________________
कालवादिना नियतौ दोषाभिधानम्] द्वादशारं नयचक्रम्
२०९ भावस्यान्यथाभावाभावात् , क्रियाया एवौदनतृप्त्यादिफलप्रसूतेः प्रत्यक्षविरोधः।
एवंनियतेरेवैवमिति चेत्, न, कालानन्तरक्रियाया एवैवं क्रियानियतिरिति संज्ञामात्रे विसंवादात्, कालानर्थान्तरत्वात् क्रियायाः।
नियतिप्रतिपादनपरिक्लेशाभ्युपगमाच तेऽवश्यम्भाव्यव्यभिचारदर्शनविपर्य
सह प्रयोजनेन तृप्त्यादिना तदुपदेशवचनारम्भप्रयोजनानि चानर्थकानि लोके, शास्त्रेषु च धर्मार्थकाममोक्षास्त-5 दर्थाश्च शास्त्रारम्भास्तदुपदेशाश्वानर्थकाः प्राप्नुवन्ति । किं कारणम् ? भावस्यान्यथाभावाभावात् , यस्मात् तेनैव भाविनो नाभावः, अभाविनश्च न भावः, तस्माद् भावस्यान्यथाभावाभावात् सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानर्थक्यम् , तस्माच्च लोकागमविरोधौ लोके सर्वागमेषु चारम्भप्रयोजनाभिधानानां प्रसिद्धत्वात् । किश्चान्यत् , क्रियाया एवौदनतृप्त्यादिफलप्रसूतेःप्रत्यक्षविरोधः। क्रियात एवौदनसिद्धिः, नौदासीन्येन आसितुः कदाचिन्नियतेरेव केवलायाः । सिद्धस्य चौदनस्य फलं तृप्तिः सापि मुखे कवलप्रक्षेपासनादि-10 क्रियात एंव भवन्ती दृष्टा, ओदनजन्यतृप्तिबलवर्णरोग्यादि फलं चान्तर्गतात्मरसरुधिरादिविभागपरिणमनक्रियातः । तस्याश्च क्रियाप्रसाध्यतृप्त्यादिहेत्वोदनॅसिद्धौदनजन्यतृप्तिबलवर्णारोग्यादिफलप्रसूतेः प्रत्यक्षत्वाद् 'नियतित एव' इति वादे प्रत्यक्षविरोधः ।
एवंनियतेरेवैवमिति चेत् । एवंविधैवैषा नियतिः क्रियानियतिरित्युच्यते, अस्याः क्रियानियतेरो- १५३-१ दनतृप्त्यादिफलप्रसूतिनियतिरिति । एतच्चायुक्तम् , कालानर्थान्तरक्रियाया एवैवं क्रियानियतिरिति 15 संज्ञामात्रे विसंवादात् , अभ्युपगतं तावत् त्वया ‘एवंनियतेरेवैवम्' इति ब्रुवता काष्ठादिसाधनसन्दर्भया लौकिक्या पचिक्रिययैव ओदनसिद्धितृप्त्यादिफलप्रसूतिनियतिरिति, ‘एवं'शब्दस्य तदर्थत्वात् । सा च क्रियानियतिः कालक्रियापर्यायत्वात् कालनियतिः, नियतिक्रिययोश्चैकार्थत्वात् । तस्मादावयोः संज्ञामात्रे विप्रतिपत्तिर्नार्थे । अत्राह - एवमपि क्रियासिद्धौ कालासिद्धिरिति, अत्रोच्यते, तन्न, कालानर्थान्तरत्वात् क्रियायाः, क्रिया काल इत्यनान्तरम् , कालेनैव क्रियाख्येन एवंनियतिरिति ब्रवता स एव काल इत्युक्तं 20 भवति, कालक्रिययोरनर्थान्तरत्वात् कालनियतिः क्रियानियतिरिति संज्ञामात्रे विसंवादात् पूर्ववदिति।
किश्चान्यत् , नियतिप्रतिपादनपरिक्शाभ्युपगमार्च तेऽवश्यम्भाव्यव्यभिचारदर्शनविपर्ययार्थप्रवृत्तेरभ्युपगमविरोधः । पुरुषकालस्वभावादिदर्शनानां नियत्यैवाव्यभिचारिण्या तदविनाभाविनामव्यभिचारादेव त्वयाभ्युपगतानां परवादिभिश्च स स एवेत्यभ्युपगतानां त्वया पुनस्तद्विपर्ययः 'नियतिरेव कारणं न कालादयः' इति प्रतिपादनार्थं प्रवृत्तिरङ्गीकृता । यदि तानि दर्शनान्यनया त्वदीयया प्रवृत्त्याप-25 नीयन्ते नावश्यम्भावीनि तानि, अथावश्यम्भावीन्येव नापनीयन्तेऽनयापि प्रवृत्त्या ततो नियत्यर्थं परदर्शनविपर्ययमापादयामि इत्ययमभ्युपगमो निवर्तते इत्युभयथाभ्युपगमविरोधः ।
१ यस्मान्न तेनैव २० ही. विना । यस्मान्न तेवैव २० ही० ॥ २ क्रिया एवौं भा० पा० ॥ ३ एवाभवन्ती य० । एवं भवन्ती भा०॥ ४°णामन प्र० ॥ ५ सिद्धो(सिद्ध्यो ?)दन य० ॥ ६°यायाश्चै प्र० ॥ ७°च्यतेतेन(च्यते, न, ?)काला प्र० ॥ ८°चानेवश्यंभावाव्यभिप्र० ॥ ....
नय० २७
१५३-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org