________________
अभेदप्रतिपादनम्] द्वादशारं नयचक्रम्
२३९ प्रति देशः सर्वाविभक्तभवनवृत्त्यात्मकत्वात् सार्वरूप्यमनतिक्रान्तः, न चास्यो
धिस्तिर्यग्दिक्षु मूर्तिविवर्तप्रत्यङ्गानामेकत्वाभिमतभेदवत् कचिदवच्छेदो विद्यते । इति स ध्रुवः कूटस्थोऽविचाल्यनपायोपजनोऽविकार्यनुत्पत्तिरवृद्धिरव्यय उक्तवत् ।
२७
स्वात्मवत् , 'देशस्य स्वात्मा देशस्य भावः स्वं तत्त्वं भावादभिन्नत्वात् तद्भावाद् गृह्यते भाववत् तथा देशग्रहणे समस्तो भावस्तद्भावत्वाद् गृह्यते ।
____एतद्भावनार्थमाह -तस्य ोकोऽपि प्रथनं प्रति देशः, हिशब्दो यस्मादेर्थे, यस्मात् तस्यैकोऽपि देशः प्रख्यान सर्वाविभक्तभवनवृत्त्यात्मकत्वात् सर्वेण समस्तेन भावनाविभक्तः ‘भवनम्' इत्येवैकां वृत्तिमनुभवत्यात्मरूपामिति सोऽपि देशः सर्वभावात्मा प्रागुक्तप्राण्याद्यवयवपुरुषात्मत्ववत् , अत आह - तस्य ह्येकोऽपि प्रथनं प्रति देशः सर्वाविभक्तभवनवृत्त्यात्मकत्वात् सार्वरूप्यमनतिक्रान्तः । ततोऽनेन,... न्यायेन देशग्रहणे समस्तग्रहणमित्यभेदपक्ष एव दर्शनं नान्यत्रेति । नन्वेकदेशश्च स एव चेति विप्रतिषिद्ध-10 मिति चेत् , तन्न, ज्ञायमानत्वापेक्षयोक्तत्वात् , त्वन्मत्या सावयव इव निरवयवोऽपि प्रख्यातीति मया तथोक्तम् , परमार्थतस्तु निर्विभाग एवासावुक्तो वक्ष्यते च । अथवा प्रथनं विस्तारः, विस्तीर्णत्वात् तस्य भावस्य प्रथनं देशं प्रति इत्यदोषः । तस्माचाविभक्त इत्युक्तम् । अत आह -न चास्योर्ध्वाधस्तिर्यग्दिक्षु मूर्तिविवर्तप्रत्यङ्गानामेकत्वाभिमतभेदवत् कचिदवच्छेदो विद्यते दक्षिणोत्तरमथुरयोरपि, किमु घटपटयोर्भवनैकमूर्तिविवर्तानवच्छेदादिति । यथैकत्वाभिमतस्य भेदस्य घटादेर्मूर्तेः शरीरस्य विवर्तानां विभागाना-15 मूर्ध्वाधस्तियग्दिक्तयाङ्गावयवतया नापरः किन्तु प्रत्यङ्गतया च पुरुषपाण्यादिवत् कपालादित्वेन आभासमानानामेकोऽन्त्याभेदश्चक्षुरादिग्राह्या भिमत एकत्वाद् निर्विभागस्तथा भावविवर्तप्रत्यङ्गानां तदेकत्वाद् निर्विभागः। तस्माद् भावस्य न कचित् त्वदभिमतभेदवदेकत्वादवच्छेदो विद्यत इति यदि घटादित्वेन यदि रूपादित्वेन त्वदिष्टभेदवदेव । इतिशब्दो हेत्वर्थे, यस्माद् विभागावच्छेदाभावाद्धेतोः स भावो ध्रुवस्त्रिष्वपि कालेषु, कूटस्थो माषराशिस्थमाषवत् सर्वेणैकीभूत एव, अविचाली न स्थानात् स्थानान्तरं सङ्कामति, अनपायो-20 पजनः कोष्ठागाधान्यवद् निर्गमप्रवेशावपायोपजनौ भावस्य न स्तः, अविकार्यपि स्वस्थानस्थस्यापि नर्तकीभ्रक्षेपादिवद् विकाराभावात् , अनुत्पत्तिः प्रागभूत्वा घटादिवदुत्पत्त्यभावात् , अवृद्धिरङ्कुरपत्रवदुपचया-१०-१ भावात् , अव्ययो वृक्षादिपत्राद्यवयवखण्डादिवद् व्ययाभावात् । एतानि हि नित्यविशेषणानि भावस्यैव घटन्ते न पुरुषादीनाम् , अत्र भावे ध्रुवादिनित्यलक्षणयोगः परपरिकल्पितभेदासम्भविधर्मत्वेन व्याख्यातः स्वरूपतो निदर्शनाभावात् । उक्तवदिति च पूर्वोत्तरोत्पत्तिविनाशवस्तुप्रविभागाभावाद् युक्तो नित्यैकसर्वात्म-20 कत्वातिदेशः ।
१ तस्य देशस्य पा. डे० लीं. रं. ही०॥ २ दर्थो भा० । ३“अपि खलु ब्रह्मविद आहुः-'प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्पश्च' इति ।" इति भर्तृहरिविरचितायां वाक्यपदीयवृत्तौ ११९॥ ४ ततोन्येन प्र०॥ ५ चेत्तत्र झा भा० । चेनत्र ज्ञा य०॥ ६°च्चापि विभा० ॥ ७ "न चास्योर्ध्वमधस्तिर्यग्वा मूर्तिपरिवर्तप्रत्यङ्गाना क्वचिदवच्छेदोऽभ्युपगम्यते ।" इति भर्तृहरिविरचितायां वाक्यपदीयवृत्तौ १।१॥ ८°त्तरयोरपि य० ॥ ९ मेकोत्या. (मेकोऽन्त्यो ?) भेद भा० । भेकोत्याभेद पा० डे० ली. २० ही० । °मेकोत्यभेद वि०॥ १० तदभि प्र.॥ ११ दृश्यतां पृ० २१ पं० २२, पृ० २१२ टि० ४ ॥ १२ रधावद् प्र०॥ १३ व्याख्यातो स्वं प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org