________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ द्वितीये विधिविध्य रे
स्वाभाविकी, तत्र कुत उत्पत्तिरपि ? प्रतिवस्तु स्वभाव एवायं वयःक्षीरादिवत् । यदि चासौ न स्यात् तत उत्तरत्रापि न भवेदेव अभूतत्वाद् वन्ध्यापुत्रवत् । एवं मृदादिषु विद्यमानानां घटादीनां निमित्तापेक्षखभावैवोत्पत्तिः, नाकाशादिषु ।
?
दृष्टा घटादीनां क्रियाया उत्पत्तिरिति चेत्, न, प्रागनभिव्यक्तेः । सा सति 5 अग्रहणनिमित्ताभावे किमिति चेत्, स्वभावादेव अतिसन्निकृष्टमतिविप्रकृष्टं वा विकत्वेन तत्र कुत उत्पत्तिरपि ? या प्रागुक्ता त्वया भूम्यादिद्रव्यविनिर्वृत्त्यपेक्षैवोत्पत्तिरिति सा कुतः ' नास्त्येव कारणम्, तस्मान्नास्ति सा, प्रागेवाभिव्यक्तये विरचितलीनावस्थत्वात् । तस्मात् सोत्पत्तिः प्रतिवस्तु स्वभाव एवायम्, वस्तु वस्तु प्रतिवस्तु स्वो हि भावः स्वभाव इति निरुक्त्या प्रतिवस्तु आत्मीयं भावमाचष्टे । वयःक्षीरादिवदिति दृष्टान्तः, यथा बाल्यकौमारादिवयोऽवस्थाः पूर्वविरचिता एव आवि10 भवन्ति यथा क्षीरदध्युदस्विन्नवनीतघृताद्यवस्थास्तथा घटादयो निमित्तस्वभावापेक्षाभिव्यङ्ग्यविरचितस्वभावा आविर्भवन्ति । यदि चासावित्यादि यावद् वन्ध्यापुत्रवत् । यदि चासावुत्पत्तिस्वभावोऽस्मदभिहितो न स्यादित्थं पूर्वावस्थायामेव तत उत्तरत्रापि न भवेदेव अभूतत्वाद् वन्ध्यासुतवत् । अस्यैवार्थस्य भावनार्थमाह - एवं मृदादिष्वित्यादि गतार्थं यावन्नाकाशादिषु ।
दृष्टा घटादीनां क्रियाया उत्पत्तिरिति चेत् । स्यान्मतम् - दृष्टविरुद्धमुक्तं त्वया विद्यमानानां 15 घटादीनां निमित्तापेक्षस्वभावैवोत्पत्तिरिति, क्रियाया एव कुलालस्य घटादेरर्थस्योत्पत्तेर्दर्शनादिति । एतच्च १६३-१ न, प्रागनभिव्यक्तेः, क्रियायाः प्राक् सोत्पत्तिरनभिव्यक्ता अपवरकघटवत् प्रदीपेनेव क्रिययाभिव्यज्यते नोत्पाद्यत इत्यदोषः । सा सति अग्रहणनिमित्ताभावे किमिति चेत्, सा सति अर्थेऽनभिव्यक्तिरग्रहणनिमित्तानामँत्यासन्नविप्रकृष्टव्यवहितसमानाभिहाराभिभवसौक्ष्म्येन्द्रियदौर्बल्य मनोवैयध्यपित्तोपघातादीनामभावे सति किमर्थं भवतीति चेन्मन्यसे, वयमत्र ब्रूमः - स्वभावादेवेत्यादि यावच्चक्षुरादिना न गृह्यते ।
२२४
७ 11
१ दृश्यतां पं० १४ ॥ २ कत्वे तत्र भा० ॥ ३ तस्यास्मान्नास्ति भा० । अत्र 'नास्त्येव कारणं तस्याः, तस्मान्नास्ति' इत्यपि पाठः स्यात् ॥ ४ पेक्ष्यभिव्यंग भा० पेक्ष्याभिव्यंग्य पा० डे० लीं० २० ही ० ॥ ५ वास प्र० ॥ ६ " अतिदूरात् सामीप्यादिन्द्रियघाताद् मनोऽनवस्थानात् । सौक्ष्म्याद्वयवधानादभिभवात् समानाभिहाराच्च ॥ इह सतोऽर्थस्यातिदूरादनुपलब्धिर्दृष्टा यया विप्रकृष्टेऽध्वनि वर्तमानः शकुनिर्नोपलभ्यते । न च यस्मान्नोपलभ्यते किमसौ नास्तीति ? अतिदूरान्नोपलभ्यते । अत्राह - यन्नातिदूरे तत् कस्मान्नोपलभ्यते ? अत्रोच्यते - सामीप्यात् यदा देवदत्त आत्म चक्षुः स्थमनं नोपलभते किं तन्नास्ति ? अत्राह यन्नातिदूरे नातिसामीप्ये तत् कथं नोपलभ्यते ? अत्रोच्यते - इन्द्रियघातात्, यथा बधिरः शब्दं न शृणोति अन्धो रूपं न पश्यति, किं ते शब्दरूपे न स्तः ? अत्राह - यस्य अनुपहतमिन्द्रियं स कस्मान्नोपलभत इति ? अत्राह - मनोऽनवस्थानात्, अनवस्थितमना हस्तिनं परिक्रामन्तं न पश्यति, अस्ति चासौ, वक्तारो भवन्ति व्यग्रमनसा नावधारितमिति । यस्याव्यग्रं मनः स कस्मान्नोपलभते ? अत्रोच्यते - सौक्ष्म्यात धूमोष्णनीहारा आकाशगता नोपलभ्यन्ते, किं ते न सन्तीति ? अत्राह – ये नातिसूक्ष्मास्त कस्मान्नोपलभ्यन्ते ! अत्रोच्यते - व्यवधानात् कुड्येन घटादयो व्यवहिताः । ये चाव्यवहिताः ते कस्मान्नोपलभ्यन्ते ! अभिभवात् यथा आदित्यप्रकाशेन ग्रहनक्षत्रचन्द्रताराणां प्रकाशा अभिभूतत्वाद् नोपलभ्यन्ते, किं ते न सन्तीति ? अत्राह-ये नाभिभूतास्ते कस्मान्नोपलभ्यन्त इति ? अत्राह - समानाभिहाराच्च, समानाः सदृशा इत्यर्थः तेषां समभिहारो राशिः तस्मात् " ' एवं सतामर्थानां अष्टविधानुपलब्धिः ।" जे० सायका० A । “अत्राह — ये नाभिभूतास्ते कस्मान्नोपलभ्यन्ते ? अत्रोच्यते - समानाभिहाराश्च समानाः सदृशा इत्यर्थः, यथा माषराशौ माषाः प्रक्षिप्ता मुद्गराशौ मुद्रा कपोतगणमध्यगो वा कपोतः । किं ते माषादयो न सन्ति ? समानामिद्दारान्नोपलभ्यते । तदेवं सतामप्यर्थानामष्टविधा ह्यनुपलब्धिः ।" जे० सात्यका० B७ ॥
Jain Education International
For Private & Personal Use Only
و
www.jainelibrary.org