________________
अथ स्वभाववादः] द्वादशारं नयचक्रम्
२१९ ये पुनर्विनिश्चितधियस्त एवं वदन्ति
काल एव हि भूतानि कालः संहारसम्भवौ । __ स्वपन्नपि स जागर्ति कालो हि दुरतिक्रमः ॥
ननु तैः सर्वैः 'स्वभाव एव भवति' इति भाव्यते । यत् पुरुषादयो भवन्ति स तेषां भावः, तैर्भूयते यथास्वम् । तथा च स्वभावे सर्वस्वभवनात्मनि भवति ।
ये पुनर्विनिश्चितधियस्ते प्रसौवं वदन्ति, तद्यथा-काल एव हि भूतानि भूतत्वेन कालस्यव वर्तनात् । कालः संहारसम्भवौ, यथोक्तं प्राक् ‘रूपादयो न केचित् कालमन्तरेण' इति भूम्यादिव्रीह्यादिवदात्मन्येव सम्भवसंहारक्रिये इति च बैन्धसंसारौ इति वचनाच्च । स्वपन्नपि जागर्ति, स एव स्वपिति जागर्ति च, न तु स्वपद्भयो जाग्रद्भयो वा व्यतिरिक्तः कश्चित् ते वा ततः, स्वप्रभेदक्रमसहवृत्तिमात्रत्वाजाप्रत्स्वपदवस्थयोः, सुप्तवृत्त्यानाविर्भूतात्मनस्तस्यैव कालस्य जानद्वृत्त्याभिव्यक्तविक्रमत्वात् कचित् 10 क्रमेण भेदवृत्तिविजृम्भितत्वात् सामान्यवर्तनस्य सुप्तविबुद्धादिस्वप्रभेदेषु अव्याघातादिति कालकारणवादो विधिविधिविकल्प एव समाप्तः ।।
१५९-२ तद्विकल्प एव स्वभावभावोऽधुना - ननु तैः सर्वैरित्यादि । ज्ञः स्वतत्रश्च पुरुष एव भवतीति स्वातत्र्ये सत्यपि ज्ञाज्ञरूपारूपक्रियाऽक्रियादिनियमान्नियतिरेवेति सर्वत्र वर्तनतत्त्वः प्रभुविभुत्वाभ्यां काल एव भवतीति च एतैर्वादैननु स्वभाव एव भवतीति भाव्यते, भवन् भाव्यते तैरेव प्रतिपाद्यते । किं 15 कारणम् ? द्रव्यार्थप्रसवाद् यत् पुरुषादयो भवन्ति स तेषां भावः, यथा सर्वभावाः खेन भावेन भवन्ति स तेषां भावः [पा० वा० ५।।११९] इति वचनाद् येन भावेन यो भवति स तस्य भावस्तत्त्वमात्मीयो भावः स्वभाव इत्यनर्थान्तरम् , तंतश्च तत्र ते भवन्तीति तदात्मानोऽभिसम्बध्यन्ते पुरुषादीनामात्मानो भवन्ति, तैर्भूयते यथास्वमिति भावेन तेषामभिसम्बन्धः । ते भवनस्य कर्तृत्वमनुभवन्ति ज्ञानस्वातन्त्र्य-नियम-वर्तनात्मकं तत् तदिति वदद्भिः स स स्वभाव एव परिगृहीतो भवति। 20
एवं च स्वभावपरिग्रहे सति कारणान्तरपरिकल्पना व्यर्थेत्यत आह -तथा च स्वभावे सर्वेत्यादि यावत् के ते? सर्वभावानां पुरुषादीनां खं खं भवनमात्मा यस्य सोऽयं सर्वस्वभवनात्मा, तस्मिन् स्वभावे भवति भवनस्यानुभवितरि कर्तरि स्वतत्रे भवति भवते; कर्तरि सति सिद्धे स्वभावे
१ दृश्यतां पृ० २०५ पं० २ ॥ २ दृश्यतां पृ० २१६ पं० २॥ ३ स्थायाः प्र० ॥ ४ भाव्यते रेव प्र य० । भाव्यते रैव प्र भा० ॥ ५ अत्र यद्वा इति पाठः समीचीनो भाति पातञ्जलमहाभाष्यानुसारेण । “यद्वा सर्वे भावाः खेन भावेन भवन्ति स तेषां भावस्तदभिधाने [ पा० वा०] । किमेभिस्त्रिभिर्भावग्रहणैः क्रियते ? एकेन शब्दः प्रतिनिर्दिश्यते, द्वाभ्यामर्थः । यद्वा सर्वे शब्दाः खेनार्थेन भवन्ति स तेषामर्थ इति तदभिधाने त्वतलौ भवत इति वक्तव्यम् ।" इति पाणिनीयशब्दानुशासनस्य कात्यायनविरचितवार्तिकोपरि पातञ्जलमहाभाष्ये पाठः ॥ ६येन येन य० ॥ ७ तदात्मनों प्र०॥ ८°षादात्मानो य० ॥ ९ कर्तृमनु प्र० ॥ १० अत्र सर्वभावस्व इत्यपि पाठः स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org