________________
२२८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे द्विधा प्रतिवस्तु जीवाजीववदवस्थितः, योऽस्ति स भावः य आत्मा स भावः स्वभावः।
स चैकोऽपि कारकभेदं स्वशक्तिभेदादेव लभते, स एवानुभवति सोऽनु भूयते । खद्रव्यसंयोगविभागखाभाव्येन स एव भवतीति संसारमोक्षौ स्वभावतः।
द्विधा प्रतिवस्तु जीवाजीववदवस्थितः, योऽस्ति स भावः य आत्मा स भावः स्वभाव इति 5 च परभावनिराकरणार्थमुच्यते । यथोक्तम् - किमिदं भंते! अस्थित्ति वुच्चति? गोयमा! जीवा चेव
अजीवा चेव [ स्थानाङ्गसू० ], तथा किमिदं भंते ! समपत्ति वुच्चति ? गोतमा! जीवा चेव अजीवा चेव [स्थौनाङ्गसू० ], एवमावलिकोच्छासनिःश्वासप्राणस्तोकलवमुहूर्ताहोरात्रकालविभागा रत्नप्रभादिभूमयो द्वीपाः समुद्राः पर्वताद्याश्च नेयाः।
स चैकः स्वभावः पूर्ववदशेषनित्यत्वलक्षणयुक्तोऽपि कर्तृकर्मकरणादिकारकभेदं स्वशक्तिभेदादेव 10 लभते, तद्यथा- स्वसाधनविशेषस्वभावादेव विशेषो भवति, स एवानुभवति सोऽनुभूयते, एतद्व्याख्या
र्थोदाहरणत्वेन कारकद्वयं कर्तृकर्मकारकभेदा एव शेषकारकाणीति दर्शनार्थम् । सोऽनुभवति कृत्वा फलमनुभवति कर्मफलं भुते। सोऽनुभूयते स्वभावभेदेनात्मनैव भुज्यतेऽपि । स एव कथमनुभवति अनुभूयते च ? इति तदर्थप्रदर्शनार्थमाह - स्वद्रव्येत्यादि । स्वयमेव द्रव्याणि आत्मैव कर्मकर्मित्वस्वभावानि द्रव्याणि संयुज्यन्ते वियुज्यन्ते च, तेषामेव स्वभावभेदानां द्रव्याणां संयोगविभागौ बन्धमोक्षौ देशसर्वविकल्पौ, तद्विकल्प15 विचित्रसुखदुःखजन्ममरणवैषम्ये, तयोः स्वाभाव्येन स एव भवतीति संसारमोक्षौ स्वभावतः, यथा
व्रीहिरेव अङ्करत्वाद्यनुभवनात्मानुभवति अनुभूयते च । अन्योन्यसंयोगवियोगविपरिवर्तेन कर्मकर्मिस्वाभा१६६-१ व्येन विपरिवर्तमानोऽपि स्वभावात्मा व्याधेः साध्यासाध्यद्वैतरूपवत् स्वजात्यपरित्यागादद्वैतत्वाद् व्यवस्थित
एव सर्वत्र भव्याभव्यजीवराश्योः । को दृष्टान्तः ? यथा कनकाश्मनि सुवर्ण द्विधाविर्भवत् क्रिया-ऽक्रियाभ्यां तत्स्वभावः, कचिन्नास्त्येव कनकमिति सोऽपि स्वभावः, तथा केषाञ्चित् स्वयमेवापघ्मादात्मविशुद्ध्याविर्भावः
१"जदत्थि णं लोगे तं सव्वं दुपओआरं, तं जहा-जीव च्चेव अजीव च्चेव, तसे चेव थावरे चेव, सजोणिय चेव अजोणिय चेव, साउय चेव अणाउय चेव, सइंदिय चेव अणिदिए चेव, सवेयगा चेव अवेयगा चेव, सरूवि चेव अरूवि चेव, सपोग्गला चेव अपोग्गला चेव, संसारसमावन्नगा चेव असंसारसमावन्नगा चेव, सासया चेव असासया चेव, आगासे चेव नो आगासे चेव, धम्मे चेव अधम्मे चेव, बंधे चेव मोक्खे चेव, पुण्णे चेव पावे चेव, आसवे चेव संवरे चेव, वेयणा चेव णिजरा चेव।" इति स्थानाङ्गसूत्रे २।१५७-५९ ॥ २ “समयाति वा आवलियाति वा जीवाति या अजीवाति या पवुच्चइ, आणापाणूति वा थोवाति वा जीवाति या अजीवाति या पवुच्चइ, खणाति वा लवाति वा जीवाति या अजीवाति या पवुच्चइ, एवं मुहुत्ताति वा अहोरत्ताति वा पक्खाति वा मासाति वा उउति वा अयणाति वा संवच्छराति वा....''उसप्पिणीति वा
ओसप्पिणीति वा जीवाति या अजीवाति या पवुच्चइ । 'गामाति वा णगराति वा पुढवीति वा उदहीति वा 'दीवाति वा समुद्दाति वा "वासाति वा वासहरपव्वयाति वा कूडाति वा कूडागाराति वा विजयाति वा रायहाणीति वा जीवाति या अजीवाति या पवुच्चइ ।" इति स्थानाङ्गसूत्रे २।४।९५ । "किमियं भंते ! पाईणत्ति पवुच्चइ ? गोयमा! जीवा चेव अजीवा चेव ।"भगवतीसू०१०।१।३९४।३एवानुभूयते एत य० ॥४कृत्वा फलमनुभवति य० प्रतिषु नास्ति । ५ आत्मेव य० । आत्मव भा० ॥ ६ व्याधः साध्यद्वैत भा० । व्याधः साध्यासाध्याद्वैत य० ॥ ७ गमात्म(गमात् !) विशुप्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org