________________
२१६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे खात्मविषयक्रियाबन्धसंसरणवजीवपुद्गलयोरभिन्नवर्तनखतत्त्वयोः स्वत एव बन्धक्रिया संसारक्रिया च वर्तनाभेदेन रूपभेदेन च कालस्यात्मवात्मन्येव क्रिया अनात्मस्वात्मनि वा युगपदेव बन्धसंसरणविहिता बन्धसंसारानादिता न न युज्यते।
इत्यनादिवर्तनाप्रभेदपूर्वापरादिक्रमाद् भावान्तराणि क्रमेण प्राप्तानि भूम्यम्ब्वादियोगो बीजोड्दो मूलमङ्कुरः....."कुण्डकतन्दुलौदनः। जीवपुद्गलवृत्तिपरिवृत्तिभेदेन वर्तनैव आरम्भप्रवृत्तिनिष्ठाः । तदेव हि वर्तनं परिवृत्त्यपरिवृत्तिषु । म्बुवाय्याकाशपुरुषादयो युगपत् समेता लोकाख्यां लभमाना अनादयः, त एव च व्रीहियवगोधूमचूतपनसादित्वेन स्त्रीपुरुषमहिषाजगवयगवादित्वेन च वर्तन्ते सहैव, भूम्यादिव्रीह्यादित्वेन तादृश्योवृत्तिविवृ10 त्योरव्यवच्छेदेन स्व एवात्मा विषयोऽस्याः क्रियायाः सा तेषां व्रीह्यादिभूम्यादीनां वृत्तिविवृत्तिप्रबन्धेन आत्मस्वरूपविषया क्रिया, सैव च बन्धः स्निग्धरूक्षवृत्त्या तेषां संश्लेषात् , अन्यान्यरूपापत्तिः संसरणम् , तच्च अनादि युगपदुभयं बन्धनं संसरणं दृष्टम् , तथा जीवपुद्गलयोरभिन्नवर्तनस्वतत्त्वयोः
स्वसाध्येभ्य एव साधनात्मभ्यः हेतुकार्यभूतेभ्यः कारणेभ्यः परस्परसंश्लेषवर्तनेभ्य इव भूम्यादिव्रीह्यादीनां १५०-२ हेतुभ्यः स्वत एव बन्धक्रिया संसारक्रिया च वर्तनाभेदेन रूपभेदेन चेति दृष्टान्तप्रसिद्धार्थ15 व्याख्यानम् । दार्टान्तिकव्याख्यानं तु कालस्यात्मस्वात्मन्येव क्रिया अनात्मस्वात्मनि वेति, कालस्य अभिन्नवर्तनस्वतत्त्वस्य भूम्यादिव्रीह्यादिबन्धसंसरणवदेव आत्मस्वात्मनि जीवस्वरूपे क्रिया अनात्मस्वात्मनि पुद्गलस्वरूपे वा युगपदेव बन्धसंसरणविहिता कालकृतबन्धसंसारविहिता तत्कृता विधातुरन्यस्याभावात् , सैषा संसारिता युगपदभिन्नानादिवृत्त्यात्मिका जीवपुद्गलयोः परस्परं स्वात्मपरात्मवृत्तिकृतबन्धसंसारा
नादिता न न युज्यते विरोधाभावादित्यभिप्रायः । एवं तावद् यौगपद्यलिङ्गकालकृतसंसारानादिता । 20- पूर्वपरादिलिङ्गकालकृतसंसारानादिताप्यस्मिन् दर्शने न विरुध्यत एवेत्यत आह - ईत्यनादिवर्तनाप्रभेदेत्यादि । इतिशब्दार्थ इत्थमर्थे, इत्थमुपपादितानादिताया एव वर्तनायाः प्रभेदास्ते पूर्वापरादिक्रमात्, त एव भावान्तराणि क्रमेण प्राप्तानि । कानि तानीति चेत्, भूम्यम्ब्वादियोगो बीजोद्भेदो मूलमङ्कर इत्यादि गतार्थं यावत् कुण्डकतन्दुलौदन इति । ओदनादप्यभ्यवहृताद् रसादि यावत् कडेवरम् , कडेवराद् मृत् , मृदो मृत्पिण्डः, मृत्पिण्डाच्छिवकः, पुनर्यावद् भूम्यादित्वेन परमाणुद्वथणुका25 दिसङ्घाताः, जीवपुद्गलवृत्तिपरिवृत्तिभेदेन वर्तनैव आरभते प्रवर्तते नितिष्ठतीत्यारम्भप्रवृत्तिनिष्ठाः
पुनर्विपरिणामोऽन्यरूपेणाविर्भावः स आरम्भः, प्रवर्तनं स्थितिः, निष्ठा तिरोधानम् , इत्येतदनुपरतं धर्मत्रय
चक्रकमयुगपद्वृत्तावपि युगपद्वृत्तावपि, पूर्वाभिहितबन्धसंसरणवदुत्पत्तिस्थितिभङ्गा अपि वर्तनस्वात्मैव, तदेव १. हि वर्तनं परिवृत्त्यपरिवृत्तिष्वित्यविरोधं कालकारणवादस्य दर्शयति । तत्प्रसिद्धिप्रदर्शनार्थमाह - ननु
१ स्वत एवात्म य० ॥ २ "स्निग्धरूक्षत्वाद् बन्धः” तत्त्वार्थसू० ५।३२॥ ३ अन्योन्ये रूपा य० । अन्येरूपा भा० ॥ ४ °स्परं भा० ॥ ५°दिवत्वसं प्र० ॥ ६ इत्यादिनावर्तना य० ॥ ७ इत्थमुपपादिताया एव भा० । इत्थमुपपादिता अनादिताया एव य०॥ ८°क्रमास् त एव पा० डे० ली । (क्रमास्त एव)॥ ९भवाप्र०॥ १० अत्र 'कुण्ड कतन्दुलौदनाः' इत्यपि पाठः स्यात् ॥ ११ परिवर्ति २० ही. विना । परिवत्ति २० ही० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org