________________
२०७
कालवादिना नियतौ दोषाभिधानम्] द्वादशारं नयचक्रम् नियतानन्तरव्यक्त्यैवाभ्युपगतमपि कालं नियतिमात्रग्राहदोषेणानिच्छता त्वया आत्मा गुणवत्कालपक्षपातकृतगुणेभ्योऽपनीयते।
यदि नियतिकृतैवार्थानां प्रवृत्तिः, इदं पूर्वमिदं पश्चादिदमिदानीमिदं युगपदिति न युज्यते सर्वेषां बीजादौ नियतः सन्निहितत्वात् ।
नियतेरेवेति चेत्, न, आनर्थक्यात् । किमिह पूर्वादिभिः ? एवमादिविकल्प-5
न्तरव्यक्त्यैवाभ्युपगतः कालः, 'सप्ताहं कललं भवति, ततः सप्ताहमर्बुदम् , एवं पेशी घनम्' इत्येवमादिक्रमेण गर्भादिषु पूर्वोक्तावस्थानां पूर्वस्या अनन्तरावस्था अभिव्यज्यत इत्यनयैव नियताभिव्यक्त्या कालमभ्युपगतमपि नियतिमात्रग्राहदोषेण स्वपक्षरागाच्चानिच्छता त्वया आत्मा तेभ्यो गुणवत्कालपक्षपातकृतगुणेभ्योऽपनीयते । मा भूद् ग्राह इत्युक्तेऽतिनिष्ठुरत्वाच्चित्तपीडेति ग्राहवद् प्राह इति प्राग्व्याख्यातगौणशब्देनोच्यते । अथवा ग्राहोऽभिप्रायः, ग्राहयतीति ग्राहः, तस्याभिप्रायस्य दोषेण स्ववचनाभ्युप-10 गतमपि कालमपश्यन् कालतत्त्ववादित्वावाप्ययशोधर्मादिगुणगणादात्मानमपनयसि ।
यदि नियतिकृतेत्यादि यावद् न युज्यते । नैवमभ्युपगन्तुं शक्यं नियतिकृतैवार्थानां प्रवृत्तिरिति, अनन्तराभिहितदोषसम्बन्धात् कालकृतत्वस्योक्तत्वाच्च । अभ्युपेत्यापि नियतिकृतत्वं दोषं ब्रूमः - इदं १५१.२ पूर्वमिदं पश्चादिदमिदानीमिदं युगपदिति न युज्यते, पूर्वादयः कालत्रयवाचिनः, 'युगपत्' इत्यभिन्नकालवाची शब्दः, तत्तु कालमन्तरेण लोकप्रसिद्धं व्यवहारजातं न युज्यते । कारणान्तरमप्याह -सर्वेषां 15 तेषां तेषां बीजादौ नियतेः सन्निहितत्वात् , बीजे मूलाकुरपत्रनालादीनां नियतेः सन्निहितत्वात् शुक्रशोणितावस्थायामेव कललार्बुदर्गर्भार्भकादीनां नियतेः सन्निहितत्वात् पूर्वादिक्रमवृत्तिता युगपद्वृत्तिता वेति न युज्यते ।
नियतेरेवेति चेत् , न, आनर्थक्यात् । स्यान्मतम् - एतदपि नियतेरेव युगपद्वर्तनं पूर्वादिक्रमवर्तनं चेत्यादि, एवकारात् कालादिनिराकरणम् । नेति, एतच्चायुक्तम् , नैरर्थक्यात् , नियतेः पूर्वादीनां वा 20 नैरर्थक्यात् । यदि नियतिरेव कारणं पूर्व पश्चादिदानी युगदिति कालवाचिशब्दोपादानं तदर्थाश्रयणं चानर्थकम् , तदर्थाभावे सति नियत्यैव कृतप्रयोजनत्वात् । तदुपादाने वा नियत्यानर्थक्यम् । इह तु नियत्यानर्थक्यमेवेति मन्यस्व, कालं प्रत्येकार्थव्यापारार्थानां पूर्वादीनामवश्याभ्युपगम्यत्वात् "तैरेव च कृतप्रयोजनत्वात् किं नियत्या प्रयोजनम् ? किमिह पूर्वादिभिः ? इत्याद्यक्षरै वितार्थत्वाद् यदर्थं नियतिरुपादीयेत तन्नास्तीत्यभिप्रायः, तत्तु पूर्वादिभिः कृतमेव, 'यत् पूर्वं तद् बीजादि यत् पश्चात् तदङ्कुरादि' इत्येतयोः 25 पूर्वापरशब्दयोः क्रमात्मकालवाचित्वादिति । तन्निदर्शयति - एवमादिविकल्पव्यवहारेषु काल एव
१ स्याऽनन्तरा' प्र० ॥ २ चनिच्छता प्र०॥ ३ ग्रह प्र० ॥ ४ कालत्वस्योक्तत्वावच य० । कालत्वास्योक्तत्वावश्च भा० ॥ ५ तेषां बीजादौ य०॥ ६°गर्भामेकादीनां प्र०॥ ७°रणं रेति य० । भा० प्रतौ तु * * एतच्चिह्नान्तर्गतः पाठो नास्ति । अत्र 'कालादिनिराकरणं चेति, एतच्चायुक्तम्' इत्यपि पाठः स्यात् ॥ ८°दित्यादि ?]काल भा० । दित्यकाल २० ही० । 'दित्यत्काल पा० वि० डे० ली० ॥ ९ कालप्रत्ये(कालवृत्त्ये )कार्थ प्र० ॥ १० तैरेव कृत य०॥ ११ पूर्वपर प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org