________________
२०६
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [द्वितीये विधिविध्यरे विनोऽपि भवितुकामस्य वर्तनादतिरिक्तस्य कस्यचिदप्यनुपपत्त्यापत्तेः कालात्मकता।
नियतेस्तु सर्वात्मकत्वात् सर्वाकारता स्यात् सदा सर्वस्य, कालाभावेऽतीतानागतवर्तमानाविशेषात् । अपि च तथापि नैव कालातिक्रमः । इति स्वीक्षितमपि
१५०-२ एव तथावृत्तेः, एवं मृल्लोष्टवज्राश्मसिकतादयः । एवं द्रव्यं पृथिव्यादयः, पृथिव्यप्तेजोवाय्वाकाशादयो
5 युगपद्वृत्तयो द्रव्यम् । द्रव्यादयो भावः, द्रव्यगुणकर्मणां सप्रभेदानां भाव इत्याख्या युगपद् भवनात् । ' एवं तावद् युगपद्वृत्तिः काल एव भवतीति भावितम् ।
क्रमवृत्तिनियतिरपि काल एव भवतीति भाव्यते, तत आह - अयुगपद्भाविनोऽपीत्यादि यावदापत्तेः। अयुगपद् भवितुं शीलमस्येत्ययुगपद्भावि, तस्यायुगपद्भाविनो भवितुकामस्य भवनाभिमुखस्य बीजाङ्करादेर्वस्तुनो यदि वृत्त्यात्मककालभावो नाभ्युपगम्यते ततो वर्तनादतिरिक्तस्य कस्यचिदप्यनुप10 पत्तिरापद्यते वर्तनाभावाद् वन्ध्यासुतवत् । ततश्चानुपपत्त्यापत्तः संति च वर्तनात्मके काले तदुपपत्तः
कालात्मकता । एवं तावन्नियतार्थाभ्युपगमः कालमन्तरेण न भवतीति युगपदयुगद्वृत्त्यात्मकः काल एव भवतीत्युक्तम् ।
इदानीं नियतिवादिनो दोषोऽभिधीयते - नियतेस्त्वित्यादि यावत् सदा सर्वस्य । य उक्तस्त्वया स्वभाववादिनं प्रति 'बाल्यकौमारयौवनमध्यमाद्यवस्था युगपत् स्युः सर्वाकारस्वभावत्वाद्देवदत्तादेः, अङ्कुरपत्र15 काण्डाद्यवस्थाश्च युगपत् स्युर्तीह्यादेः' इत्युपालम्भः स एव 'नियतेः सर्वात्मकत्वात् कस्मात् सर्वाकारनियतैव
न भवति' इति स्वभावोपालम्भवन्नियत्युपालम्भोऽपि त्वामपि प्रति नियतिवादिनं समानः, सदा सर्वकालं सर्वस्य वस्तुनस्तस्य तस्येति, कालाभावेऽतीतानागतवर्तमानाविशेषात् , दृष्टा चातीतानागंतानाकारता वर्तमानाकारता च, वृत्त्यात्मककालाभावाद् नियतेश्चाविशेषादतीतानागतानाकारतावद् वर्तमानानाकारता स्यात् वर्तमानाकारतावदतीतानागताकारतापि स्यात्, न च दृष्टा अतीतानागताकारता वर्तमाना20 नाकारता वा।
स्यान्मतम् - अतीतानागताकारता वर्तमानाकारतावद्. नियतौ विद्यमानैव तिरोभूतत्वान्नोपलभ्यते, १५१-१
वर्तमानाकारता त्वाविर्भूतत्वादुपलभ्यत इत्युक्तत्वादँनुत्तरमिति । अत्रोच्यते - अपि च तथापि नैव कालातिक्रम इति । एवमपि त्र्याकारताया युगपद्वृत्तायाः क्रमेणाविर्भावतिरोभावावतीतमनागतमिति 'चैतत् सर्वं कालवाचिशब्दार्थसामर्थ्यप्रतिपादितं कलनं वर्तनं भवनमन्तरेण न स्यात् , अतः कालस्या25 नतिक्रमणीयता।
. इति स्वीक्षितमपीत्यादि । एतेन प्रकारेण सुष्टु परीक्षितमपि कालाहते नान्यत् कारणमवस्थानां बाल्यादीनामङ्कुरादीनां च क्रमेणावस्थापकं रूपादीनां वा युगपवस्थापकमालक्ष्यते । तस्मात्त्वया नियतान
१°द्भाविनो भाविनो भवितु भा० वि० पा० ॥ २ सति वर्त य० ॥ ३ पयावृत्त्या भा० । अत्र 'पद्वा वृत्त्या इत्यपि पाठ स्यात् ॥ ४ यत उक्त प्र०॥ ५ दृश्यतां पृ० १९६ पं० ४ ॥ ६गताकारता प्र.॥ ७ (°दनन्तरमिति)?॥ ८चेत्तत् डे० लीं ॥ ९ णवस्थानां प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org