________________
२१२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे कलनात्मकं रूपं भूयो भूयो विपरिवर्तते ध्रुवादिसर्वनित्यलक्षणम् । तस्माद्विश्वविकल्पविवर्तवर्तनायाः कलनमस्मदाद्यसर्वज्ञं प्रति अनुमानमात्रगम्यमविविक्तममितपूर्णकोष्ठागारधान्यवत् सर्वज्ञं च प्रति विविक्ताया वर्तनायाः कलनं कालः।।
स तथाभूतेन कलनार्थेन वर्तनामेव सामान्यमत्यजन् भूतो भवति भविष्यं
5 न केवलं चेतनाचेतनयोः परस्पररूपापत्तिकृतैव वृत्तिः, किं तर्हि ? अचेतनस्यापि पृथिव्यादित्वेनापि
तथा, तद्यथा- एकजातित्वात् पुद्गलानां पृथिव्युदकज्वलनपवनवनस्पत्यादित्वेन विपरिवर्तमानपरिणतीनाम१५४-२ नाद्यनन्तश एव वृत्तिर्वर्तनम् , तस्यात्मा स्वं तत्त्वं येषां परमाणूनां ते परमाणवः, तेषामनाद्यनन्त
वर्तनात्मस्वतत्त्वानां वृत्तः कलनात्मकं रूपं भूयो भूयो विपरिवर्ततेऽभ्यावर्तते, रूपरसादिभेदपरिवर्तनँवद्गुणभेदेनाप्येकद्वित्रिसङ्घयेयासङ्खयेयानन्तगुणभागहीनवृद्धकृष्णशुक्लत्वादिना वाभ्यावृत्तिः, एकांश10 स्यापि परमसूक्ष्मरूपादिभावपरमाणोरपि अनाद्यनन्तशोऽभ्यावृत्तिः । अतस्तदतीतानागतवर्तमानात्मकमेकं कूटस्थमविचालि अनपायोपजनविकारि अवृद्धि व्ययायोगीत्यादि आदिग्रहणात् , ध्रुवादिसर्वनित्यलक्षणमेतदेव कलनात्मकङ्कारणमुपपद्यते, नाणुपुरुषनियत्यादिनित्यत्वम् , पूर्वापरीभावात्मकविपरिवर्तकलनस्य आदिमध्यावसानादर्शनादेवलक्षणस्य नित्यत्वस्य । तस्माद् विश्वविकल्पविवर्तवर्तनायाः कलनं काल इत्यभिसम्भन्स्यते । तच्च कलनं द्विविधम् , अस्मदाद्यसर्वज्ञं प्रति अनुमानमात्रगम्यमविविक्तं 15 सर्ववस्तुसामान्यमात्रग्रहणम् , अमितपूर्णकोष्ठागारधान्यकलनवत् , यथा धान्यममित्वा कोष्ठागारे
पूरितं 'कुम्भशतसहस्राद्यन्यतमपरिमाणम्' इत्युद्देशतो गृह्यते तथोद्देशमात्रतोऽतीतानागतवर्तमानवर्तनाकलनमस्मदादिभिः । सर्वज्ञं च प्रति परमनिरुद्धे काले समय समये वृत्तायाः विविक्ताया वर्तनायाः सङ्ख्यानं कलनं तत् कालः, कल सल्याने [पा० धा० ४९७, १८६६ ] इति प्रतीतेः । यथोक्तम् -
___जं जं जे जे भावे परिणमति पयोगवीससादव्वं । 20
तंतह जाणाति जिणो अपजवे जाणणा त्थि ॥ [आव. नि० ७९४ ] इति । एतद् वर्तनस्वतत्त्वकालनिरूपणम् ।
स तथेत्यादि । स एव कालस्तथाभूतेन वर्तनारूपेण कलनार्थेन समाधिकरणेन तां वर्तनामेव १५५१ सामान्यमभिन्नामत्यजन् 'भूतो भवति भविष्यंश्च' इति विशेषव्यपदेशं लभते, नान्यः कश्चिद
कलनात्मकः पदार्थो नियत्यादिरसत्त्वात् । स एव तु कलनलक्षणो भावस्त्रिधा भिद्यते तत्समाधिकरण25 त्वात् सत्त्वात्मकत्वाद् घटवत् , न व्यधिकरणो भूतो भवति भविष्यंश्वाकाल एव व्यधिकरणोऽतद्रूप एव ।
१त्तिनृतैव वृत्तेः भा०। 'त्तिः वृतैव वृत्तेः पा० डे० ली० वि० । 'त्तिः मृतैव वृत्तेः २० ही० ॥ २त्मकरूपं य० ॥३°नतहुण प्र० ॥ ४ अवृद्धिव्यययोगी भा० । अत्र 'अबृद्धयव्यययोगीत्यादि' इति पाठः समीचीन इति भाति, दृश्यता पृ० २१ पं० २२ । “अथवा नेदमेव नित्यलक्षणं ध्रुवं कूटस्थमविचाल्यनपायोपजनविकार्यनुत्पः स्यवृद्धयव्यययोगि यत् तन्नित्यमिति । तदपि नित्यं यस्मिंस्तत्त्वं न विहन्यते । किं पुनस्तत्त्वम् ? तद्भावस्तत्त्वम् ।" इति पातञ्जलमहाभाष्ये पस्पशाह्निके ॥ ५ कषकारण भा० । कः षकारण पा० डे० लीं० २० ही। कषट्कारक वि०॥ ६ विकल्प य० प्रतिषु नास्ति ॥ ७ सर्वच प्रति भा० । सर्व प्रति य० ॥ ८ नत्थि य० ॥ ९ वर्तमाना प्र०॥ १०रण्येन प्र०॥ ११°त्मकप य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org