________________
२२०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे सिद्धेऽर्थान्तरनिरपेक्षे के ते? तेषामपि हि स्वत्वं खभावापादितमेव, अन्यथा ते त एव न स्युरनात्मत्वाद् घटपटवत् । एवमेव तत्र तत्र पुरुषादिस्वभावानतिक्रमात् सर्वैकत्वमभिन्नं तद्भाववत्त्वादेव वर्ण्यते इति खभावः प्रकृतिरशेषस्य । __पुरुषादीनां च खत्वे सत्त्वानपोहात् तुल्ये काल एव भवनात्मा न पुरुषादय इति न स्वभावादृते सिध्यति ।
सिद्धस्यासाध्यत्वात् सिद्धौदनवदर्थान्तरनिरपेक्षे तैरेव वादैः प्रतिपादिते के ते पुरुषादयः ? न ते भवन्तीत्यर्थः, किं तैर्विना स्वभावस्य न प्रतिप्राप्तं कार्यम् ? । स्यान्मतम् – तेषां स्वो भाव आत्मीयः स्वभाव इति तानपेक्षत इति, एतच्चायुक्तम् , यस्मात् तेषामपि स्वत्वं स्वभावापादितमेव, ते ह्यात्मानः स्खे,
तद्भावः स्वत्वम् , तद्धि तेषां स्वत्वं पुरुषादीनां केनापादितम् ? स्वात्मभिरेव । यद्येवं स्वः स्खो भावः स्वभावः १६०-१ परस्परविविक्तः स्वभाव एवेत्यापादितं स्वात्मभिरेव तत् । अन्यथा यदि तदात्मत्वं तेषामात्मभावापादितमेव 10 न स्यात् ततस्ते त एव न स्युरनात्मत्वाद घटपटवत , यथा घटः पटानात्मत्वात् पटो न भवति पटोऽपि घटानात्मत्वाद् घटो न भवति एवं पुरुषादयोऽप्यात्मानात्मत्वादात्मानो न स्युः, न स्युरेव वा अनात्मत्वात् खपुष्पवत् । तस्य स्वभावकारणत्वस्य व्याप्तिप्रदर्शनार्थमाह - एवमेवेत्यादि, इत्थमेवैतत् ,
अवश्यमैत्रेव तत्र तत्र यथात्र स्वभाववादे स्वभावानतिक्रमात् स्वभाव एवेत्यभिन्नं स्वभावव्यतिरिक्तार्था15 भावात् तस्य चाभिन्नत्वात् तथा तत्र तत्र पुरुषनियतिकालादिवादेषूक्तविधिना पुरुषादिस्वभावानतिक्रमात्
सर्वैकत्वमभिन्नं तद्भाववत्त्वादेव वर्ण्यते, ज्ञात्मभवनस्य नियमात्मभवनस्य वर्तनात्मभवनस्यान्यस्य वा तस्य तस्य स्वभावादेव वर्णनात् । इतिशब्दो हेत्वर्थे, अस्मादुक्तहेतोः स्वभावः प्रकृतिरशेषस्य योनिर्बीजं प्रभवः कारणमित्यर्थः ।
किञ्चान्यत् , पुरुषादीनां च स्वत्व इत्यादि, द्रव्यार्थस्य कश्चिदपरित्यज्य वृत्तेर्नयानां पूर्वविरोधि20 त्वादुत्तरानुवृत्तेश्च कालस्य पुरुषाद्यपरित्यागेन वृत्तिं तावद् दर्शयति, कालवादे पुरुषादीनां स्वत्वं सत्त्वानपोहात्, कथं सत्त्वमनपोढम् ? संसायनादित्वाभ्युपगमात् पुरुषत्वम् । तस्मिन्नेव काले नियतेरप्यात्मत्वं सत्त्वानपोहात् , सत्त्वानपोहश्च युगपदयुगपन्नियतार्थाभ्युपगमात् । एवं कालवादे नियतिपुरुषयोः सत्त्वाभ्यु
पगमः । तथा पुरुषवादे नियतेः कालस्य चात्मत्वं सत्त्वानपोहात्, कथं सत्त्वानपोहः ? मुक्तिक्रमाभ्यु१६०-२ पगमात् कालसत्त्वानपोहः, अवस्थानियमाभ्युपगमान्नियतिसत्त्वानपोह इत्यादि । एवं नियतिवादे काल25 पुरुषयोः स्वत्वमात्मत्वं सत्त्वानपोहात्, कालसत्त्वानपोहः 'अनादिमध्यान्तां नियतिम्' इति कालसत्त्वाभ्युपगमात् तां संम्प्रपश्यन् सर्वश इति पुरुषसत्त्वाभ्युपगमात् । एष द्रव्यार्थस्य सर्वत्र सर्वसत्त्वात् स्वभाव इत्युदाहः कृतो भवति, तत्र सत्त्वानपोहात् सत्त्वे तुल्ये काल एव भवनात्मा न पुरुषादय इति न
१ परवि भा० ॥ २ भावादि प्र० ॥ ३ षस्य पा० डे० ली. वि० । पस्य भा० । परस्य २० ही० ॥ ४ मत्रैव प्र०॥ ५°वादे व स्व य० ॥ ६ च तस्य य० ॥ ७ सतत्वान प्र०॥ ८ 'पुरुषखत्वम्' इत्यपि पाठोऽत्र स्यात् ॥ ९ नपोहात् य० ॥ १० दृश्यतां पृ० २०४ पं० २॥ ११ अत्र स्वत्वे इत्यपि पाठः स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org