SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ___ २११ कालवादिमतनिरूपणम्] द्वादशारं नयचक्रम् अनियतचेतनाचेतनत्वपृथिव्यादित्वेन अनाद्यनन्तवर्तनात्मस्वतत्त्वानां वृत्तेः यतीनां निष्क्रमणादेः काल इति, यथोक्तम् – अप्पणो निक्खमणकालं आभोएत्ता चइत्ता रजं [कल्पसू० ११२] इत्यादि । तथा दण्डकपाटरुचकमन्थलोकपूरणक्रियाभिस्तत्काले कर्मत्रिकस्यायुषा समीकरणमित्यादि। ___ अनियतचेतनाचेतनत्वेत्यादि यावत् कलनं कालः, स्वरूपतदात्मकत्वभावनैव वर्तते । अनियतं चैतन्यमुपयोगरूपादित्वेन रूपे चेतनाया उपयुक्तत्वात् । अचेतनत्वमप्यनियतं चैतन्योपयोगापत्त्योप-5 युक्तत्वात् । अथवा तृणादेर्गवाद्यभ्यवहृतस्य सुखदुःखादिचैतन्यापत्तेर्द्रव्यस्य प्राणाद्यापत्तद्रव्यप्राणातिपातादिभावः कालक्रमागतपरिणतिवशात् उपशमक्षयक्षयोपशमोदयपरिणामभावैश्च जीवपुद्गलयोरनाद्यनन्तशो वर्तनात् । १ आभोए २त्ता वि० । अत्र 'आभोएइ आभोएत्ता' इत्यपि पाठः स्यात् । “तए णं समणे भगवं महावीरे अप्पणो निक्खमणकालं आभोएड, आभोइत्ता चिच्चा हिरणं चिच्चा सुवणं चिच्चा धणं चिच्चा रज वाहणं कोसं कोट्ठागारं चिच्चा पुरं अतेउर चिच्चा जणवयं चिचा विपुलधणकणगर यणमणिमोत्तियसंखसिलप्पवालरयणमाइअं संतसारसावइजं विच्छड्डइत्ता विगोवइत्ता दाणं दायारेहिं परिभाइत्ता दाणं दाइयाणं परिभाइत्ता" इति कल्पसूत्रे पाठः । "तते णं समणे भगवं महावीरे तेणं अणुत्तरेणं आहोधिएण नाणदसणेणं अप्पणो निक्खमणकालं आभोएति । अप्पणो २ त्ता चेच्चा हिरणं चेच्चा सुवणं चेच्चा धणं चेचा धण्णं चेच्चा रटुं एवं बलं वाहणं कोसं कोट्ठागारं चेचा पुरं चेच्चा जणवयं चेचा विउलधण कणगरतणमणिमोत्तियसंखसिलप्पवालरत्तरयणमातीयं संतसारसावतेजं विच्छड्डइत्ता विग्गोवइत्ता दाणं दांइयाणं परिभाएत्ता" इति दशाश्रुतस्कन्धसूत्रे पाठः ॥ २ "केवलिनः समुद्धातः केवलिसमुद्धातः । तत्करणसमये च भगवान् केवली अन्तर्मुहूर्तमुदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमावर्जीकरणं करोति, ततः समुद्धातं गच्छति, तस्य चायं क्रमः, तद्यथा-प्रथमसमये तावत् स्वदेहविष्कम्भबाहल्योपेतम् आयामतस्तु ऊधिोलोकान्तगामिनं जीवप्रदेशसंघातरूपं दण्ड केवलज्ञानाभोगतः करोति, द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् तिर्यग्लोकान्तगामिनं कपाटमिव कपाट विदधाति, तृतीयसमये तमेव कपाट दक्षिणोत्तरदिग्द्वयप्रसारणात् तिर्यग्लोकान्तगामिनमेव मन्थानमिव मन्थानं करोति, एवं च लोकस्य प्रायो [ पृ० १८८] बहु पूरितं भवति, मथ्यन्तराणि च अपूरितानि प्राप्यन्ते जीवप्रदेशानामनुश्रेणिगमनादिति । चतुर्थसमये तान्यपि सह लोकनिष्कुटैः पूरयति, तथा च समस्तोऽपि लोकः पूरितो भवति । ननु लोकमध्ये वली समुद्घातं करोति तदा तृतीयेऽपि समये लोकः पूर्यत एव, किं चतुर्थसमयेऽन्तरपूरणेनेति ? नैतदेवम् , लोकस्य मध्यं हि मेरुमध्य एव सम्भवति, तत्र च प्रायः समुद्घातकर्तुः केवलिनोऽसम्भव एव, अन्यत्र च समुद्घातं कुर्वतस्तस्य तृतीयसमयेऽन्तराणि उद्धरन्त्येवेति परिभावनीयम् । तदनन्तरं च पञ्चमसमये यथोक्तकमात् प्रतिलोमं मथ्यन्तराणि संहरति, प्रसृतान् जीवप्रदेशान् सङ्कोचयतीत्यर्थः । षष्ठे समये मन्थानमुपसंहरति । सप्तमे तु समये कपाटं सङ्कोचयति । अष्टमे तु समये दण्डमपि संहृत्य शरीरस्थ एव भवति । तदेवमष्टसामयिकः केवलिसमुद्धातः । [पृ० १८९]..... "दंड कवाडे रुयए लोए चउरो य पडिनियत्तंते । केवलिय असमए भिन्नमुहत्तं भवे सेसा ॥ १९४ ॥ पूर्वोक्तन्यायेन प्रथमे समये दण्डः, द्वितीये कपाटः, तृतीये रुचको मन्था इत्यर्थः, चतुर्थे तु लोकः सर्वोऽप्यापूर्यत इत्येवं चत्वारः समयाः । प्रतिनिवर्तमानेऽपि समुद्घाते पूर्वोक्तयुक्त्यैव चत्वार एव समया भवन्तीत्येवं केवलिसमुद्घातोऽष्टसामयिकः । शेषास्तु समुद्घाताः सर्वेऽप्यन्तमौहर्तिका इत्येतत् सर्वे प्रागेव भावितार्थमिति गाथार्थः ।"[पृ० १९.] इति मलधारगच सूरिविरचितायां जीवसमासप्रकरणवृत्तौ । "केवलिसमुद्घातखरूपमभिधीयते-तत्र सम्यगपुनर्भावेन उत्प्राबल्येन कर्मणो हननं घातः प्रलयो यस्मिन् प्रयत्नविशेषे स समुद्घातः । अयं च केवलिसमुद्घातोऽष्टसामयिकः ।...... अयं कृतकृत्योऽपि केवली किमर्थ समुद्घातं करोतीति चेत्, उच्यते-वेदनीयनामगोत्राणामायुषा सह समीकरणार्थम् उक्तं च-'आयुषि समाप्यमाने शेषाणां कर्मणां यदि समाप्तिः । न स्यात् स्थितिवैषम्याद् गच्छति स ततः समुद्घातम् ॥ १ ॥ स्थित्या च बन्धनेन च समीक्रियार्थ हि कर्मणां तेषाम् । अन्तर्मुहूर्तशेषे तदायुषि समुजिघांसति सः ॥ २॥” इति देवेन्द्रसूरिविरचितायां चतुर्थकर्मग्रन्थवृत्तौ ४।२९॥ ३ कालस्वरूपातदात्मकत्वाप्र०॥ ४ गादिरूपा वि० डे० लीं० २० ही० । 'गारूपा पा० ॥ ५ त्वेनाप्य य० ॥ ६ कालाक्रमा प्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy