________________
द्वादशारं नयचक्रम्
स्वभाववादिमतनिरूपणम्]
२२९ अन्तरेणापि धातुवादं कनकाविर्भावस्तथा कर्मविवेकखाभाव्यादेव भव्यजीवानामात्माविर्भावः, सम्यग्दर्शनज्ञानपूर्विकया तु क्रियया प्राचुर्येण कैवल्यप्राप्तिर्धातुवादक्रिययेव कनकोत्पत्तिः, केषाश्चिदनाविर्भाव एव कर्माविवेकवाभाव्यात् । __एवं च तदुभयस्वभाववर्णनादभव्यंजीवकर्मणोः............. । भव्यस्य तु विशुद्धि......' । यदि हेतुरन्यो मृग्येत तेनानन्त्यमस्यापि स्यात्, अनादित्वात् , , आकाशवत् । तदन्तवत्त्वे वाकाशमपि सान्तं स्यात्, अनादित्वात् , भव्यकर्मवत् । अथाप्यस्यानादित्वेऽहेतुरन्तो भवति तथा आदिः सिद्धकर्मसन्तानस्य कस्मान्न भवति ? इति स्वभाव एव शरणं तदुपायखभावो मोक्ष इति । एवं सर्वचोयेषु ।
कैवल्यं यथा भरतमरुदेव्यादीनामित्यत आह तदृष्टान्तत्वेन - अन्तरेणापि धातुवादं कनकाविर्भावस्तथा कर्मविवेकस्वाभाव्यादेव भव्यजीवानामात्माविर्भावः, सम्यग्दर्शनज्ञानपूर्विकया तु क्रियया प्राचुर्येण कैवल्य- 10 प्राप्तिर्धातुवाद क्रिययेव कनकोत्पत्तिरिति स्वभाववैचित्र्यादेव, तथा केषाञ्चिदनाविर्भाव एव कर्माविवेकस्वाभाव्यात् ।
एवं च तदित्यादि । एवं च कृत्वा स्वभावनयबलेन आम्नाता जीवा द्विविधाः - भवसिद्धिकाश्च अभवसिद्धिकाश्चेति तदुभयस्वभाववर्णनात् अभव्यजीवकर्मणोरित्यादि भव्यस्य तु विशुद्धीत्यादि च गतार्थं वाक्यद्वयम् । अनादेर्जीवकर्मसन्तानस्य व्यवच्छेदाव्यवच्छेदौ स्वभावादेवेति नात्र कश्चिद् 15 भव्यकर्मसन्तानसान्ततायामभव्यकर्मसन्तानानन्ततायां वा हेतुः शक्यो वक्तुमन्यः स्वभावात् । यदि हेतुरन्यो मृग्येत तेन आनन्त्यमस्यापि स्यात्, कस्य ? भव्यकर्मसन्तानस्याप्यनन्तत्वं स्यात् । कस्मात् ? अनादित्वादाकाशवत् , स्वभावमनिच्छद्भिरनादित्वहेतुरभ्युपगन्तव्यो जायते सोऽनिष्टानन्तत्वसाधनाय भवति । अधुनाऽनादित्वहेतुसद्भावेऽपि तत्सान्ततेष्टावाकाशसान्ततेत्यत आह -तदन्तवत्त्वे वाकाशमपि सान्तं स्यादनादित्वाद् भव्यकर्मवदिति स्वभाव एवान्तवत्त्वे कारणम् , न हेतुरन्योऽस्ति हेतुवादेन 20 विमृग्यमाणः । अथाप्यस्य भव्यसंसारस्यानादित्वे सति अहेतुरन्तो भवति निर्हेतु:हेतुकोऽन्त इष्यते १६६, ततो यथा चास्यानादित्वे संसारस्याहेतुरन्तो भवति तथा कस्मात् तस्य विरोधी पुनर्निर्हेतुकहेतुकान्तवत्त्ववद् भव्यकर्मसन्तानस्य 'निर्हेतुकहेतुकादिः सिद्धकर्मसन्तानस्य कस्मान्न भवति ? इति वाच्यमत्र विशेषकारणमस्वभावहेतुवादिना, मम तु पुनः स्वभाववादिनः स्वभाव एव सर्वत्र कारणं व्यापित्वात् । इतिशब्दो हेत्वर्थे, इत्यतः कारणादित्थं स्वभाव एव शरणं कारणवादिनाम् । कथं कृत्वा ? तदुपायस्व. 25 भावो मोक्ष इति सम्यग्दर्शनादिरत्नत्रयोपायसम्पन्नभव्यकर्मसन्तानात्यन्तोच्छेदस्वभावो मोक्ष इति । एवं तावद् भव्यसंसारोच्छित्तावभव्यसंसारानुच्छित्तौ च हेतुवादे चोदिते स्वभावाश्रयेण परिहार उक्तः । एवं
१ 'अभव्यजीवकर्मणोरनादिसन्तानस्याव्यवच्छेदः स्वभावादेव । भव्यस्य तु विशुद्धिस्वभावादेव अनादिकर्मसन्तानस्य व्यवच्छेदः' इत्याशयकमत्र किमपि मूलं स्यादिति सम्भाव्यते ॥ २ संततानन्ततायां प्र० ॥ ३ अधुनादित्व प्र० । अत्र 'भवति । अनादित्वहेतुसद्भावेऽपि' इत्यपि पाठः स्यात् ॥ ४°कथहे प्र० ॥ ५ निर्हेतुकादिः भा० ॥ ६ णस्वय०॥ ७ मेम प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org