________________
२१७
कालप्रभुविभुत्वाभ्यां भावभेदाभिधानम्] द्वादशारं नयचक्रम् ननु कृषीवलादिभिरपि पर्युपास्यते तथा तथा आविर्भूतश्शूताङ्कुरकालो न तावदाविर्भूत इति । ____तस्मादेव चावगमितद्रव्यक्षेत्रभावात्मनः सुषमादिभेदात्मकाद् भावभेदाः सम्भवन्ति कालस्य प्रभुविभुत्वाभ्याम् । एकसमायामपि संवत्सरवर्तनात् सुभिक्षदुर्भिक्षादिभावभेदाः.......एकमुहर्तेऽपि लग्नवर्तनाद् भावभेदाः । तस्मादेव
कृषीवलादिभिरपि पर्युपास्यत इति, किं पुनर्विद्वद्भिरित्यर्थः, तथा तथा यथा यथासौ कालो व्यवतिष्ठते तथा तथा पुरुषः पर्युपास्ते, आविर्भूतश्ताङ्करकालो न तावदाविर्भूत इत्याविर्भूतानाविर्भूतात्मा।
तस्मादेव चेत्यादि । तस्मादेव च वर्तनालक्षणात् कालादवगमितद्रव्यक्षेत्रभावा आत्मानोऽस्य तस्मादवगमितद्रव्यक्षेत्रभावात्मन अवगमितद्रव्यक्षेत्रभावात्मकादित्यर्थः । प्राग् निमित्तं द्रव्यं भूम्यादि-10 व्रीह्यादि, द्रव्यात्मा काल इति, घटो ग्रीवादय इति क्षेत्रम् , भावो रूपादयः, ने केचिद् युगपदात्मिकां वृत्तिप्रख्याति कालमन्तरेण इति कालत्वावगमनं वर्तत एव । तस्माद्रव्याद्यात्मकात् कालात् सुषमसुषमादिभ्य उत्सर्पिण्यवसर्पिण्याख्यकालभेदेभ्यः परमनिरुद्धसमयत्वेनाभिन्नादपि सुषमादिभेदात्मकाद् भावभेदाः सम्भवन्ति, तद्यथा- सुषमसुषमायां सुषमायां सुषमदुष्षमायां चात्रैव भारते क्षेत्रे देवलोकवद् भवन्ति प्रतनुक्रोधमानमायालोभास्त्रिद्वयेकगव्यूतोच्छृितदेहास्तावत्पल्योपमजीविन्यो मिथुनधर्मिकाः प्रजा 15 मण्यङ्गादिकल्पतरुकल्पितोपभोगविधयः, स्वादुसुरभिजला चतुरङ्गुलहरिततृणा निम्नोन्नतवर्जिता सुरभिस्वादुरसा सुखस्पर्शादिगुणा भूमिरित्यादि । स एष पुनरनुभावः कालस्य प्रभुविभुत्वाभ्याम् , काल एव हि प्रभवति विभवति च सर्वभावभेदानामुत्पत्ति स्थितिप्रलयेष्वात्मप्रभेदमात्राणाम् । तथा दुष्षमसुषमायां १५८-२ सुखदुःखसमत्वाद् भूयिष्ठसुखत्वाद् धर्माचारभूयिष्ठत्वाच्च मनुष्यलोकवद् भावभेदाः । दुःषमायामाहारभयमैथुनपरिग्रहसंज्ञाप्राचुर्यादधर्मकर्मोन्मार्गप्रस्थानभूयिष्ठत्वाच्च तिर्यग्लोकवत् । दुःषमदुःषमायां नरकलोकवद् 20 दुःखैकरसत्वात् । तथा कृत-त्रेता-द्वापर-कलियुगसंज्ञाविभागेषु व्याख्याविकल्पमात्रभेदेषु युगेषु । किश्चान्यत् -- एकसमायामपि भावभेदास्तत्प्रभुविभुत्वाभ्यामेव, संवत्सरवर्तनाद् सुभिक्षदुर्भिक्षादिभावभेदाः, एवमुत्तानार्था भावभेदा नेया यावदेकमुहूर्तेऽपि लग्नवर्तनात् नालिका-लवादिभेदेन च भावभेदा नेया यावत् परमनिरुद्धे समयवर्तनेऽन्यस्मिन्नन्यस्मिन्निति । एकस्मिन्नपि काल उत्पातादिवर्तनाद् भावभेद
१'प्रागभिहितं द्रव्यं भूम्यादिव्रीह्यादि' इत्यपि पाठोऽत्र स्यादिति भाति ॥ २ दृश्यतां पृ० २०५ पं० २॥ ३ एतस्माद् भा० ॥ ४ कालायुषमसुषमसुषमादिभ्य पा० डे० ली० ॥ ५ अत्र सुषमसुषमादि इत्यपि पाठः स्यात् ॥ ६ “विप्फुरिदपंचवण्णा सहावमउया य मधुररसजुत्ता। चउरंगुलपरिमाणा तणत्ति जाएदि सुरहिगंधड्डा ॥३२२॥” इति तिलोयपण्णत्तिग्रन्थे चतुर्थे महाधिकारे ॥ ७ दुःषम य० ॥ ८ सुखसमत्वाद् भा० । सुखमदुःखसमत्वाद् य० ॥ ९ भूयिष्यसु पा० डे० लीं० २० ही० । भूयिष्टासु वि० । भूयिष्ट्यासु भा०॥ १०°भूयिष्यत्वाच्च य० ॥ ११ रुद्धं प्र० ॥ १२ न्यथास्मिन्निति प्र० ।।
नय० २८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org