________________
स्वभाववादिना कालवादिमतदूषणम् ] द्वादशारं नयचक्रम्
२२१
न, अतुल्यत्वात् सत्त्वस्य, कालस्यैवैकस्य व्रीहिवत् तथा तथा भवनात् पुरुषादेश्च पृथक् पृथग्भिन्नभावात्मक भवनात् । नन्वेवमपि 'कालस्यैव नान्यस्य' इति स्वभाव एव परिगृहीतो भवति, तथा च पुरुषादीनां कारणकार्यनियमात् ।
कालस्यैव तत्त्वात् कारणकार्यविभागाभावात् सामान्यविशेषव्यवहाराभाव एवेति चेत्, एवमपि स एव स्वभावः । पूर्वादिव्यवहारलब्धकाला भावश्चैवम्, अपूर्वा -
5
स्वभावादृते सिध्यति तत्स्वतत्त्वस्य सत्त्वाविनाभावात्, कालोदाहरणं तु कालवादिदूषितपुरुषादिवादानामपि तद्दूषणेन दूष्यत्वात् तत्प्रतिपादनवत् प्रतिपाद्यत्वाच्च । यथोक्तम् - ] इति ।
समनन्तरानुलोमाः पूर्वविरुद्धा 'निवृत्तनिरनुशयाः । [
कालवाद्याह - न, अतुल्यत्वात् सत्त्वस्य, कालसत्यपुरुषसत्त्वयोरन्योन्येनातुल्यत्वात् । कथमतुल्यता ? कालस्यैवैकस्य व्रीहिवत्तथा तथा भवनात् पुरुषादेश्च पृथक् पृथग्भिन्नभावात्मकभवनात्, यथा 10 ब्रीहिरेवैको मूलाङ्कुरादिभावेन भवति तथा काल एव तथा तथा वर्तनात्मा भवति व्रीहिवदू मूलाङ्करोदित्वेन, न तथा पुरुषादयो भिन्नात्मभवनादिति । अत्रोच्यते - नन्वेवमपि कालस्यैव नान्यस्येति 'कालस्यैव भवनं न पुरुषादेः' इति वचनात् सुतरां कालस्यासौ भवनात्मेति स्वभाव एव परिगृहीतो भवति । यथा च त्वयोच्यते सत्त्वातुल्यता कालस्यैव व्रीह्यादिवदङ्कुरादिवश्च पुरुषादीनां भवनमिति तथा च पुरुषादीनां कारणकार्य नियमादपि चैवंस्वभावः कालः कारणं व्रीह्यादिवत् कार्यं पुरुषादयोऽङ्कुरादिवत्, 15 नियमात् स स तस्य स्वभाव इति स एव स्वभावः परिगृह्यते परैः । पूर्वत्र सत्त्वस्य हेतुत्वेन १६१-१ विवक्षितस्य सत्त्वाविनाभावित्वेन भावना, इह सिद्धस्यैव स्वभेदेष्वभेदेन व्यवस्थितस्य सामान्यविशेषव्यवहारप्रसिद्धिभावनेति विशेषः ।
9
कालस्यैव तत्त्वादित्यादि यावदभाव एवेति चेत् । स्यान्मतं भवतः - त्रैकाल्यैककूटस्थत्वात् कालस्यैव तत्त्वात् कालबादे 'कारणं कार्यम्' इति विभागाभावादसौ सामान्यविशेषव्यवहाराभाव एव, 20 मिथ्यात्वाच्चास्य व्यवहारस्यासद्विषयत्वादिति चेत्, एवमपि स एव स्वभावः भवतीति वाक्यशेषः, कालस्यैव हि स स्वभावो यदसौ भवतीति स्वभावपरिग्रहः । किञ्चान्यत्, व्यवहारप्रत्याख्याने प्रागभिहितकालास्तित्वानुमानप्रत्याख्यानदोषः, तद्यथा - पूर्वादिव्यवहारलब्धकाला भावश्चैवमपूर्वादित्वान्नियतिवत् । यथा पूर्वपरादिकारणकार्य व्यवहाराभावाद् नियतिर्नास्तीत्युच्यते तथा कालोऽपि तदभावान्नास्तीति प्राप्तम् । यदपि च कालानुमानं युगपदयुगपद्वृत्त्या घटरूपादीनां व्रीह्यङ्कुरादीनां चोच्यते तदपि स्वभावानु - 25 मानमेव सम्पद्यते, यस्माद् युगपदयुगपदित्यादि, 'युगपद्वर्तनात् क्रमवर्तनाच्चातिरिक्तस्य कस्यचिदभावात् काल एव' इत्युद्दिश्य निर्देशार्थं घटरूपादि व्रीह्यङ्कुरादि चोदाहृतं तस्योद्देश्यस्य निर्देश्यस्य च भव तेनात्मना भवतो भवनादेव तु विशेषेणैव स्वभावोऽभ्युपर्यंत इति दर्शनार्थम् ।
१ निवृत्तिनिर य० ॥ २ दित्वेन तथा य० ॥ ३ 'मात्म (मात् ?) स ५ तुर्विशेषणैव भा० । अत्र 'तुर्विशेषणे, विशेषेणैव' इत्यपि पाठः स्यात् ॥
प्र० ॥
Jain Education International
For Private & Personal Use Only
तस्य प्र० ॥ ४ स ( ?) त्वावि ६° गम प्र० ॥
www.jainelibrary.org