वैस्वामिभावेन वेत्यादिना सप्तविधेन कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षो भवति ।
तस्मादिदानीमिन्द्रियप्रत्यक्षाच्छेषस्य अप्रत्यक्षस्यार्थस्य या सिद्धिरनुमानं तत्, यथा धूमदर्शनात १७४-२ 'अग्निः' इति ज्ञानम् । तथा आत्मेन्द्रियमनोऽर्थसन्निकर्षजपूर्वकं त्रिविधं पूर्ववदित्यादिलक्षणमेव तत्र 15 सम्भवति । देशग्रहणस्य आराद्भागविषयस्याशेषतद्वस्त्वसंस्पर्शादेकदेशग्रहणेन शेषग्रहणमनुमानमेव । तस्यानुमानत्वेऽपि मा स्थिरां बुद्धिं कार्षीरित्यत आह - कुतोऽनुमानताऽपि प्रोक्तन्यायेन प्रत्यक्षत्वासिद्धेः । कथमिति चेत् , सम्बद्धयोः कदाचिदप्यग्रहणात् , प्रत्यक्षकाले हि सम्बद्धयोर्युगपद् ग्रहणादुत्तरकालमेकदेशग्रहणाद् विषाणां दिव गवि अनुमानं स्यात् , तदेव तु प्रत्यक्षदर्शनं नास्तीत्युक्तम् । प्रत्यक्षपूर्वकत्वे तत्सम्भवात् प्रत्यक्षसिद्धौ तद्बलेन अनुमानसिद्धिः सम्भाव्येत, तदभावे तदसिद्धेः प्रत्यक्षत्वासिद्धर20 नन्तरोक्तत्वादेव कुतोऽनुमानतापि ? ।
इतरो निराशीभूत आह - तत् किमज्ञानमेवापद्यते ? आचार्य आह-कुतोऽज्ञानमपीति, अज्ञानमपि तन्न भवति त्वदभिमतं प्रत्यक्षम् । कुतः ? प्रत्यक्षपूर्वकाज्ञानत्रयेऽन्तर्भावाभावात् , संशयविपर्ययानध्यवसाया अज्ञानविकल्पाः, ते च प्रत्यक्षज्ञानपूर्वकाः, संशयस्तावत् सामान्य प्रत्यक्षाद् विशेषाप्रत्यक्षाद्
१ वर्तते य० प्रतिषु नास्ति ॥ २ दृश्यतां पृ० २३८ पं० ६॥ ३°प्रमाज्येष्ठ प्र० ॥ ४ यथावस्तु य० ॥ ५ "खखामिभावेन वा प्रकृतिविकारभावेन वा कार्यकारणभावेन वा निमित्तनैमित्तिकभावेन वा मात्रामात्रिकभावेन वा वध्यघातकभावेन वा कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षो भवति" इति वक्ष्यतेऽत्र नयचक्रवृत्तौ पृ० ४४५-२ । "एतेनैव 'मानानिमित्तसंयोगिविरोधिसहचारिभिः । स्वस्वामिवध्यघातायैः साङ्ख्यानां सप्तधानुमा ॥ १ ॥' इत्यपि पराकृतं वेदितव्यम् ।" इति न्यायवार्तिकतात्पर्यटीकायाम् ।।१।५॥ ६ “इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यव-सायात्मकं प्रत्यक्षम् । अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतो दृष्टं च ।" न्यायसू० १।१।४,५ ॥ ७°णदिव वि० विना । णादेव वि०॥ ८ सम्भाव्यते य० ॥ ९ तदसिद्धरनन्तरों भा० । तदसिद्धेः प्रत्यक्षत्वात्सिद्धेरनन्तरों वि०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org