________________
२१८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे मुहूर्तजातानामपि पुरुषाणां तन्मात्रभेदप्रभेदस्वामिभृत्यादि । तस्यैव च व्यापित्वात् तथा तथा युगपदेव पश्यतामहतां प्रवचने कालज्ञानमवितथं दृश्यतेऽद्यतनेष्वपि केषुचित् पुरुषेषु । अतिसौक्ष्म्याचास्य तज्ज्ञानाभिमुखानां कचिद् वचनविसंवदनमपि । अत एव च साशङ्कमन्वाहुरन्ये
कालः पचति भूतानि कालः संहरति प्रजाः। कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥[ ]
व्यभिचार इति चेत् , न, कालदोषाभावात् , उत्पातोपघातस्यापि कालकृतत्वात् कस्यचिद् भावस्य व्याध्युपघातात् कालेऽपि शुनो मैथुनाभाववत् तस्य व्याधिकालमरणकालादीनां तथाभावात् ।
तस्मादेवेत्यादि । तस्मादेव आवलिकादिस्वरूपवर्तनभेदादेव मुहूर्तजातानामपि पुरुषाणां 10 तन्मात्रभेदप्रभेदस्वामिभृत्यादि, कश्चित् स्वामी कश्चिद् भृत्यो भवतीति जन्मकालभेदाद् भावभेदा
अनुमातव्या धूमादग्निवत् । आदिग्रहणात् सुरूपदूरूपसुभगदुर्भगप्राज्ञाप्राज्ञादिभावभेदाः । तस्यैव च
व्यापित्वात् , चशब्दात् प्रभविष्णुत्वाच्च, एवं हि कालकारणस्य प्रभुता व्यापिता च, यत एतद्वर्तनावर्त१५९-१ विपरिवर्तभेदप्रभेदास्तथा तथा युगपदेव पश्यतां विश्वदृश्वनामहतां प्रवचने कालज्ञानमवितथं
प्रमाणीभूतं तद्विषयं दृश्यतेऽद्यतनेष्वपि केषुचित् पुरुषेषु कलिबलमलीमसप्रज्ञेष्वपि । स्यान्मतम् - 15 कचिद् विसंवदनदर्शनात् कालज्ञानाप्रामाण्यमिति, एतच्चायुक्तम् , अतिसोक्षम्याच्चास्य तज्ज्ञानाभिमुखानां क्वचिद् वचनविसंवदनमपि प्रणिहितधियामपि पुंसां कचिज्ज्ञानविसंवादात् , कालसौम्यं दुरुपलक्ष्यत्वात् कारणम् , छद्मस्थानां ज्ञेयानन्त्यादज्ञानबहुत्वाज्ज्ञानपरिमितत्वाच्च सर्वस्य सरागस्य ज्ञानादज्ञानं बहुलमिति । तथा च
___"केई णिमित्ता तहिया भवंति केसिं च तं विप्पडिएति णाणं । [ सूत्रकृताङ्ग. १२।१०] 20 अत एव च साशङ्कमन्वाहुरन्ये, न विनिश्चितं प्रसह्य, यथा कालः पचतीत्यादि, भूतानां वर्तनात्मकात् कालादन्यत्वाभ्युपगमादनन्यत्वेन कालवर्तनात्मकत्वेनैव न विनिश्चितम् । तथा प्रजानामन्यत्वे संहरणं (प्तानां जाग्रतां वा तदन्यत्वेन निर्देशादविनिश्चितत्वात् साशङ्कमेव भेददर्शनानुपातेनोक्तत्वात् ।
१ व्यव्युपघा य० । व्यत्युपधा भा०॥ २ भेदप्रभवात्स्वामि भा० ॥ ३°दुरूप प्र० ॥ ४°क्ष्म्या. सस्य य०॥५ केयं णिमित्ता तयिया प्र० । “केई निमित्ता तहिया भवंति कसिंचि तं विप्पडिएति णाणं । ते विजभावं अणहिजमाणा आहेसु विजापरिमोक्खमेव ॥ १२॥१० ॥ ननु व्यभिचार्यपि श्रुतमुपलभ्यते, तथा हि-चतुर्दशपूर्व विदामपि षट्स्थानपतितत्वमागम उद्धृष्यते, किं पुनरष्टाङ्गनिमित्तशास्त्रविदाम् ? अत्र चाङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छन्दसा अर्धत्रयोदश शतानि सूत्रम् , तावन्त्येव सहस्राणि वृत्तिः, तावत्प्रमाणलक्षा परिभाषेति । अङ्गस्य त्वर्धत्रयोदश सहस्राणि सूत्रम् , तत्परिमाणलक्षा वृत्तिः, अपरिमितं वार्तिकमिति । तदेवमष्टाङ्गनिमित्तवेदिनामपि परस्परतः षट्स्थानपतितत्वेन व्यभि. चारित्वमत इदमाह-केईत्यादि, छान्दसत्वात् प्राकृतशैल्या वा लिङ्गव्यत्ययः, कानिचिन्निमितानि तथ्यानि सत्यानि भवन्ति । केषाञ्चित्तु निमित्तानां निमित्तवेदिनां वा बुद्धिवैकल्यात् तथाविधक्षयोपशमाभावेन तद् निमित्तानं विपर्यासं व्यत्ययमेति ।” इति शीलाङ्काचार्यविरचितायां सूत्रकृताङ्गवृत्तौ ॥ ६ च णं वि य० ॥ ७एव साशय० ॥ ८ सुप्तानां जाता वा प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |