________________
स्वभाववादिमतनिरूपणम्] द्वादशारं नयचक्रम्
२२५ अञ्जनमन्दरादि चक्षुरादिना न गृह्यते, यथा स स्वभावस्तथायमपि । तथा किश्चिदत्यन्तानुपलब्धिखभावमेव भवति आत्मादि । तन्न पुरुषकामचारप्रयत्नादिभ्यः किश्चिदपि निर्वर्तते । तत्र कुतः कस्यचिदर्थिनोऽप्येवं वा विपर्यय एव वारम्भक्रियानिवृत्तयः? तथा चाहुः
केंटुकः कटुकः पाके वीर्योष्णश्चित्रको मतः।। तद्वद् दन्ती, प्रभावात्तु विरेचयति सा नरम् ॥ [चरकसं० १।२६।६८ ]
ने त्वस्माभिरेव तद् वक्तव्यम् - स्वभावादेव, अग्रहणहेतुषु असत्स्वपि सतोऽर्थस्यानभिव्यक्ती स्वभाव एव कारणमिति । कस्मात् ? त्वयैवाभ्युपगतत्वात् , 'अतिसन्निकृष्टमतिविप्रकृष्टं व्यवहितं वा चक्षुरिन्द्रियं रूपमञ्जनमन्दरादि न गृह्णात्यत्यन्तम्' इत्यत्र केन त्वया एतत् कारणेन प्रतिपन्नम् ? इति पृष्टेनावश्यं स्वभावादिति वक्तव्यम् , अयं हि चक्षुषः स्वभावो यदतिसन्निकृष्टमञ्जनादि न पश्यति अतिविप्रकृष्टं वा मेर्वादीति 10 शेषेन्द्रियाणामपि स्वभावादेवातिविप्रकृष्टाद्यग्रहणं स्वविषयनियमश्चेति । किञ्चान्यत् , यथा स स्वभावस्तथायमपि, यथा चक्षुरादीन्द्रियाणामात्मनोऽत्यन्तमतिसन्निकृष्टाद्यग्रहणं स्वभावस्तथानभिव्यक्ताग्रहणं स्वभाव इति किं न गृह्यते ?
१६३-२ किञ्चान्यत् , यथैतत् तथा किञ्चिदत्यन्तानुपलब्धिस्वभावमेव भवति आत्मादि, आत्माकाश-" कालदिगादयः कार्यत एव नित्यमनुमेयाः पदार्थाः सौक्ष्म्याद् बाह्येन्द्रियाविषयास्तत्स्वभावाः । तत्र नास्त्यात्मा 15 नास्ति कालः धर्माधर्माकाशदिगादयो वार्था न सन्तीति वृथैव विवदन्ते शाक्यादयः स्वभावभेदमविद्वांसः । तस्माद् यदुच्यते त्वया क्रियातो घटादि निर्वर्तत इति तन्न पुरुष-काम-चार-प्रयत्नादिभ्यः किश्चिदपि निर्वर्तते, पुरुषात् तदिच्छातस्तत्प्रवृत्तेस्तत्प्रयत्नाद् वीर्यादित्यर्थः । आदिग्रहणान्न तद्बुद्धेः न स्वामिनियोगादिभ्यः सर्वत्र व्यभिचारदर्शनात् । किं तर्हि ? भूम्यम्ब्वादिव्रीह्यकुरादिमृद्घटाद्यभिव्यक्त्यनभिव्यक्तिस्वभावो घटोऽपि पृथिव्यादिस्वभाव एव वस्तुत्वात् तदात्मत्वात् , यथा- आपो द्रवाः, स्थिरा पृथिवी, चलोऽनिलः, 20 मूर्तिहीनमाकाशम् , उष्णोऽग्निरित्यादिषु स्वभाव एव, तत्र कुतः कस्यचिदर्थिनोऽप्येवं वा विपर्यय एव वारम्भ-क्रिया-निवृत्तयः, 'आपो द्रवा भवन्तु, स्थिरा पृथिवी, चलोऽनिलः, अग्निरुष्णः, वियदमूर्त भवतु' इत्येवमर्थिनोऽपि पुरुषस्य नारम्भो न चेष्टा न च निर्वृत्तिा तथा विपर्ययेऽपि 'मा भूद् द्रवं जलम् , स्थिरा भूः, चलोऽनिलः, अग्निरुष्णः, अमूर्तमाकाशम्' इत्यारम्भः क्रिया निर्वृत्तिर्वा स्वभावस्यान्यथाकर्तुमशक्यत्वात् । एवं घटादिष्वपि योज्यं स्वाभाविकत्वम् ।
25 तथा चाहुरिति स्वाभाविकत्वे ज्ञापकमाह । कटुकरसः केंटुविपाक उष्णवीर्यश्चित्रकः, तद्वद् दन्ती कटुकरसा कटुविपाका उष्णवीर्या, विशेषस्त्वस्याश्चित्रकात् प्रभावेन विरेचयति, प्रभाव इति स्वभावपर्यायत्वाद् रसादेरपि स्वभावत्वात् स एव सामान्यविशेषाभ्यां तथा तथा वर्ण्यत इति, तस्माद् यत् त्वयोक्तं 'क्रियातो घटायुत्पत्तिः' इति तत्र पृथिवीमृत्पिण्डशिवकादिक्रमापत्तव्यघटात्मनः स्थैर्यात्मवन्न स्त उत्पत्ति-१६४-१
१ भा० विना न चस्मा पा० २० ही । न चास्मा वि० डे० ली० ॥ २त्मषोत्यन्त प्र०॥ ३°णात्तबुद्धेः प्र० ॥४ भूम्यांत्वादि भा० ॥ ५ दृश्यतां पृ० २५६-१, पृ० १७६ टि० ६॥ ६ दृश्यतां पृ० २२४ पं० ४ ॥
नय०२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org