________________
कालवादे संसारानादितोपपादनम् ] द्वादशारं नयचक्रम्
२१५ कारणाभावादशरीरत्वादकरणत्वाच्च । प्रदोषाभावात् काभावः......."संसारानादिता।
नापि तस्य नियतेः संसारानादिता, अतत्त्वात् । यद् यदतत् तत् तन्न तन्नियति दृष्टम् , घटपटवत् । एवमेव तस्य स्वभावात् ।
तस्मात्त्वनादिवर्तनात्मकत्वात् कालस्य पृथिव्यादिबीह्यादिवृत्तिविवृत्तिप्रबन्ध-5 दाद् युज्यते । पुरुषवादिनः पुनः परमात्मनः शुद्धात् कूटस्थादिनित्यात् कार्यकारणे द्वे अपि व्यतीतान्न युज्यते संसारो बन्धाभावात् , बन्धाभावः कारणाभावादशरीरत्वादकरणत्वाच्च , 'च'शब्दात् सर्वगतत्वादेकत्वान्नित्यत्वाञ्चेत्यादयोऽपि हेतवः, प्रदोषादिकारणाभावे प्रदोषाभावात् कर्माभाव इत्यादि गतार्थं यावत् संसारानादिता ।।
अत्राह नियतिवादी - तस्य संसारस्यैव तथानियतेः संसारो भवति पुरुषपुद्गलयोरिति । अत्र 10 ब्रूमः -नापि तस्य नियतेः संसारानादिता, कस्माद्धेतोः ? अतत्त्वात् , तद्भावस्तत्त्वम् , न तत्त्वमतत्त्वम् , तस्मादतत्त्वात् तन्नियतेनं भवति संसारः, अतत्त्वं चास्य संसारस्य कचिदुपरमाभ्युपगमात् , स्वहेतोः साध्याविनाभावित्वोपप्रदर्शनार्थमाह - यद् यदतत् तत् तन्न तन्नियति दृष्टम् , यथा घटः पटनियतिर्न भवति पटोऽपि घटनियतिर्न भवति, तस्माद् घटपटवदतत्त्वान्नापि तस्य नियतेरिति साधूक्तम् । किश्चान्यत् , एवमेव तस्य स्वभावात् । यदि ब्रूयात् - तस्य स्वभावात् संसारानादितेति, एतच्च नापि 15 तस्य स्वभावात् , अतत्त्वात् । अतत्त्वमस्य पूर्ववद् मुक्त्यवस्थाभ्युपगमात् सिद्धम् । यद्यदतत् तत् तन्न १५७-१ तत्स्वभावं घटपटवदिति । एवं तावदनादिसंसारिता नोपपद्यते नियत्यादिवादे कालमन्तरेणेत्युक्तम् ।
इदानीं कालवादे तदुपपत्तिरुपवर्ण्यते-तस्मात् त्वनादिवर्तनात्मकत्वादित्यादि यावन्न न युज्यत इति । तस्मादिति प्रस्तुतात् कालात् संसारानादिता न न युज्यत इति सम्भन्त्स्यते । तुशब्दो विशेषणे, कालवाद एवैतदुपपद्यतेऽनादिसंसारित्वम् , यौगपद्यपर्यायत्वादनादित्वस्य योगपद्यस्य च 20 कालप्रभावाविनाभावित्वात् कलनवृत्तिपर्यायत्वाच्च कालस्येति तत्प्रदर्शनार्थं हेतुमाह - अनादिवर्तनात्मकत्वात् कालस्य , कालो हि युगपदनादिवृत्त्यात्मकः । नन्विदं प्रागुक्तेन विरुद्धं पूर्वपरादिवृत्तेरयोगपद्यादिति चेत् , न, वर्तनस्य यौगपद्यात् , तद्यथा-पृथिव्यादिब्रीह्यादिवृत्तीत्यादिदृष्टान्तदण्डकः । यथा पृथिव्य
सरागसंयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य ।१३। केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य ।१४। कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य ।१५। बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः ।१६। माया तैर्यग्योनस्य ।१७) अल्पारम्भपरिग्रहत्वं
मावमार्दवावं च मानुषस्य ।१८। निःशीलवतत्वं च सर्वेषाम ।१९। सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ।२०। योगवक्रता विसंवादनं चाशुभस्य नाम्नः ।२१। विपरीतं शुभस्य ।२२। दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी सङ्घसाधुसमाधिवैयावृत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य ।२३। परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचर्गोत्रस्य ।२४। तद्विपर्ययो नीचवृत्त्यनुत्सेको चोत्तरस्य ।२५। विघ्नकरणमन्तरायस्य ।२६।" इति तत्त्वार्थाधिगमसूत्रे षष्टाध्याये ॥
१ करणा' भा० ॥ २ भावा य० ॥ ३°यतिर्न प्र० ॥ ४ चास्य न भवति संसारस्य प्र० ॥ ५°प्रभाविनाभावित्वात् य० । प्रभावित्वात् भा०॥ ६कलना य० ॥ ७°दिविवृत्ते भा०॥ ८°दि दृष्टा भा० वि०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org