________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे यार्थप्रवृत्तेरभ्युपगमविरोधः । स्ववचनपक्षधर्मत्वादीनां च प्रवृत्त्यैव निराकरणम् । एवं दृष्टान्तोऽपि ।
अतो धर्मार्थकाममोक्षाः कालकृता उक्तभावनावत् । तथा ब्राह्मणस्य वसन्तेऽग्याधानम् , वणिजां मद्यस्य, ईश्वराणां क्रीडादीनाम्, निष्क्रमणं कृत्वा यावद्वि5मोक्षं विमोक्षणस्य कालो यतीनाम् ।
स्ववचनपक्षधर्मत्वादीनां च प्रवृत्त्यैव निराकरणम् । येयं पक्षहेतुदृष्टान्ताद्यवयवोच्चारणे प्रवृत्तिस्तया स्ववचनं परमतनिराकरणसमर्थमिति मतं प्रवृत्त्युपलभ्यं स्वत एव नावश्यं भर्वतीति निराक्रियते । अथावश्यं स्वत एव भवति, प्रवृत्तिरनर्थिका प्रतिपादनासमर्थवचनिका प्रवृत्तिवचनयोरनियतार्थत्वात् । हेतुः पक्षधर्मो हेयार्थप्रतिपत्तिनियतोऽवश्यम्भावी प्रवृत्तिमन्तरेण चेत् प्रवृत्तिरनर्थिका, नावश्यम्भावी चेत् 'नियत्य10 भावः । एवं दृष्टान्तोऽपीति व्याख्येयम् । अतः प्रवृत्त्यैवाभ्युपगतया वचनहेतुदृष्टान्तानां निराकरणं प्रमाणान्तरमन्तरेणापीति ।
___ कथं पुनराचारोपदेशानर्थक्यदोषाभावो लोकागमादिविरोधाभावश्च ? इत्येतत्प्रतिपादनार्थमाह -अत इत्यादि । अतः प्रागभिहितकालकार्यत्वाद्धेतोः सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानां सर्वशास्त्रार्थत्वायेयं
पुनर्भावनोच्यते-धर्मार्थकाममोक्षाः कालकृताः, एवं चतुर्वर्गसाध्यसाधनसम्बन्धार्थाः सर्वशास्त्रारम्भाः 15 कालसामर्थ्यादेव सफला नान्यथेति प्रतिपद्यस्व । कथम् ? उक्तभावनावत् , उक्ता भावना रूपादिघटादि
युगपद्वृत्त्यात्मककालरूपं बीजाङ्कुरादिपूर्वोत्तरक्रमवृत्त्यात्मककालरूपं च जगदनियतपरिणति चेति । तस्मादुक्तभावनावदनियतेधर्माद्यर्थानामाचाराणां पूर्वापरीभूतक्रियात्वात् क्रियार्थत्वाञ्चोपदेशानां कालस्य च पूर्वापरी
भूतस्य क्रियात्वात् सार्थकाः शास्त्रारम्भाः । १५४-१ तथा ब्राह्मणेत्यादि । एवं च कृत्वा कालकृतत्वात् क्रिया-क्रियाफलानां धर्मार्थकाममोक्षार्थैः ५७ शास्त्रैरेव विहिताः क्रियाः, तद्यथा यथाक्रमं धर्मादिषु, ब्राह्मणस्य वसन्तेऽग्न्याधानम् , वसन्ते ब्राह्मणो यजेत, ग्रीष्मे राजन्यः, शरदि वाजपेयेन वैश्यः [ ] इत्यादिवचनात् । तथा वणिजां मद्यस्य, आधानमिति वर्तते । ईश्वराणां क्रीडादीनाम् , उद्यानगमनं वासन्तिकवस्त्रालङ्कारमाल्यगन्धभोजनादिसेवनं रमणमित्यादीनाम् , आदिग्रहणात् सन्धिविग्रहासनयानादिगुणानुष्ठानमित्यादि । निष्क्रमणमित्यादि यावद् यतीनाम् , निष्क्रमणकालादारभ्य यावद् विमोक्षं विमोक्षणस्य आत्मकर्मवियोगफलस्य मोक्षस्य कालो
१दीनां वृत्त्यैव य० ॥ २च्चारणं प्र० ॥ ३ स्वबंधन प्र० ॥ ४ तीति क्रियते य० ॥ ५ दृश्यतां पृ० १३८ टि० ९॥ ६नित्यभावः प्र० ॥ ७°त्वा(त्व ?)हेतोः प्र०॥ ८ अत्र सर्वशास्त्रार्थत्वायेयं इत्यस्य स्थाने सार्थकत्वायेयं इत्यपि पाठः स्यात् ॥ ९ कृताः एवं चतुर्थवर्ग प्र० । अत्र कृता एव, चतुर्वर्ग इत्यपि पाठः स्यात् ॥ १० रेवं भा० वि० विना ॥ ११ दृश्यतां पृ० १२१ पं० २०॥ १२ दृश्यतां पृ०८३ टि०५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org