________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ द्वितीये विधिविध्यरे
तयोरप्यनागते कारणाख्याभिमुख्येन कल्यमानता दृश्यते संयोगतत्वाद्युदकगर्भ
सर्जनपाचनादिवर्तनपटत्ववत् ।
अत एव च कलनमेव ह्येकं कार्यकारणवृत्तित्वेन विपरिवर्तितुं क्षममपुरुषकारमखभावमनियति संसारि अनादि । कालवृत्तेरेव पुरुषवाद्युक्तमुक्तिक्रमार्थतुरीयवचनादेव कालसामर्थ्यात् क्रमात्मलाभो घटते । मिथ्यादर्शनादिभिस्तत्प्रदोषनिहवादिभिश्च कर्मबन्धप्रक्रियोपपत्तेः संसारानादिता सन्तानाव्यवच्छेदाद्युज्यते । पुरुषवादिनः पुनः परमात्मनः शुद्धान्न युज्यते संसारो बन्धाभावात् । बन्धाभावः
२१४
कार्याख्याभिमुख्यकारणैक्यवद् ग्रहणकरणयोः समाना कल्यमानता दृश्यते, ततोऽयैक्यमेव । तद्यथा - संयोगतत्वाद्युदकगर्भसर्जन पाचनादिवर्तनपेटत्ववत्, यथा तन्तूनां संयोगं दृष्ट्वा रुतकर्पासप्रलहीपोण्ड१५६-९ प्रलहीमूलाङ्कुरादिजल सर्जनपाचनधारणमेघकलनानि वृत्तानि तथा च क्रियन्त इति तान्येव वर्तनानि पट इत्येष्यत्प एव तथा तन्तुवायस्य ग्रहणकरणाभ्यां प्रवृत्तत्वाद् वर्तमानातीतपटता दृष्टा इत्यैक्यमेव ।
10
अव त्यादि । एतस्मादेव कारणाद् वर्तनस्याप्रतीघाताद् व्यापित्वाच्च कारणान्तरापेक्षा नास्ति, कलनमेव ह्येकमनन्यसाधनं स्वयमेव कार्यकारणवृत्तित्वेन विपरिवर्तितुं क्षमम्, अपुरुषकारं चेतनाचेतनेषु वृत्तेरभेदात्, अस्वभावं जीवाजीवात्मकैपरिणतिक्रमविवृत्त्यजस्रत्वात् अनियति तथान्यथाभाव15 विर्षैरिवर्तवर्तनात्मकत्वादेव, संसारि रूपयणुकच्यणुकादि भूम्यम्बुव्रीह्याद्याहाररसरुधिरादिविपरिवर्तनस्वभावान्तरसङ्क्रमणलक्षणत्वात् संसारस्य, अत एवानादि, अनादित्वेन दूरमपक्षिप्ता नियत्यादिकारणान्तरापेक्षा अनेन कलनेन । तस्मादनादित्वात् कालवृत्तिः अस्या एव कालवृत्तेरेव केवलायाः कारणान्तरनिरपेक्षाया तो: यदप्युच्यते पुरुषवादिना 'पुरुषक्रियात एव सर्वम्' इति तदस्मादेव कालाद् भवति न पुरुषकारात् अनादीनां यौगपद्यादादिमतां पौर्वापर्ययुक्तवृत्तित्वात् तयोश्च कालत्वात् किल तेनैव पुरुषवादिना कालस्य 20 समर्थितत्वादित्यत आह – पुरुषवाद्युक्तमुक्तिक्रमार्थतुरीयवचनादेव, सुषुप्तावस्था विशुध्यन्त सुप्तावस्था भवति, सुप्तावस्था च जाग्रदवस्था भवति, जाग्रदवस्था विशुद्धा सती तुरीया मुक्त्यवस्था भवतीति कालसामर्थ्यात् क्रमात्मलाभो घटते, तस्मात् सुषुप्तादेरवस्थाविशेषव्यवस्थानस्य अनादिकालप्रवृत्त्यात्मकत्वं १५६-२ परमात्मनो वर्तनतत्त्वस्य अस्मन्मत एवमेव घटते, न पुरुषवादे, क्रमाक्रमविकल्पाभावात् । अन्यथा
अवस्थाचतुष्टयस्य एकसर्वगतनित्याक्रमकारणात्मकस्य कतमावस्था प्रथमा द्वितीया तृतीया तुरीया चेति ? 25 किञ्चान्यत्, वृत्तिक्रमापादितकार्यकारणावस्थयोः कार्यकारणभावोपपत्तेर्मिथ्यादर्शनादिभिः सामान्यहेतुभिः तत्प्रदोषनिहृवादिभिश्च विशेषहेतुभिः कर्मबन्धप्रक्रियोपपत्तेः संसारानादिता सन्तानाव्यवच्छे
५ कंपर
१ ग्रहकरणयोः प्र० ॥ २ पटवत् य० ॥ ३ कार्यते य० ॥ ४ सप्तम्यन्तोऽयं निर्देशः ॥ ति य० ॥ ६ 'रिवर्तनात्म भा० ॥ ७ वर्तनस्य भावा प्र० ॥ ८ पुरुष एवादिना प्र० ॥ ९ पद्या दिमतां प्र० । १० " मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः | ८|१|" इति तत्त्वार्थाधिगमसूत्रे ॥ ११ “कायवामनः कर्म योगः | १| स आस्रवः | २| शुभः पुण्यस्य | ३ | अशुभः पापस्य |४| तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः 1991 दुःखशोकता पाक्रन्दनवधपरिदेवनानि आत्मपरोभयस्थानि असद्वेयस्य |१२| भूतवत्यनुकम्पा दानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org