________________
२३८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे अभेद एव तु गृह्यते प्रत्यक्षतः, भावस्याभिन्नत्वाद् गृह्यमाणस्य च भावत्वात् ।
अथ समस्त एव कस्माद् भावो न गृह्यते ? अथ भेदपक्षे किं समस्त एव घटो न गृह्यते ? समानदोषत्वादचोद्यमेतत् । स्वपक्षे विशेषं पश्यत एतद्युज्येत वक्तुम् , न तु सर्वत्रैवादर्शनभाक्पक्षस्य । 5 तत्तु अदर्शनमत्रैव निवर्तते, नान्यत्र । इहाभेदे भावे य एकदेशस्तस्य ग्रहणे तस्यैव ग्रहणम्, ततोऽभिन्नत्वात् तद्भावत्वात्, देशवात्मवत् । तस्य ह्यकोऽपि प्रथनं
खपुष्प इव खपुष्पवत् तत् प्रत्यक्षाभासमेवेत्यर्थः । यदप्युच्यते 'अभेदश्च न गृह्यते प्रत्यक्षतः' इति तदपि न, यस्मादभेद एव तु गृह्यते प्रत्यक्षतः । किं कारणम् ? भावस्याभिन्नत्वाद् गृह्यमाणस्य च
भावत्वात् , नाभावो गृह्यते यतः खपुष्पादिः। 10 ब्रूयास्त्वम् - अथ समस्त एव कस्माद् भावो न गृह्यत इति । अत्र तु समस्तग्रहणं वक्ष्यामः
सकारणम् , त्वद्वाहविनिवृत्त्यर्थं तावत् त्वां किञ्चित् पृच्छामो नाऽनाहतर्मुखो मूर्खस्तिष्ठतीति -अथ भेदपक्षे पश्यता त्वया घटं किं समस्त एव घटो न गृह्यत इति, पैरान्तादिभागाः किं न प्रत्यक्षाः ? आराद्भागा एव किं प्रत्यक्षाः ? इत्यत्र विशेषकारणं कथयेति । किञ्चान्यत् , समानदोषत्वादचोद्यमेतत् , उभयोः
समानो दोषो नासावेकतश्चोद्यते - भावस्य सर्वगतस्याप्रत्यक्षत्वदोषो मम नास्तीति । स्वपक्षे भेदस्य प्रत्यक्ष15 स्वादिविशेषं पश्यत एतद् युज्येत वक्तुम् 'इत्थं भवति तथा न भवति' इति । एतदपि सम्भावनयो१७३-१ च्यते, न तु सर्वत्रैव अदर्शनभाक् पक्षो यस्य तव तस्य न तु युज्यत एवेत्यर्थः, सर्वत्रैव न घटे न
रूपादौ वा न क्वचित् प्रत्यक्षता युज्यत इत्यर्थः । अथवा स्वपरपक्षयोः सर्वत्रैव । एतदुक्तं भवति - एवं हि स्वपक्षरागाविष्टो भवान् परमत्सरेण स्वदोषं नैव पश्यति स्वचरणलग्नपाशादर्शी प्रयोजनावस्थितामिषदर्शी
इव शकुनिः, त्वत्पक्षेऽत्यन्तदर्शनासम्भवादेव घटादेः प्रत्यक्षत्वाभावः । 20 इदानीमभेदपक्ष एव दर्शनं सम्भवति नान्यत्र इति वक्ष्याम इति यदुक्तं तद्दर्शयिष्यन्नाह -तत्तु
अदर्शनमिति । तत् पुनरदर्शनम् , तु विशेषे, विशेषेणात्रैव अभेदपक्ष एव निवर्तते, नान्यत्रेति न भेदपक्षे यावन्निरभिलाप्यत्वशो भेदादित्युक्तम् । दर्शनं तर्हि कथम् ? इति तत् समर्थयति - इहाभेदे भावे यदेतत् सर्वं तद् भाव एवाभिन्नत्वात् , तस्याभिन्नस्य भावस्य य एकदेशो घटस्तस्य ग्रहणे घटस्य ग्रहणे
तस्यैव ग्रहणम् भावस्यैव ग्रहणं समस्तस्य । किं कारणम् ? ततोऽभिन्नत्वात् , ततो भावाद् घटस्या25 भिन्नत्वात् घटाद्वा भावस्याभिन्नत्वात् । तद् व्याचष्टे - तद्भावत्वात् , तस्यापि भावत्वात् तद्भावत्वात् पर्यायान्तरेण हेत्वन्तरं वा, घटोऽपि भाव एव चाभिन्नत्वात् , यो यो भावः स स तहणे गृह्यते । दृष्टान्तो देश
१ दृश्यतां पृ० २३६ पं० ३ ॥ २°मुखोप॑स्तिष्ठत इति य० । मुखोद्(मुखो मूक ?)स्तिष्ठति भा० ॥ ३ दृश्यतां पृ० ९० पं० १८ ॥ ४ कथयति प्र०॥ ५ त्वादि विशेषं डे० लीं । त्वादिति विशेष भा० पा० वि० २० ही० ॥ ६ तद(तद्द ?)र्शनं भा०॥ ७ स एकदेशो प्र० । दृश्यतां पृ. २४० पं० ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org