________________
२३२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे योऽर्थाभावार्थत्वादस्वाभवने वर्तेत, स तत्रोपक्षीणशक्तित्वात स्वभवनस्य न प्रयोजकः । एतदपि चावभवनव्यावर्तनं खशब्दस्य नैवास्ति, अवस्याभूतत्वात् । न चाभूतो व्यावर्तनाय । अथ स तथाभूत एव ततः स भाव एव, किं व्यावृत्त्या अनर्थिकया ? तद्भावत्वप्रसङ्गात्, अब्राह्मणवचने ब्राह्मणत्ववत् । यदपि व्यावत्यते 5 तदपि च भवेदेव, असतोऽप्रसक्तत्वादप्रसक्तस्य चाव्यावत्यत्वात् खपुष्पवत् ,
नार्थः, स्वो भावोऽस्वो भावो न भवतीत्यस्वव्यावर्तनं तस्यार्थः, स्वशब्दश्च भावस्यैवात्मपर्यायस्य वाचकः, तस्माद् विशेषणत्वादस्वव्यावर्तनार्थः सम्पद्यते । तदर्थत्वाच्च इतरेतराभावमात्रविषयः, स्वः परो न
भवति परोऽपि स्वो न भवतीति स्वपराभावादितरेतराभावोऽर्थाभावो भावाभाव इति यावत् । ततश्चार्था१६८-२ भावार्थत्वादस्वाभवने वर्तेत 'अस्वो न भवति' इत्येषोऽस्य मुख्योऽर्थो जायते न तु भावस्वरूपप्रतिपाद10 नमिति भावार्थासंस्पर्शान्न किञ्चिदनेन ।
स्यान्मतम् -भावमपि ब्रूत इति, एतच्चायुक्तम् , यस्मात् स तत्रोपक्षीणशक्तित्वात् स्वभवनस्य न प्रयोजकः, अतिभार एष हि शब्दस्य यदेकः स्वशब्दः परभवनव्यावृत्तिं स्वभवनप्रतिपादनं च युगपत् सकृदुच्चरितः कुर्यात् , अतो न प्रयोजको न वाचक इत्यर्थः । अर्थो वास्य स्वशब्दस्य स्वशब्दं न प्रयोजयति
शब्दवृत्तिविरोधात् । तस्मादस्वभवनव्यावर्तनमेवार्थः । एतदपि चास्वभवनव्यावर्तनं स्वशब्दस्य 15 नैवास्ति । किन्त्वर्थाद्गतेरभ्युपेत्य एतद् विचारितम् । किमर्थं नास्तीति चेत्, उच्यते - अस्वस्याभूतत्वात्
स्वस्यैव भूतत्वाद् भावस्यैव भूतत्वादित्यर्थः । स्वशब्दार्थाभावान्न स्वशब्दं प्रयोजयति वन्ध्यापुत्रवत् । तदभावाद् भावशब्दव्यतिरिक्तार्थविषया भिमतः स्वशब्दोऽपि नास्तीत्यत आह -न चाभूतो व्यावर्तनाय प्रभवतीति वाक्यशेषः, अभूतत्वाद् वन्ध्यासुतवत् ।
अथ सोऽर्थोऽस्वस्तथाभूत एव ततः स भाव एव, भावादेव तस्य स्वशब्दवाच्यार्थस्य भाव20 शब्दवाच्यार्थवत् किं व्यावृत्त्यानर्थिकया? इति स्वशब्दस्य व्यावाभावाद् व्यावृत्तिरनर्थिका, व्याव
ार्थाभावश्च तस्य भावत्वाद् भाववदित्युक्तः । स्यान्मतम् - तस्य व्यावय॑स्याभावाद् व्यावर्त्यता विशेषणार्थवत्ता चेति, एतच्चायुक्तम् , तद्भावत्वप्रसङ्गात्, न ह्यसतः प्रसङ्गोऽस्ति, अप्रसक्तस्य च व्यावर्त्यता नास्ति अब्राह्मणवचने ब्राह्मणत्ववत् , न ह्यब्राह्मणवचने ब्राह्मणोऽप्रसक्तो व्यावर्त्यते, यथोक्तं नजिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थ[गतिः] [पा० वा० ३।१।१२] इति । भावशब्दार्थव्युत्पत्त्यर्थं कर्थोपादा25 नाद् 'यदयं भवति' इति भावशब्दस्य अयंशब्दविशिष्टस्य स्वरूपोक्तः स्वशब्दोऽप्यनर्थकः । तस्माद् यदपि
१°भावार्थाभावो प्र० ॥ २ वाभ्य य० । वाच्य भा० ॥ ३ वृत्तवि प्र० ॥ ४ भूतत्वाद् भावस्यैव य० प्रतिषु नास्ति ॥ ५ सोश्वस्तथा य० ॥ ६ भाववादित्युक्त प्र० ॥ ७ “नअिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः [ पा० वा०] । नयुक्तमिवयुक्तं वा यत् किञ्चिदिह दृश्यते तत्रान्यस्मिंस्त सदृशे कार्य विज्ञायते, तथा ह्यर्थों गम्यते, 'अब्राह्मणमानय' इत्युक्ते ब्राह्मणसदृश एवानीयते, नासौ लोष्टमानीय कृती भवति ।" इति पातञ्जलमहाभाष्ये पाठः ३।१।१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org