SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २३० न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे __खभावानभ्युपगमे तु न साधनं न दूषणं च खभावापेतावयवार्थवादित्वादिति वादहानं ते। अयं सर्वोऽपि यत्नः सोऽन्यभिन्नस्वरूपोपादानेनैव स्वाभिमतिनिराकरणाय भवति । पुरुषवादे तावज्ज्ञानमयो न रूपादिमयः, रूपादीनां तन्मयत्वात् । कार्या 5 सर्वचोद्येष्वित्यतिदेशः, यथा 'भव्याभव्यसंसारोच्छित्त्यनुच्छित्त्योर्विशेषहेतुर्वाच्यः' इति चोदिते स्वभावादेवेति व्यवस्थोक्ता तथा 'जीवाजीवरूप्यरूपिसक्रियाक्रियत्वादिविशेषाः कुतः' इति चोदिते स्वभावादेव व्यवस्थावश्यमाश्रयणीया। स्वभावानभ्युपगमे त्वित्यादि यावद् वादहानं ते इति । यदि स्वभावो नाभ्युपगम्यते ततः साधनदूषणाभावस्ततो वादत्यागः, तद्यथा- पक्षहेतुदृष्टान्तादयः स्वेन भावेन सम्पन्नाः साधनम् , पक्षः 10 साध्यत्वेनेप्सितो यदि विरुद्धार्थानिराकृतः, हेतुः पक्षधर्मः सपक्षे सन् विपक्षाद् व्यावृत्तः, दृष्टान्तः साध्या नुगतहेतुप्रदर्शनमसति साध्ये हेत्वसत्त्वप्रदर्शनं च । तद्विपर्यये तदाभासा इति साभासं साधनं स्वेन भावेन १६७१ भवति । तत्साधनदोषोद्भावनं दूषणं तदन्यथोक्तिर्दूषणाभास इति च स्वेन भावेन व्यवस्थितमभ्युपगम्य साधनं दूषणं च साभासं विवदिषुरसि संवृत्तः, अन्यथा न साधनं न दूषणं च स्वभावापेतावयवार्थवादित्वादिति वादत्यागस्ते प्राप्तः । तस्मात् स्वभाव एव प्रभुविभुत्वाभ्यां कारणं जगत इति । एवं तावत् 15 स्वभाववादः। अनया च दिशा शब्दब्रह्मतत्त्वभेदसंसर्गरूपविवर्तमात्रमिदं जगदिति । यथोक्तम् - अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ [वाक्यप० १११] इत्यादिकारणवादा भिद्यन्ते संज्ञादिभेदात् । ते पुनः सर्वेऽपि परमार्थद्रव्यार्थस्य विधिविधिनयस्य स्वरूपम20 स्पृशन्त एव प्रवर्तन्ते, यस्मात् सङ्केपेणायं सर्वोऽपि यत्नः सोऽन्यभिन्नस्वरूपोपादानेनैव स्वाभिमतिनिराकरणाय भवति, तद्यथा-पुरुषवादिनः पुरुषादन्यदवस्तु अपुरुषत्वाद् वन्ध्यापुत्रवत् तथा नियतेरन्यदनियतित्वाद् वर्तनादन्यदर्तनत्वात् स्वभावादन्यदस्वभावत्वाद् बन्ध्यासुतवदवस्तु इति ब्रुवतां पुरुषनियतिकालस्वभाववादिनामात्मात्मवस्तुनो द्रव्यार्थवृत्तस्य तत्परमार्थस्य तत्त्वानां सर्वैकत्वनित्यत्वकारणमात्रत्व सर्वगतत्वानां धर्माणां प्रतिपादनार्थमुद्यतानां वादिनाम् 'अन्यदवस्तु' इति स्वतो भिन्नान्यार्थाभ्युपगमेनैव 25 तत्प्रतिपादनं नान्यथेति तत्प्रतिपादनार्थो यत्नः सोऽयमन्यभिन्नरूपोपादानमन्तरेण नास्तीति स यत्नः स्वाभि मतपुरुषाद्यर्थनिराकरणायैव भवत्यन्यभिन्नार्थाभ्युपगमात् । १६७-२ कथम् ? इति तद्दर्शयति -पुरुषवादे तावज्ज्ञानमयोन रूपादिमय इति, रूपादीनां तत्सुषुप्तावस्थामात्रत्वाभिमतानां तन्मयत्वात् ज्ञानात्मकपुरुषमयत्वात् । तानि च रूपादीनि कार्यात्मानः, कार्या १ रोच्छित्योर्वि प्र० ॥२ °सक्रियाक्रियत्वाद्विशेषः भा० । सक्रियत्वाद्विशेषाः य० ॥ ३°वस्यमा डे० ली० ॥ ४°तुदर्शन प्र० ॥ ५ भासा प्र०॥ ६°वर्तनात्वात् भा० पा० ॥ ७ °मेनैवं प्र० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy