________________
२३४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे भेदो नाम घटादिर्भावव्यतिरिक्तः ? अथ न भवति तदस्तित्वमेव न । ननु घटस्य भाव इति पटादिव्यतिरेकेण घट एव, न, भावस्यैव तथा तथा भवनात् । न हि हस्तादौ भवति कुर्वति वा देवदत्तो न भवति न करोति वा । अतो भावत्वेऽभावत्वे वा नास्त्येव भेदो घटादिः। यं तं भुवोऽर्थमभिदधति सर्वधातवः । 5 तच्च प्रत्यवस्तमितनिरवशेषविशेषणं भवनं सर्ववस्तुगर्भः सर्वबिम्बसामान्यमभिन्नं बीजम् । तदेव हि भवनं व्रीह्यादि मृदादि च साध्यं साधनमेकमहेयमप्रच्युतं
एव अतः कोऽयं भेदो नाम घटादि वव्यतिरिक्त इति स्वयमेवोक्तो भेदाभावः । अथ न भवति भेदः भावो न भवति नानुभवति भवनं न वा भाव एवाभ्युपगम्यते तदस्तित्वमेव नाभ्युपेमः,
अभवनात् खरविषाणात्मवत् तत् । 10 इतर आह -ननु 'घटस्य भावः' इत्यव्यतिरेकषष्ठया व्यपदिश्यमानत्वात् पटादिव्यतिरेकेण
घट एवेति स्वतोऽपृथग्भूतेन भवनेन, ततः पटादिभेदेन भवनस्य कर्ता घट एवेति । अत्रोच्यते - न, भावस्यैव तथा तथा भवनात् , न ब्रूमो घटस्य भवनं न पटस्येति भेदव्यपदेशो नास्तीति, स पुनरुपचरितो घटादिभिरभिन्नस्यैकस्य भावस्यैव तथा तथा तेन [तेन] प्रकारेण घटपटादिना भवनात् , अन्यथा पटादयो न भवन्त्येव भवनव्यतिरिक्तत्वादित्युक्तम् । स एव हि भावो घटपटादिर्भवति हस्तादिभवनकरणयोः 15 पुरुषभवनकरणवत् घटादीनां भावाव्यतिरेकात् पुरुषाव्यतिरिक्तहस्तादिभवनवदिति । तदर्शयति-न हि १७०-१ हस्तादौ भवति कुर्वति वा देवदत्तो न भवति न करोति वा, हस्तादौ भवनकरणयोः कर्तृत्वं
प्रतिपद्यमाने तत्समुदायस्यावश्यं तत्प्रतिपत्तेः समुदयसमुदयिनोश्वानन्यत्वात् । तदुपसंहरति - अतो भावत्वेऽभावत्वे वा नास्त्येव भेदो घटादिरिति । भवने प्रस्तुते 'करोति'ग्रहणं किमर्थम् ? सर्वधातूनां
भवनार्थत्वप्रदर्शनार्थम् , तत आह-यं तं भुवोऽर्थमभिदधति सर्वधातव इति । एतस्माद् भावान्न 20 घटादिर्भिन्न इति ।
तच्च प्रत्यस्तमितनिरवशेषविशेषणं भवनम् , निमग्नानि निलीनानि प्रत्यस्तमितानि तत्रैव भावे निरवशेषाणि विशेषणानि स्व इति पर इति वा घेटः पट इत्यादि वा । तँच्च सर्ववस्तुगर्भः, तदेव भवनं सर्ववस्तूनां मूलदलिकम् । सर्वबिम्बसामान्यम् , मुद्राप्रतिमुद्रान्यायेन भिद्यमानानामात्मरूपाणां स्फटिकवदने(धा दृश्यमानानां बिम्बभूतानां प्रतिबिम्बभूतानां च सामान्यम् , अभिन्नं बीजमित्यादितत्स्वरूप25 वर्णनानि एवम्प्रकाराणि निर्विशेषणस्याप्यंशपरिकल्पनयेति । तत् कथं भाव्यते इति चेत् , उच्यते-तदेव हि भवनं ब्रीह्यादीत्यादि यावत् साधनमेकम् । भवनमेव व्रीहिबीजम् , आदिग्रहणादम्बुक्षेत्रकालादि अङ्करादि वा । तदेव च मृदादि मृल्लोष्टवज्राश्मसिकतादि च 'भवनमेव' इति वर्तते, साध्यं साधनं च भवति, पुरुषवादिव्याख्यानन्यायेन स्वयमेव विश्वमादि वर्तते, यथा तदभिन्नकर्तृकरणादि साधनं साध्यं च
१ तत् य० प्रतिषु नास्ति ॥ २ इति व्यति पा० डे० लीं० वि० ॥ ३ घटपट प्र०॥ तत्र सर्ववस्तुदाभा तदेव प्र०॥ ५मूलकंदली सर्व य० ॥ ६ कवाधा(कधा वा ?) दृश्य य० । कवा दृश्य भा० ॥ ७ स्याद्यश प्र०॥ ८°मेव भवन य० ॥ ९°दि च पा० डे० ली० वि०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |