________________
स्वभाववादिमतदूषणम्] द्वादशारं नयचक्रम्
२३३ किञ्चित्त्वाद् वस्तुत्वादर्थत्वादिभ्यः स्ववत् । __अयं च खभावः किं व्यापी प्रतिवस्तु परिसमाप्तो वा ? व्यापित्वे त्यक्तखपरविशेषणः स्यात् । प्रतिवस्तुत्वे किं तेन कल्पितेनाभिन्नफलेन लोकवादात् । प्रत्येकमात्रवृत्ति च वस्तु घटायेव घटादीतीतरेतराभावात् परस्परमस्वभवनपरिग्रहात् कुतः क चासौ स्वभावः स्यात् ? भावविषयैकार्थे स्वत्वे न किञ्चिदन्यत् खं नामेति किमत्र भेदेन क्रियते घटादिना पटादिभावविशिष्टेन ? सोऽपि यदि भाव एव कोऽयं
व्यावर्त्यते तदपि च भवेदेव व्यावय॑त्वादब्राह्मणवत् , वैधर्येण नासत् तत् , कुतः ? असतोऽप्रसक्त-१६९.१ त्वादप्रसक्तस्य चाव्यावत्यत्वात् खपुष्पवत् । व्यावय॑स्य सत्त्वेऽनुमानान्तरमप्याह -किञ्चित्त्वाद् वस्तुत्वादर्थत्वात् , आदिग्रहणात् प्रमेय-ज्ञेय-सत्त्वादिभ्योऽपि । दृष्टान्तः स्ववदिति, यथा स्वं व्यावाद् विभक्तत्वात् किञ्चिद् वस्तु अर्थः प्रमेयं ज्ञेयं सच्च तथा व्यावर्त्यमपि सज्ज्ञेयं प्रमेयमर्थो वस्तु 10 किश्चिद्वा प्रसक्तत्वादेव, तस्माद् भवेदेव ।
किञ्चान्यत् , अयं च स्वभाव इत्यादि । अयं च त्वदिष्टः स्वशब्दविशिष्टो भावः स्वभावः किं व्यापी प्रतिवस्तु परिसमाप्तो वा? यदि व्यापी सर्वगत एक एव तस्मिन् व्यापित्वे त्यक्तस्वपरविशेषणः स्यात् , एकरूपत्वात् तस्य पररूपाभावात् स्वशब्दोपादानं परशब्दोपादानं च निरर्थकमेव । अथ वस्तुनि वस्तुनि परिसमाप्तः प्रतिवस्तु ततः प्रतिवस्तुत्वे किं तेन कल्पितेनाभिन्नफलेन लोकवादात् ? 15 लोकवादो हि 'घटस्य घटत्वमेव स्वभावो नान्यः, पटस्य पट एव' इति श्रूयते, घटादिपृथग्भूतो न कश्चिदेक इति । स यदि तथा प्रतिवस्तु कल्प्यते नै कश्चित् तेन लोकवादाभिन्नफलेनार्थः कल्पितेन । तस्मान्नैकः कश्चित् स्वभावो यथा पूर्व स्वभाववाद्युपवर्णितः सिध्यति । किं तर्हि ? लौकिक एव सिध्यति । किश्चान्यत्, स्वभावाभाव एव प्रसक्तः, तद्यथा-प्रत्येकमात्रवृत्ति च वैस्तु घटायेव घादीति, घट एव घटः पट एव पटः पटे घटो नास्ति न घटे पट इतीतरेतराभावात् परस्परमस्वभवनपरिग्रहः 20 कृतो भवति, ततः परस्परमस्वभवनपरिग्रहात् कुतः क चासौ स्वभावः स्यात् ? यापपत्तिद्वारेणार्थः तत इदमुपपत्तिमुखमस्य, भावविषयैकार्थे स्वत्वे स्वत्वादनन्यो भावः, य एव भावः १६९-२ स एव स्व इत्यनयोरनर्थान्तरत्वमेवेति सत्यं न किञ्चिदन्यत् स्वं नामेति, 'इति'शब्दो हेत्वर्थे, ततः किमत्र भेदेन क्रियते घटादिना पटादिभावविशिष्टेन? द्रव्यार्थस्वरूपस्याभिन्नत्वात् । भेदेन यदुच्यते घट इति पटादिना भावव्यावर्तनार्थं भेदेन 'घटस्य भावो न पटस्य' इति 'स्वो भावो न 25 परभावः' इति च पुरुषादिवादवद् भेदाँधारं तेन किं कल्पितेन द्रव्यार्थस्वरूपविरोधिना भेदाधारेणेति । सोऽपि यदीति सोऽपि च घौदिर्भेदो भोवो वा यदि भावः भवतीति भाव एव भावस्वरूपादभिन्न
१ व्यावर्त्यत तदपि य० । व्यावर्त्यत तदपि भा० ॥ २ अत्र 'व्यावर्त्यत्वाद् ब्राह्मणवत्' इत्यपि पाठः स्यात् ॥ ३ न किंचित्तेन प्र० ॥ ४ पूर्वस्वभाव प्र०॥ ५ वस्तु य० प्रतिषु नास्ति ॥ ६°दीनि प्र० ॥ ७ भेदावारं तेर किं कल्पतेन प्र० ॥ ८°दिभेदो य० ॥ ९ भावो वाप्यदे भावो वा यदि प्र०॥..
नय० ३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org