________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे खपुष्पादिरसत्त्वात् । इति तत्त्वादेव कुतोऽत्र विकल्पः ?
ननु भेदः प्रत्यक्षत एव गृह्यते पूर्वोत्तरादिदिकालोत्पत्तिविनाशवस्तुप्रविभक्तत्वात्, अभेदश्च न गृह्यते। . अस्ति किञ्चिदिति भावव्यतिरेकेण पूर्वोत्तरादिदिकालोत्पत्तिविनाशवस्तुप्रवि5 भागाभावात् स एव ह्युत्पाताधुदकाग्नित्ववदन्यथा वर्तमानोऽन्यथापि वर्तत एव, न
स्तथा भावोऽपीति नास्ति विकल्पो भावस्य । अथापि स्याद्विकल्पः सोऽस्मन्मतेनैव न भेदाभ्युपगमेनेत्यत आह-विकल्पेन च भाव एव, नाभावः खपुष्पादिरसत्त्वादिति भाववदेवासौ भाव एकनित्यसर्वगतत्वादिधर्मा, तस्यैव घटपटादिना भवनम् , नास्य भेदः कश्चित् , भेदश्चाभावो भावानात्मकत्वादित्युक्तम् ।
तस्मादसत्त्वादसौ न विकल्प्येत भेदः खपुष्पवत् । अतः सम्भाव्यमानश्च स्वभाव एव विकल्पितः त्वन्म10तेऽपि तस्यापि भावस्य इति तत्वादेव प्रागुक्तहेतुप्रकारेण तत्त्वादेकत्वादेव कुतोऽत्र भावे विकल्पः ।
___ इतर आह-ननु भेदः प्रत्यक्षत इत्यादि यावदभेदश्च न गृह्यते । पूर्वोऽयमुत्तरो घट इति दिग्भेदेन, आदिग्रहणादूर्ध्वाधोदक्षिणापरभेदेन च गृह्यते घटादिः, तथा उत्पन्नो विनष्ट इत्युत्पत्तिविनाशाभ्याम् , वस्तुतोऽपि घटपटादिरूपरसादिस्वरूपभेदेन कृष्णो रक्तः खण्डः शकल इत्यादि, एभिः कारणैः प्रविभक्तत्वादर्थानां भेदेन गृह्यमाणानां कथं भेदाभावः ? पूर्वोत्तरशब्दाभ्यां देशकालपरिणामक्रमा अपि गृहीताः । 15 एवं प्रत्यक्षतो ग्रहणं भेदानाम् , अभेदश्च न गृह्यते 'प्रत्यक्षत एव' इति वर्तते । १७१-२ अनोच्यते-अस्ति किश्चिदित्यादि । पूर्वोत्तरादिभेदाभावं प्रतिपाद्य प्रत्यक्षत्वाभावं च प्रतिपाद
यिष्यन् भेदाभावप्रतिपादनार्थं तावदाह - अस्ति किञ्चिदिति भावव्यतिरेकेण पूर्वमुत्तरं वा नात्येव प्रागुक्तकारणत्वात् , ततः किं तदपूर्वं यदुत्पद्यते पूर्व वा विनश्यति ? इति पूर्वोत्तरयोरभावादेवोत्पत्तिविनाशौ न स्तः, तत एव वस्तुप्रैविभागोऽपि नास्ति । तस्मात् पूर्वोत्तरादिदिक्कालोत्पत्तिविनाशवस्तुप्रविभागा20 भावात् किं तत् प्रविभक्तं प्रविभज्यते प्रविभक्ष्यते वा ? यत् तदेवंधर्म तदेव नास्तीति नापूर्वं भावादन्यत् पूर्वोत्तराद्यस्ति, अतो नाभावो भेदो भवति । कथं तर्हि भेदप्रत्यक्षतेति चेत्, उच्यते -स एव ह्युत्पाताधुदकाग्नित्ववदित्यादि यावदन्यथापि वर्तत एव । यथोत्पाते ज्वलनमुदकस्य शीतद्रवादिगुणस्य, स तोये तद्विरोध्यग्नित्वधर्मापत्त्या दृष्टो भेदोऽन्यथा वर्तमानस्यान्यथा वर्तनम् । आदिग्रहणाद् निध्युपलिङ्गत्वेन भूम्यबादिवर्तनं भेदेन । तद्यथोक्तम् – महाकालगत ऊष्मा सहस्रसङ्ख्ये धूमो लक्षे ज्वलनं कोटौ [ ] इति । तथा चित्रकर्मादिहसनरोदनस्थानसङ्क्रान्त्यादिभेदरूपेण स एव भावो भवतीति तस्मा26 नास्ति भेदः । भिद्यमानं हि वस्तु एवं भिद्यते स्वरूपाद् विपर्ययगत्या यद्यभावो भवेद् भावः, स तु न
१च नाभाव एव नाभावः भा० ॥ २ स्वस्वभाव भा० । 'सम्भाव्यमानश्च स भाव एव' इत्यपि पाठोऽत्र स्यात् ॥ ३ प्रतिभागोऽपि नापि तस्मात् य० । प्रतिभागोऽपि तस्मात् भा०॥ ४°पादि प्र०॥ ५ महाकालगतो ऊष्मा वि० २० ही० । महाकालमतो ऊष्मा भा० पा० डे० ली० ॥ ६ यद्यभावो भावो भवेद्भावः यः । यद्यभावो भवो भावो भवेद्भावः भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org