________________
स्वभावोपपादनमाक्षेपाणां निरसनं च] द्वादशारं नयचक्रम्
२२३ किमर्थं च कदाचिद् विध्यति? किमर्थं किञ्चिदेव विध्यति किञ्चिच न ? ननूत्पातादिखभावनियमवशादनपेक्षितद्रव्यकालादिरपि दृष्टैव कण्टकाद्युत्पत्तिः । अपि च भूम्यादिद्रव्यविनिर्वृत्त्यपेक्षैव कण्टकनिर्वृत्तिरिति ब्रुवता स्वभावसिद्धिस्त्वयैव वण्येते, भूम्यादिभ्य एव कण्टको भवतीति तत्वभाववर्णनात् ।
यथा पृथिव्यादिखभावो विश्वथा कण्टकादिरेवं निमित्तानामपि निमित्तता
विध्यति ? कुसुमं किं न विध्यति ? किमर्थ च कदाचिद् विध्यतीति, तीक्ष्णोऽपि वेधस्वभावोऽपि सर्वकालं किं न विध्यति कण्टकः ? किमर्थ किश्चिदेव विध्यति, न सर्वम् ? तदपि किं क्वचिदेव प्रदेशे विध्यति न सर्वत्र ? इत्यत्र विशेषहेतुर्वाच्यः । दृष्टश्चायं नियमोऽर्थान्तरापेक्षः, स तु स्वभावस्यार्थान्तरनिर-१६२.१ पेक्षत्वान्नोपपद्यते इति । ___अत्रोच्यते - ननूत्पातादिस्वभावेत्यादि यावद् दृष्दैव । यदुच्यते 'भूम्यादिद्रव्यविनिर्वृत्त्यपेक्षैवो-10 त्पत्तिदृष्टा' इत्येतत्तदुपेक्षोत्पत्तिदर्शनात् स्वभावाव्यभिचाराच्च स्वभाव एवेति मन्तव्यम् । तद्यथा- उत्पातादिषु अकण्टकानां वृक्षादीनां कण्टकाः कण्टकिनां चाकण्टका निध्यादिलिङ्गत्वेन दृष्टाः । यथोक्तम् -
अकण्टकाः कण्ट किनः कण्टकाश्चाप्यकण्टकाः।।
__विपर्ययेण दृश्यन्ते वदन्ति निधिलक्षणम् ॥ [ ] इति । इत्थं सत्यामपि भूम्यादिद्रव्यनिर्वृत्तौ कण्टकाभावादसत्यामपि एतद्रव्यकालादिनिर्वृत्तौ कण्टकदर्शनाच्च नापे-15 क्षास्ति स्वभावस्य । किन्तु उत्पातादिस्वभावनियमवशादनपेक्षितद्रव्यकालादिरपि दृष्टैव कण्टकाद्युत्पत्तिः, न पुनस्तं तं स्वभावमन्तरेण सा उत्पत्तिरस्तीति स्वभाव एवाव्यभिचाराद् व्यापित्वाच्च कारणमेषितव्यम् । किञ्चान्यत् , अपि चेत्यादि । अपि च त्वया भूम्यादिद्रव्यविनिर्वृत्यपेक्षैव भूम्यादीन्येव वृक्षत्वेन कण्टकद्रव्यत्वेन तैक्ष्ण्यादित्वेन च निर्वर्तन्ते, तत्समायोगनिर्वृत्त्यपेक्षा कण्टकनिवृत्तिरिति ब्रवता ननु सैव स्वभावसिद्धिस्त्वयैव वर्ण्यते । किं कारणम् ? भूम्यादिभ्य एव भूम्यम्बुक्षेत्रबीजाङ्कुरादिद्रव्य-20 निर्वृत्तिभ्य एव कण्टको भवतीति तत्स्वभाववर्णनात्, अन्यथा स्वभावात् किमन्यदन्न शक्यं वक्तुं कारणम् ? भूम्यम्बुक्षेत्रबीजाङ्कुरादिभ्य एव कण्टको भवति न मृत्पिण्डादिभ्य इत्येव तेषां स्वभाव इति स्वभावस्यैव समर्थनं तदपि तेषां तत्तत्स्वाभाव्यात् । ___किश्चान्यत् , यथा पृथिव्यादीत्यादि यावन्निमित्तानामपि निमित्तता स्वाभाविकीति । यथैवायं १६२.२ विश्वथा सर्वथानेकप्रकारं बीजाङ्कुरादिक्रमनिर्वृत्तः कण्टकादिः पृथिव्यादिस्वभावः पुरुषप्रयत्ननिरपेक्षोऽप्रयत्नंत 25 एव भवति, अथवा पृथिव्यादीनामेव प्रागभिहितन्यायेन वृक्षघटादिस्वभावाभ्युपगमाद् यथा स्वभाव एव एवं निमित्तानामपि घटपटाद्युत्पत्तौ पुरुषकारसाध्याभिमतायां मृत्पिण्डदण्डचक्रसूत्रोदककुलालादिनिमित्तानां निमित्तता सापि स्वाभाविकी, ततो न स्वभावव्यतिरिक्तं किञ्चित् । एवं च सर्वस्य स्वाभा
१ व्यवस्व य० । व्यवद्वस्व भा० ॥ २ तमपि प्र० ॥ ३ किंचित्कचिदेव य० ॥ ४ पेक्षोवोत्प" भा० वि० विना । पेक्षोचोत्प भा० ॥ ५ स्वभावव्यप्र०॥ ६वृक्षत्वे कण्ट प्र०॥ ७त्तिः कंटकादि य०॥ ८ भा० विनान्यत्र 'दिश्वभावः पा० । 'दिश्वभावः डे० लीं० वि० २० ही०॥ ९त्नक एव यः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org