________________
खभाववादिमतनिरूपणम् ] द्वादशारं नयचक्रम्
२२७ एवं च यदि हेतुतो यद्यहेतुतो घटकण्टकादि उभयथापि स्वभावानतिवृत्तिः । आत्मभवनमनादिप्रवृत्तं कारणं जगतः। ___ एवं च तत्रानादिप्रवृत्तखभावविपर्ययेण यद्युत्पत्तिवनाशो विपरिणामो वा ततोऽनादिप्रवृत्तकारणस्वभावव्यत्यासे हिताहितप्राप्तिपरिहारार्थशास्त्रव्यर्थता पुरुषस्य क्रियायाः फलस्य च तथाऽस्वभावत्वात् । अन्यथोत्पादविनाशविपरिणा-5 मेभ्यो घटार्थं प्रवृत्तेषु तत्पट उत्पद्यते तद्विनाशार्थ प्रवृत्तेष्वविनाशो विपरिणामार्थ प्रवृत्तेष्वविपरिणामश्च । अतः शास्त्रार्थवत्त्वाय वरमिदमेव कारणं ख एव भावः
वनर्थकावबुद्धिपूर्वी च पुरुषस्याहृताहाररसरुधिरमांसमेदोस्थिमज्जशुक्रादित्वेन विभजनं कण्टकतीक्ष्णभवनं चेत्येवमादिप्रवृत्तयस्तथा घटादिफलस्वभावानुरूपाः प्रवृत्तयोऽप्रतर्कत एवेति । ___ एवं चेत्यादि । एवं च कृत्वा लोकप्रसिद्धिवशाद् यदि हेतुतो यद्यहेतुतो यथासङ्ख्यं घटकण्ट- 10 कादि बुद्ध्यबुद्धिपूर्वनिर्वृत्ताभिमतं यदस्तु तदस्तु उभयथापि स्वभावानतिवृत्तिः । एवमेतदात्मभवनमनादिप्रवृत्तं कारणं जगतः, पृथिव्यब्बीजाङ्कुरादिषु स्थिरद्रवादिस्वभावाविर्भावतिरोभावादिरूपेण एकं नित्यं १६५.१ च नोत्पद्यते न विनश्यति न चान्यथा भवतीति प्रतिपत्तव्यम् , उत्पादविनाशविपरिणामानामनादिप्रवृत्तस्वभावकारणविरोधित्वात्।
एवं च तत्रानादिप्रवृत्तस्वभावेत्यादि यावद् विपरिणामो वेति पूर्वपक्ष उत्तानार्थः । उत्तर-15 पक्षस्तु ततोऽनादिप्रवृत्तकारणस्वभावव्यत्यासे इति प्रत्युच्चारणम् , आत्मभवनविपर्यये दोषः, हिताहितप्राप्तिपरिहारार्थशास्त्रव्यर्थता, धर्मार्थकाममोक्षफलप्राप्त्युपायविधानार्थानि तदपायपरिहारार्थानि च शास्त्राणि व्यर्थानि स्युः । किं कारणम् ? पुरुषस्य क्रियायाः फलस्य च तथाऽस्वभावत्वात् , कर्तृकरणकर्मादिसाधनानां तदङ्गसम्पन्नायाः क्रियाया धर्मार्थकाममोक्षाणामन्यतमस्य तत्फलस्य चान्योन्यानुरूपेण अनात्मत्वादित्यर्थः । परस्परानुरूपानभ्युपगमेऽन्यथोत्पादोऽन्यथा विनाशोऽन्यथा विपरिणामश्चाननु-20 रूपेणेति यावत् । ततोऽन्यथोत्पादविनाशविपरिणामेभ्य इति पुरुषादिसाधनक्रियाफलानां तथाऽनात्मत्वं समर्थयति , घटार्थ प्रवृत्तेषु घटोत्पत्त्यर्थं प्रवृत्तेषु तत्पट उत्पद्यते तद्विनाशार्थ प्रवृत्तेष्वविनाशो विपरिणामार्थ प्रवृत्तेष्वविपरिणामश्चेति, स्वभावानियमान्नोत्पादविनाशविपरिणामाः सन्ति, यदि स्युरयथाभिप्रेताः स्युः स्वभावानियमादिति स्वभावापरिग्रहे शास्त्राणामर्थवत्ता न युज्यते । अतस्तस्मात् सिद्धशास्त्राणामनतिशङ्कयत्वादनिष्टत्वाच्चानर्थक्यस्य शास्त्रार्थवत्त्वसिद्धयर्थं च घटादेः कारणमन्वेषणीयम् , 25 तञ्च कारणमन्विष्यमाणं शास्त्रार्थवत्त्वाय वरमिदमेव कारणं स्वभावः, नातोऽन्यद् विमर्दरमणीयतरमस्ति । कुतोऽन्यन्नास्ति ? यत्तत्कारणं स्व एव आत्मीय एव आत्मैव वा भावः, कतमोऽसौ ? सङ्ग्रहेण १६५-२
१ च प्रतिषु नास्ति ॥ २ वत्पट वि० । अत्र ‘च पट उत्पद्येत' इत्यपि पाठः स्यात् ॥ ३°भिप्रेतास्युः भा० वि० विना॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org