________________
२३१
अथ भाववादः]
द्वादशारं नयचक्रम् स्मनां तन्मयत्वे कार्यत्वानेकत्वानित्यत्वासर्वत्वानि पुरुषस्यैव प्राप्तानि । अवस्थावच्च पूर्वादिनियत्यादिष्वपि ।
खभाववादे तु अतिशयश्चायम् , आदावेव भेदोपादानात् सम्भववद्व्यभिचारवृत्त्यनुमत्या भावविशेषणवशब्दोपादानात् तथैव चार्थस्य निरूपणात् । यदयं भवति भूयतेऽनेनेति वा भावः । वंशब्दोऽखव्यावर्तनार्थ इतरेतराभावमात्रविष-5
त्मनां तन्मयत्वे चेतनैककारणात्मत्वे कार्यत्वानेकत्वानित्यत्वासर्वत्वानि पुरुषस्यैव प्राप्तानि तन्मयत्वात् प्रत्येकपरिसमाप्तत्वाच्च तेषां प्रत्यक्षत उपलभ्यत्वाच्च । तस्मात् पुरुषस्यैकनित्यकारणसर्वत्वानि निराक्रियन्तेऽवस्थानां कार्यकारणात्मनां पुरुषमयत्वादित्युक्तः पुरुषात्मकत्वप्रतिपादनयत्नस्य द्रव्यार्थवृत्तसर्वैकत्वाद्यभिमतिनिराकरणदोषोऽवस्थाश्रयणात् । अवस्थावच्च पूर्वादिनियत्यादिष्वपीत्यतिदेशेन नियतिकालस्वभावेष्वपि स्वाभिमतिनिराकरणं तेषामपि दर्शयति । अवस्थावच्चेति यथा सुप्तसुषुप्तजाग्रद्विमुक्त्यवस्थाभेदेन भिन्नान्य-10 रूपोपादानेनैव स्वाभिमतिनिराकृतिः पुरुषवादेऽभिहिता तथा बाल्यादिपूर्वोत्तरावस्थासु तथानियतिवर्तनास्वभावादिभेदाभ्युपगमादेव स्वाभिमतनियत्यादिनिराकरणम् ।
स्वभाववादे तु, 'तु'शब्दो विशेषणे, विशेषोऽस्य स्वमतनिराकरणदोषादतिशयश्चायम् । किं कारणम् ? आदावेव भेदोपादानात् , इतरे सृष्टिप्रदर्शनद्वारेण दूरं गत्वा पश्चाद् भेदमुपाददते, स्वभाववादी पुनरुत्थान एव भेदमुपादत्त इत्ययमतिशयः । कुतो भेदोपादानमिति चेत्, सम्भववद्वयभिचार-15 वृत्त्यनुमत्या भावविशेषणस्वशब्दोपादानात् । सति सम्भवे व्यभिचारे च विशेषणम् , यथा नीलमुपलमिति नीलत्वं चेदुत्पले सम्भवति व्यभिचरति च कदाचित् , रक्तमपि तद् दृष्टमुत्पलं भ्रमरादिषु च १६८-१ नीलत्वम् , अतो विशेषणं भवति नीलं च तदुत्पलं च तदिति एवं भेदवृत्त्यनुमत्या विना विशेषणोपादानाभावात् , तथेहापि भावशब्दवाच्यस्यार्थस्य स्वशब्दाभिधेयविशेषणार्थं स्वशब्दोपादानं भेदाधारसँम्भववद्वयभिचारवृत्त्यनुमत्यैव सहितम् , यथा सम्भवानुमत्या विना न विशेषणं तथा नान्तरेण व्यभिचारमपि विशे- 20 षणं भवति । तत्र व्यभिचारो विरुध्यते द्रव्यार्थवादस्यैक्यादित्यभिप्रायार्थः । तथैव चार्थस्य निरूपणादिति, न केवलं स्वशब्दोपादानमात्रादेव भेदोऽङ्गीकृतः, किं तर्हि ? अर्थोऽपि भूम्यादिकण्टकादित्वेन तथा निरूप्यते उत्तरेण ग्रन्थेन भेदप्राधान्येनैवें भावीकृतेनार्थोऽपि भिन्नो विशेषणत्वेनोपादातुं योग्यः, तद्यथायदयं भवतीत्यादि, तत्र स्वशब्दभावशब्दयोरर्थव्युत्पत्त्योर्भावशब्दार्थव्युत्पत्तिस्तावदू भाववादिनः स्वभाववादिनश्चावयोः शब्दार्थव्युत्पत्तिर्भावशब्दस्य भवतीति भावो भूयतेऽनेनेति वा भाव इति तुल्या, तस्यां 25 च तुल्यतायां न कश्चिद् विसंवादः । स्वंशब्दोऽर्थो वा विशेषणत्वेन प्रवर्तमानश्चिन्यः, "सोऽस्वव्यावर्त
१°र्नियत्या भा० ॥ २ विशेषास्य प्र०॥ ३ भवतीति य० ॥ ४ सम्भवद्वयभि प्र० ॥ ५ भेदेन प्रा य० ॥ ६ वाभावीकृतेना य० । वाभावीकृतेर्ना भा०॥ ७°णत्वेन नोपाय० ॥ ८त्पत्त्योभा भा० । पत्तोभा य० ॥ ९ वशब्दार्थो य०॥ १० अत्र 'स्खोऽस्वव्यावर्तनार्थः' इत्यपि पाठः स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org