________________
२२६
२२६ .
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे इति कथं घटोत्पत्त्यादि सम्भाव्यते ? प्रवृत्तिमृदां स स्वभाव एव । फलखभावानुरूपाः प्रवृत्तयोऽत एव व्यवस्थिता इति प्रयासोऽनर्थकः। खभावादेव प्रवर्तितव्यमित्येव प्रवर्तन्तेऽप्रतर्कतो वस्तूनि, अक्षिनिमेषधातुकण्टकादिवत् । विनाशायुक्तहेतुत्वात् । इतिशब्दो हेत्वर्थे, अस्माद्धेतोः कथं घटोत्पत्त्यादि सम्भाव्यते? आदिग्रहणाद् 5 वक्ष्यमाणौ विनाशविपरिणामावपि कथं सम्भाव्येते ? नैव सम्भावनीयं तत्रयमित्यर्थः ।
स्यान्मतम् – कुलालप्रयत्नप्रवृत्तिदण्डचक्रसूत्रोदकमृदादीनां पुरुषाभिसन्ध्यनुरूपघटाद्युत्पत्तिविनाशविपरिणामफलैः सम्बन्धदर्शनान्न स्वभाव एवेति । एतच्चायुक्तम् , यस्मात् प्रवृत्तिमृदा स स्वभाव एव, यथोक्तं प्राक् 'निमित्तानां निमित्तता स्वाभाविकी' इति, तस्मात् स्वभाव एव । किश्चान्यत् , फलस्वभा
वानुरूपाः प्रवृत्तयोऽत एव व्यवस्थिताः, स्वभाववलादेव मृत्पिण्डदण्डादिभिरेव घटो भवतीति ज्ञात्वा 10 चक्रमूर्ध्नि मृत्पिण्डं संस्थाप्य दण्डग्रहणचक्रभ्रमणादिव्यापारा घटफलयोग्याः क्रियास्तदनुरूपा व्यवस्थिताः ।
तथा तुरीवेमशलाकादिसाधनाः सूत्रोपादान-तन्तुसन्तान-पायन-बयनक्रियाः पटफलस्वभावानुरूपा व्यवस्थिताः । एवं कृषिसेवावणिज्यापरिव्रज्यादिप्रवृत्तयः स्वभावमेव हेतुं समर्थयन्त्यो दृश्यन्ते लोके व्यवस्थिताः, आसां नाप्युत्कर्षो नाप्यपकर्षः कश्चित् । फलानुरूपाः प्रवृत्तयः प्रवृत्त्यनुरूपं फलं तत्र तत्रेति व्यवस्थितफलप्रवृत्तिता स्वभावादेवेति । 18 स्यान्मतम् – व्यवस्थितप्रवृत्तिफलस्वभावे भावे पुरुषप्रयासस्तयनर्थक इति चेत् , सत्यमेतत्, इति १६४-२ प्रयासोऽनर्थकः, यथा त्वं ब्रूषे तथैव स्वभावसामर्थ्यादेव प्रवृत्तेनिवृत्तेश्च फलसिद्ध्यसिद्धथोरनर्थक एव
प्रयास इति त्वया सदोषाभिमतोऽप्ययं पक्षो मया तत्त्ववादभ्रंशभयान्न त्यज्यते । इत्थमनर्थकोऽप्यसौ प्रयासः पुरुषस्यास्त्येव, सन्नेव स्वभावादेव । यथोक्तम् -
स्वभावतःप्रवृत्तानां निवृत्तानां स्वभावतः।
___ नाहं कर्तेति भावानां यः पश्यति स पश्यति ॥ [ ] . इति प्रवृत्तिनिवृत्त्योर्भावानां स्वभावस्वातन्त्र्यमेव, स हि स्वो भाव आत्मा वस्तूनां निर्वृत्तानामित्युक्तत्वात् । प्रवृत्तिनिवृत्त्योरानर्थक्ये किङ्कता किम्फला वा प्रवृत्तिः ? अतः स्वभावानुरूपप्रवृत्तिप्रतिज्ञाव्याघात इति चेत् , न व्याघातः, तत्स्वाभाव्यादेव यस्मात् प्रवर्तितव्यमित्येव प्रवर्तन्तेऽप्रतर्कतो वस्तूनि, प्रकृष्टस्तर्कः प्रतर्कः, 'अनेनोपायेनार्थस्य सिद्धिः' इति य ऊहः स तर्कः, न प्रतर्कोऽतर्कः, अप्रतर्कत एव वस्तूनि 25 प्रवर्तितव्यमित्येव प्रवर्तन्ते स्वभावादेव, तद्यथा - अक्षिनिमेषधातुकण्टकादिवत् , यथा अक्षिनिमेषोन्मेषा
१ उत्पत्तिविनाशाभावे हेतुः पूर्वमुक्तः, दृश्यतां पृ० २२४ पं० १ ॥ २ °संबध्य भा० । 'संबंध्य य० ॥ ३ पृ० २२३ पं०५॥ ४ सन्ता(न्त ? )ननपा न० । “इह यत् तन्तुवायैरुभयपार्श्वयोः कीलकयुगलं निखाय तानकरूपतया तन्तवस्तन्यन्ते तत् तननम् , यत् पुनरधस्तनोपरितनयोस्तानकतन्तुसन्तानयोरन्तराले नल कप्रयोगेण तन्तव उभयतो वितन्यन्ते व्यूयन्ते तद् वितननम् ,...... यद् वस्त्रं कूर्चिकेण खलिकां पाय्यते तत् पायनम् ।" इति ब्रहकल्पसूत्रस्य में प्रती, गा० ६२५॥ ५ वृत्तेश्च भा० वि० ॥ ६ वस्तुनां निवृत्तानामित्युक्त य० । वस्तूनामित्युक्त भा० । अत्र 'वस्तूनां प्रवृत्तनिवृत्तानामित्युक्तत्वात्' इत्यपि पाठः स्यात् ॥ ७प्रवर्तन्ते स्वभावप्रतर्कतो पा० वि० रं. ही। 'प्रवर्तन्ते खभावादेवाप्रतर्कतः' इत्यपि पाठोऽत्र स्यात् ॥ ८प्रतर्कत एव भा० डे० लीं । प्रतर्क एत एव पा० वि० २० ही०॥ ९ दे तद्यथा प्र०॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org