________________
२०८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे व्यवहारेषु काल एव भवतीति भावितं सर्वसङ्ग्रहेणैव वा । क्रमव्यवहारसिद्धयर्थ पूर्वादय आश्रयणीया एव, नियतेरेवासिद्धेर्व्यवहारासिद्धिरन्यथा, पूर्वादिषु तु समाश्रितेषु नियत्या किं क्रियते ?
___ त्वन्यायेन तु विदुषां हिताहितप्राप्तिपरिहारार्थावाचारोपदेशावनर्थको स्यातां 5 चक्षुरूपग्रहणनियतिवत्, अयत्नत एव तथासिद्धेः । यत्नोऽपि नियतित एवेति चेत्, ततः सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानर्थक्याल्लोकागमविरोधी
भवतीति भावितम् । किश्चान्यत् , सर्वसङ्ग्रहेणैव वा, यत् [ कारण तत् ] पूर्वम् , यत् कार्य तत् १५२-१ पश्चात्, क्रमवर्तिनां भावानां कारणकार्यत्वेन सङ्ग्रहात् पूर्वापरयोः कारणकार्यत्वात् कालत्वाच्च काल एव
भवतीति । एतस्य क्रमव्यवहारस्य सिद्धयर्थं त्वयानुक्रमार्थं पुरुषं स्वभावमन्यद्वा कारणं तत्कार्यं चाश्रित्या10 प्यवश्यं पूर्वादय आश्रयणीया एव, नियत्यादिमात्रेण पूर्वाद्यनपेक्षेण व्यवहारासिद्धः । नियतेरेवासिद्धे
र्व्यवहारासिद्धिरन्यथेति, पूर्वादिभिर्विना बीजादीनामनियतत्वात् स्वभाववद् नियत्यभावः, नियत्यभावाद् व्यवहारासिद्धिरिति । मम पुनः कालवादिनः पूर्वादिषु तु समाश्रितेषु नियत्या किं क्रियते ? सिध्यत्येव नियत्या विनापि क्रमव्यवहारः पूर्वादिभिरेव कृतत्वादित्यर्थः । ।
किश्चान्यत् , नियतिवादे त्वन्यायेन तु त्वदीयेनैव न्यायेन विदुषां हिताहितेत्यादि, हित15 प्राप्त्यर्थ आचारो लौकिकः कृषिवाणिज्यसेवादिरोदनपचनभोजनादिश्च दृष्टार्थः, तदुपदेशश्च एतत् कुरु, इदं ते श्रेयः' इति । लोकोत्तरश्चादृष्टार्थो यमनियमादिः । अहितप्रतिषेधार्थश्च लौकिकः क्षारविषकण्टकाग्निशस्त्रादिपरिहारार्थः, तदुपदेशश्च बालादीनां ‘मा कार्षीः' इति । लोकोत्तरश्चादृष्टार्थो हिंसानृतस्तेयाब्रह्मादिभ्यो विरतिः श्रेयसीति । तावतावाचारोपदेशावनर्थको स्याताम् , नियत्यैव यद्यवश्यम्भावी अर्थोऽनर्थो वा किमाचारोपदेशाभ्याम् ? किमिव ? चक्षुरूपग्रहणनियतिवत् , यथा चक्षुषा रूपं पश्यन्तं पुरुषं नियत्या 20 स्वभावतोऽन्येन वा केनचित् कारणेन त्वदभिमतेन सिद्धत्वात् पुरुषकाराइते यो ब्रुयात् 'चक्षुषा रूपं पश्य ___ मा द्राक्षीर्जिह्वया' इति किं तेन कृतं स्यात् ? तथा नियत्या सिध्यत्सु असिध्यत्सु वा किं यत्नोपदेशाभ्याम् ? १५२-२ किं कारणम् ? अयत्नत एव तथा 'सिद्धेरोदनकवलाद्यास्यप्रवेशोऽपि प्रक्षेपयत्नाहते त्वन्मतेन सिध्येत् , अप्रक्षिप्ते कवले क्षुत्प्रतीकारः स्यादित्यादि योज्यम् ।
यनोऽपि नियतित एवेति चेत् । स्यान्मतम् - योऽप्यसौ यत्नो नियतित एवैषोऽपि आचारोप25 देशरूपस्तृप्तिप्रयोजनौदनपचनास्यप्रक्षेपादिरूपश्च तथा तथा नियतित्वादित्येवं चेन्मन्यसे, ततः सर्वलोक
शास्त्रारम्भप्रयोजनाभिधानानर्थक्याल्लोकागमविरोधौ, यथासङ्ख्यं लोकविरोध आगमविरोधश्च, सर्वलोकस्य सर्वशास्त्राणां चारम्भप्रयोजनयोस्तदभिधानस्य चानर्थक्यम् , बुभुक्षाप्रतीकारप्रयोजन ओदनपाकारम्भः
१त्वाच्च काल एव य० ॥ २ रासिद्धिः भा० ॥ ३°त्याभावः भा० ॥ ४ ज्यां(ज्या ?)सेवा भा० । 'ज्य सेवा य० ॥ ५ द्राक्षीजिह्वया प्र०॥ ६ सिद्धेवोदन प्र०॥ ७ प्रतिका य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org