________________
२२२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे दित्वात् , नियतिवत् । युगपदयुगपद् घटरूपादीनां व्रीह्यङ्करादीनां च तथा तथा भवनादेव तु स्वभावोऽभ्युपगतः।
तथा च दृश्यते तेष्वेव तुल्येषु भूम्यम्ब्वादिषु भिन्नात्मभावं प्रत्यक्षत एव कण्टकादि । तदेव तीक्ष्णादिभूतम् , न पुष्पादि तादृग्गुणम् । तच्च वृक्षादीनामेव । 5 तथा मयूराण्डक...... 'मयूरादिवहोण्येव विचित्राणि । अन्वाह च
के कण्टकानां प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः॥ केनाञ्जितानि नयनानि मृगाङ्गनानां को वा करोति रुचिराङ्गरुहान् मयूरान् ।
कश्चोत्पलेषु दलसन्निचयं करोति को वा करोति विनयं कुलजेषु पुंसु ॥ [ ] 10 यदि खभाव एव कारणं किं न खभावमात्रादेव भूम्यादिद्रव्यविनिवृत्तिनिरपेक्षा कण्टकाद्युत्पत्तिर्भवेत् ? किमन्यथापि न स्यात् ? कण्टकः किमर्थं विध्यति ?
अथवा नैतद् युक्तिगम्यं स्वभावकारण्यम् , तथा च दृश्यते तेष्वेव तुल्येषु भूम्यम्ब्वादिषु ....हेतुषु भिन्नात्मभावं प्रत्यक्षत एव कण्टकादि, कण्टकस्य मूलतः क्रमहीनतनुरायता, आदिग्रहणात्
पत्राङ्कुरादि संस्थानवर्णादि भिन्नात्मभावम् । पुनस्तदेव कण्टकादि तीक्ष्णादिभूतम् तीक्ष्णं तीक्ष्णतरं कुण्ठं 15 कुण्ठतरं सविषं निर्विषमित्यादि, न पुष्पादि तादृग्गुणं सुकुमारादिस्वभावं सुरभिदुर्गन्धादिस्वभावं च ।
तच्च वृक्षादीनामेव, तच्च कण्टकादि वृक्ष-वल्ली-क्षुपादीनामेव, तत्रापि वर्वलादीनामेव न न्यग्रोधादीनाम् । न चैषा मयूरचन्द्रादिता वृक्षादीनाम् , न च बहिणपारापतादीनां कण्टकादि । तथा मयूराण्डकेत्यादि यावद् विचित्राणि, बर्हादीनामेव पञ्चवर्णता नोदकादीनाम् , तान्यपि च मयूरादिबर्हाण्येव विचित्राणि
न शुकादिबर्हाणीति । अन्वाह चेति पूर्ववजिनवचनानुसारेणैव । कः कण्टकानामित्यादि केनाञ्जितानी20 त्यादि च गतार्थे वृत्ते ।
इतर आह - यदि स्वभाव एव कारणमित्यादि यावत् किश्चिच्च नेति । अर्थान्तरव्यपेक्षोत्पत्तिदर्शनान्न स्वभाव एव कारणम् , आस्ये कवलप्रक्षेपवत् । दृष्टा च कण्टकादेरुत्पत्तिर्भूम्यादिद्रव्यविनिर्वृत्तिव्यपेक्षवानपह्नवनीया । सा च न स्याद् भूम्यादिद्रव्यनिर्वृत्तिव्यपेक्षोत्पत्तिः स्वभावादेव, स्वभावस्यार्थान्तरनिरपेक्षकारणत्वात् । यदि च स्वभाव एव कारणं किं कारणं न स्वभावमात्रादेव भूम्यादिद्रव्यविनिर्वृत्तिनि25 रपेक्षा कण्टकाद्युत्पत्तिर्भवेत् ? किं च कारणमन्यथापि न स्यात् ? भूम्याद्यन्तरेण निर्वृत्तिः कण्टकस्य किं न स्यात् ? किं वा कण्टकस्य सौकुमार्य कुसुमस्य वा तैक्ष्ण्यं न स्यात् ? सोऽपि कण्टकः किमर्थ
१ दृश्यतां पृ० १९१५० २२॥ २ "वृक्षो महीरुहः शाखी....।४।५।..."हखशाखाशिफः क्षुपः ।४।८..... वल्ली तु व्रततिलेता.....१४।९/" इति अमरकोशे ॥ ३ ** एतचिह्नान्तर्गतो नाम् इत्यत आरभ्य बांदी इत्यन्तः पाठो भा० प्रती नास्ति ॥ ४ कादीना व वि. विना। कादीनां वृवि०॥ ५मयूरांगके प्र० । 'तथा मयूराण्डकरसादुत्पन्नत्वे समानेऽपि बर्हादीनामेव पञ्चवर्णता, मयादिबोण्येव च विचित्राणि' इत्यर्थकं मूलमत्र सम्भाव्यते ॥ ६ वैचित्र्याणि वि० २० ही० ॥ ७ नान्यदपि च प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org