________________
वर्तनखतत्त्वकालनिरूपणम्] द्वादशारं नयचक्रम्
२१३ श्चेति विशेषव्यपदेशं लभते । स एव तु त्रिधा भिद्यते, अन्यथान्यस्याभावात् । स एव तथा कलयन् वर्तनेन कलयति, स एव कल्यते, तेन तस्मै चेत्यादि।
__ एवमेव च स वर्तमानातीतयोः कारणावस्थयोरेव कार्याख्याभिमुख्येन गृह्यते एकत्र मेघादिरेकत्र पटादिः । ग्रहणवच्च स एव क्रियते तथा वृत्तेः क्रियया कल्यते।
किं कारणम् ? अन्यथान्यस्याभावात् , इह ह्यन्यदन्यथा न भवति, यथा कुसुमं खपुष्पं न भवति । खपुष्पं वा कुसुमं न भवति, घटो वा पटतया न भवति घंटतया पटो वा न भवति । किं तर्हि ? तदेव तद् भवति, कुसुममेव कुसुमम् , तदेव चान्यथापि भवति यथा कुसुममेव मुकुलितार्धविकसितसमस्तविकसितजरत्ताम्लानादित्वादिना । एवं तावत् काल एव भाव इत्यभेदेन भवनं व्याख्यातम् । कारणभेदेनापि स एव तथा कलयन् वर्तनेन कलयतीति कलनस्य कर्तृत्वमनुभवतीति कैलनं भवतीत्यर्थः । स एव कल्यते क्रियते कर्म भवतीत्यर्थः पूर्वापरतया कार्यकारणभावात् । तेन च तस्मै चेत्यादि तस्यैव कलनस्य 10 शक्तिभेदात् , तेन क्रियत इति करणता, तस्मै क्रियत इति सम्प्रदानता । [आदिग्रहणात् तस्मात् तस्मिन्निति अपादानाधिकरणभावावपि ।
___ तस्यैवेदानी कालस्य त्रिधा भिन्नस्याप्यभेदोपदर्शनार्थं ज्ञानेन क्रियया चैक्यमुच्यते - एवमेव चेत्यादि ज्ञानेन तावदेकत्वं दृश्यते यावदेकत्र मेघादिरिति । एवमेवेति यथैव कर्तृकर्मकरणादिशक्तिभेदेऽप्यभिन्नः कालस्तथा स वर्तमानातीतयोः कारणावस्थयोरेव सप्तम्यन्तोऽयं निर्देशः कार्याख्याभि-११५.२ मुख्येन गृह्यते कार्याङ्गीकरणेन तत्प्राधान्येन तादात्म्येनेति यावत् , वर्तमानावस्थायां कार्याख्याभिमुख्येन अतीतावस्थायां चोत्तरावस्थाभिमुख्येन स एव कालो गृह्यते, किमुक्तं भवति ? कल्यते ज्ञायते । यथासङ्ख्यमेकत्र पटादिरेकर मेघादिः, वर्तमाने पटादिरतीते मेघादिः । तद्यथा-पुरुषो हि पूर्वाह्ने पटं पश्यन्नपराह्नेऽपि पट एवायं श्वोऽप्यपरेधुरुत्तरेधुरपि पट एवेति वर्तमानकालेऽपि पटमेष्यत्कालेऽपि पटमेव मन्यते । मेघे चोन्नतमात्रे वर्षति अयं 'ततः प्रलहीबीजमुत्पद्यते, मूलाङ्करादि भवति, ततः प्रलहीपोण्डम् , ततः 20 कर्पासः, ततः सूत्रम्, ततः पटः' इत्यतीतकाल एव एष्यत्कालं पटं मन्यते इत्यतः कार्याख्याभिमुख्येन स एव कालोऽतीतो वर्तमानश्चाभेदेन गृह्यमाणो दृष्टस्तस्मादभिन्नः । एवं ज्ञानेनैक्यमापाद्य क्रिययाप्यैक्यमापादयति अतिदेशेन -ग्रहणवच्च स एव क्रियते । किं कारणम् ? तथा वृत्तेः, एवं हि वर्तनम् , सैव हि क्रिया यथा गृह्यते तथा क्रियतेऽप्यसावेवाभेदेनेति तत्कारकार्थं दर्शयति-क्रियया कल्यत इति । एवं तावदतीतवर्तमानयोः कारणयोः कार्याख्याभिमुख्येन ग्रहणकरणाभ्यामैक्यम् , आख्याशब्दः शब्दमात्रेणैव 25 भेदात् । तयोरप्यनागते, तयोः कारणयोरप्यनागते कार्येऽतीतवर्तमानयोः कारणाख्याभिमुख्येन
१ पटतया घटे समभवति पा० डे० लीं । पटतया घटतया न भवति वि० । पटतया घव्योम भवति रं० ही० । भा० प्रतौ तु इदं वाक्यमेव नास्ति ॥ २ कारकभेदेनापीत्यर्थः ॥ ३ कलन य० ॥ ४ पूर्वपर प्र० ॥ ५ तस्य चे प्र० ॥ ६करणकारक?]ता य० ॥ ७ णभावपि प्र०॥ ८°योरेवं पा० २० ही० भा० ॥ ९ तदात्मनेनिति य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org