________________
२३७
भेदनिराकरणम्
द्वादशारं नयचक्रम् भिद्यते कथश्चिदुपचितापचितभवनो वेति न काचिदवस्था दधिघटादिरादिनिधनविभागवती । यदि स्यात्, खपुष्पावस्थापि तत्रयधर्मा स्यात् सर्वतो व्यावृत्तत्वाद् दधिघटवत् । घटो वा आदिनिधनविभागरहितः स्यात्, अत एव, खपुष्पवत् । महापृथिवीवियदवस्थे सादिनिधनविभागे स्याताम् , इतरेतरासत्त्वात् , घटवत् । घटोऽपि वा अनाद्यादिः, अत एव, आकाशमहापृथिवीवत् ।।
ग्रहणमपि नैव भेदस्य, भेदस्याभावादेव, खपुष्पग्रहणवत् कल्पनात्मकत्वात् । देशकालभेदग्रहणमसदध्यारोपात्मकं देशकालभेदाभावात् खपुष्पवत् ।
'भिद्येऽहमिति कथञ्चिदभावोऽपि भवति, भावादभावो हि भिन्न उपचितापचितभवनो वेति स एव भावो न भिद्यत इति कथञ्चिदुपचितापचितभवनो वेति सम्बन्धः, यावद् भवितव्यं तावदेव न न्यूनो नाधिको वा भवति स भावः । इतिशब्दो हेत्वर्थे, उपचितापचितभवनाभावे दधिघटाद्यवस्थानामादिनिधन-10 विभागाभावदर्शनादिति हेतुः, तं दर्शयितुमाह - इति न काचिदवस्था दधिघटादिरादिनिधनविभागवती, आदिः प्रोगविद्यमानस्योत्पत्तिः, निधनं विद्यमानस्य विनाशः, विभागोऽन्यत्वम् , एते चादिनिधन- १७२-१ विभागा दधिघटाद्यवस्थानां न सन्ति पूर्वोत्तरोत्पत्तिविनाशवस्तुप्रविभागाभावस्य प्रतिपादितत्वात् । ततस्तदभावान्नोपचीयते नापचीयते चासौ भावः क्षीरदध्याद्यवस्थास्वेकरूपत्वाद् भवनस्य मृत्पिण्डघटाद्यवस्थासु चेति । एतस्य हेतोरसिद्धिं परिहरन् परपक्षेऽनिष्टापादनेन साधयति-यदि स्यादित्यादि, आदिनिधनविभागवती 15 यदि स्यात् सा दधिघटाद्यवस्था खपुष्पावस्थापि तत्र तत्रयधर्मा स्यात् सर्वतो व्यावृत्तत्वाद् दधिघटवत्, सर्वतो व्यावृत्तत्वं च सिद्धं घटस्य दधिघटाद्यवस्थानां च भेदाभ्युपगमात्, तथानिच्छतस्तद्विपर्ययेण खपुष्पधर्मापादनं घटस्य गतार्थं साधनद्वयम् । महापृथिवीवियदवस्थे सादिनिधनविभागे स्याताम् , इतरेतरासत्त्वाद् घटवत् । घटोऽपि वाऽनाद्यादिः अनादिरनिधनो निर्विभागश्च स्यादत एव इतरेतरासत्त्वादेव आकाशमहापृथिवीवदिति घटभेदाभ्युपगमेनैवैतत् साधनमनिष्टापादनमिति । एवं 20 ताक्दुपचितापचितभेदाभावः।
यदप्युक्तं प्रत्यक्षत एव भेदो गृह्यत इति तद् ग्रहणमपि नैव भेदस्य, भेदस्याभावादेव, खपुष्पग्रहणवत् । अभावः कल्पनात्मकत्वात् तस्य, भावैक्यस्य साधितत्वाद् भेदः कल्पनात्मकः, कल्पनात्मकं चासद् वस्तुनोऽन्यथात्वात् । सा च कल्पना देशतः कालतो वा स्वरूपत एव वा भिन्नेष्वर्थेष्वभेदकल्पनाद्वा स्यात् , देशकालाद्यभेदे वा भेदकल्पनात् स्यात् , उभयथाप्यसद्रूपत्वात् कल्पनायाः, इह तु त्वन्मतेन १७२-२ देशकालाभ्यामभेदो नास्ति, भेद एव, घटादेः कपालादित्वेन भिद्यमानस्य वस्तुनो यावत् परमाणुशो रूपादिशोऽनभिलाप्यत्वशश्च भेदादभेदाभावः कालतश्च क्षणे क्षणेऽन्यत्वात् । तस्मादनभिलाष्यपरमार्थस्य च वस्तुनो घट' इति रुंपादि इति वा ग्रहणमसदध्यारोपात्मकं देशकालभेदाभावात् खपुष्पवत् ,
१ भिद्यहमिति य० ॥ २ प्रागभिद्य प्र० ॥ ३ स्थायेकरूं' प्र० ॥ ४ तत्र तत् त्रय पा० डे० ली० । तत्र वत् त्रय भा० वि० २० ही० । अत्र 'खपुष्पावस्थापि तत्रयधर्मा स्यात्' इत्यपि पाठः स्यात् ॥ ५ दृश्यतां पृ० २३६ पं० २॥ ६°ल्पना स्यात् प्र०॥ ७ रूपादिरिति भा०॥.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org