________________
भावनिरूपणम् ] द्वादशारं नयचक्रम्
२३५ सदा, हस्त्यादिप्रपञ्चेन पुरुषस्यैव हस्त्यादिमृदादिभवनवत् । घटादेरभवनस्य भेदस्यासत्त्वमेव, भावाद् भिन्नत्वात् खरविषाणवत्, अघटत्वादात्मनाऽभावात् पटवत् ।
विकल्पो हि भेदसंसर्गपरिणामैर्भवेत् । न चास्य भेदो न संसर्गो न विपरिणामः, एकतत्त्वात्मकत्वात्, प्रतिखत्ववत् । विकल्पेन च भाव एव, नाभावः
तथा भवनमेव आत्माव्यतिरिक्तं साधनं साध्यं चैकमेव तथा तथा, अहेयमपरित्याज्यं भवनमेव व्रीह्यादि-5 विकल्पानन्येऽपि तदवस्थमेव, अप्रच्युतमात्मस्वरूपाद् भवनात् सदा सर्वकालम् । को दृष्टान्तः ? हेस्त्यादि यावद् भवनवत् , यथा नैटादिरभिनयपुरुषो हस्यश्वपर्वतसरित्समुद्रादिप्रपञ्चानभिनयति स्वतः सृजत्युप-१७० २ संहरति च तथा तथा भवनात् , 'ते च न हत्यादयोऽन्ये ततः केचिद् भेदेन भवन्ति, हेस्त्यादिप्रपञ्चेन तु पुरुष एव हस्त्यादिदादिश्च भवति, 'आदि'ग्रहणाच्चित्रलेप्यकाष्ठपुस्तादिर्भवति, तथा भवनमेव पृथिव्यम्बुमृदादि भवति, न भेदः कश्चिद् भवनाद् घटादेः, किं कारणम् ? एकत्रैवोपयुक्तार्थत्वात् । घंटादेरभवनस्य 10 भेदस्यासत्त्वमेव भावाद भिन्नत्वात् खरविषाणवत् । भावाद् भिन्नोऽपि घटो भवत्येव चेत्, तस्य भवने वन्ध्यापुत्रोऽपि भवेत् । एतस्य दिङ्मात्रत्वादघटत्वादात्मनाऽभावात् पटवत् , घटभवनं हि घटः, तदभावो भावाभावश्चाघटः, तस्मादघटत्वाद् घटात्मनाऽभावात् । एतमेवार्थं व्याचष्टे - आत्मनाऽभावादिति, साधनान्तरमेव वा अन्यात्मना भावादिति यावत् । पटवत् , यथा पदो घटात्मनाऽभवन् घटो न भवत्येवं घटोऽपि घटात्मना अभवनाद् घटो मा भूत् , घटात्मना अभवनं च भावाद् भिन्नत्वाभ्युपगमात् 15 सिद्धम् । न चेदेवम् , बन्ध्यापुत्रोऽपि भवेद् घटात्मनाऽभवनात् पटवत् । घटवदेव वा तद्भावाद् भेदाभावः, घटादिभेदाभावाच्च भाव एवाविकल्पोऽत्र सत्यः ।
इदानीं भेदकारणदिशमुद्राह्य दूषयिष्यन्नाह -विकल्पो हीत्यादि । विकल्पो न सत्यः, स तु भवन्नेभित्रिभिः कारणैर्भवेद् भेद-संसर्ग-परिणामैः । तत्र भेदेन घटाद् भिद्यमानात् कपालानि परस्परतो भिन्नानीति गृह्यन्ते । संसर्गेण तन्तूनां सङ्घातेन पटस्तन्तुभ्योऽन्य उत्पन्न इति । परिणामेन क्षीरं दधि-20 त्वेन परिणतम् , दधि क्षीरादन्यत् , एतेषां चान्यता उक्तिप्रयोजनादिनानात्वाल्लोके प्रसिद्धति, एता भेदवायुपपत्तयो भवन्त्यो भवेयुः । तत्र न चास्य भेदो न संसर्गो न विपरिणाम इत्येतास्तिस्रः प्रतिज्ञा एक-१७१-१ हेतुसाध्याः । कोऽसौ हेतुः ? उच्यते - एकतत्त्वात्मकत्वात् , तस्य भावस्तत्त्वम् , एकं तत्त्वमनन्यत् , स एवात्मास्य भाव इत्येकतत्त्वात्मा, तद्भावादेकतत्त्वात्मकत्वात् , प्रतिस्वत्ववत्, यथा स्वं स्वं प्रति प्रतिस्वं त्वन्मतेन भिन्नानामसाधारणः स्वात्मा यः स तु भाव इत्येवैकतत्त्वात्मकत्वान्न भेदसंसर्गपरिणामात्मक- 25
१ तथा अहेय २० ही० ॥ २ हस्तादि यावद् भा० । हस्ता यावद् य० ॥ ३ नघटादि भा० । घटादि य० ॥ ४ चेतन हस्त्या प्र० ॥ ५ हस्त्याप्रप प्र० ॥ ६ दिमृदा प्र०॥ ७°दिर्भवति भा० ॥ ८'ना घटादेः प्र०॥ ९ घटादिरभवनस्य भेवनस्य भेदस्या भा० । घटादिरभवनस्तस्याभवनस्य भेदस्या य०॥ १० एवमेवार्थ प्र०॥ ११ भवति भा० ॥ १२ भेदभाव घटादिभेदभावाच्च य० । भेदभावाच्च भा० ॥ १३ नरात्य य० । नारात्य भा०॥ १४ मा भाव य० ॥ १५ इत्येचैक भा० पा० डे० ली० । इत्येत्वैक २० ही । इत्येष्वैक वि० । अत्र इत्येकैक इत्यपि पाठः स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org