________________
अथ कालवादः] द्वादशारं नयचक्रम्
२०५ एवं तर्हि त्वदुक्तभावनयैव युगपदयुगपन्नियतार्थवृत्तेः काल एव भवतीति भावितं भवति । इह युगपदवस्थायिनो घटरूपादयो न केचिदपि वस्तुप्रविभक्तितो युगपद्धृत्तिप्रख्यानात्मकं कालमन्तरेण । एवं घटो ग्रीवादयस्तथावृत्तेस्तथाभवनात्, मृल्लोष्टादयः, पृथिवी मृदादयः, द्रव्यं पृथिव्यादयः, द्रव्यादयो भावः । अयुगपद्भा
नुप्रेक्षापरीषहजयचारित्रसंवरां द्वादशविधतपोऽनुष्ठाननिर्जरां क्षेत्रकालगतिलिङ्गतीर्थप्रत्येकबुद्धबुद्धबोधितज्ञाना-5 वगाहनान्तरसङ्ख्याल्पबहुत्वाद्युपायव्याख्येयां कृत्स्नकर्मक्षयाव्याबाधात्यन्तैकान्तसुखात्मिकां च मोक्षप्रक्रियां परमसूक्ष्मां पश्यन्ननन्तकालमव्याबाधसुखं तिष्ठति । एषा च बन्धमोक्षप्रक्रिया दिङ्मात्रमुपदर्शिता अतिसूक्ष्मत्वाद् बहुवक्तव्यत्वाच्च नात्र परीक्षाकाले शक्या वक्तुम् । यथोक्तम् -
लोगम्मि जीवचिंता सव्वागमका(को ?)सिया दुरोगाहा ।
तत्तो वि कोसियतरी चिंता बंधे य मोक्खे य॥ [ इति परिसमाप्त्यर्थः, इत्थं नियतिवादः परिसमाप्तः ।
___अपरो द्रव्यार्थो विधिविधिनयविकल्प आह - नायमपि नियतिवादः परितोषकरः, एवं तहीत्यादि । १५०-१ येयमुक्ता 'ज्ञाझं स्वतत्रास्वतन्त्रं वा न ज्ञमेव भवितुमर्हति, किं तर्हि ? नियत्यैव युगपदयुगपञ्चानेकधा क्रियादिकार्यकारणभावनियतमेतत्' इति भावनाऽनयैव त्वयोक्तया युगपदयुगपन्नियतरूपादिबीजाङ्कुराद्यर्थेष्टेन नियतिरेव भवति, किं तर्हि ? काल एव भवतीति भावितं भवति, अपरस्मिन् परं युगपदयुगपश्चिरं 15 क्षिप्रमिति काललिङ्गानि [वै०सू० २।२।६] इति वचनाद् युगपदयुगपन्नियतार्थानां वृत्तेर्भवनार्थत्वाद वर्तनस्य कालर्लक्षणत्वादिति । तद्भावनार्थमाह - इह युगपदवस्थायिनो घटरूपादयः, ते किं परस्पर.. प्रविभक्तितः स्वेनैव भवन्ति उत कालसामर्थ्यात् ? इति । वस्तुरूपेण तावञ्चिन्त्यते- तत्र तावन्न केचिदपि वस्तुप्रविभक्तितो भवन्तीति वाक्यशेषः, रूपरसगन्धस्पर्शशब्देभ्यः प्रविभक्त्या प्रविभागेन तद्रूपेण प्रविभक्तितो वा कारणान्न भवति तैः सहोपलभ्यमानमपि तद्व्यतिरेकेणाभावात् । भिन्नेन्द्रियग्राह्यत्वादेव च 20 तेषाम् ] ऐक्याभावाद् यौगपद्यं नानात्वं च सिद्धम् , न ह्यभिन्नस्य योगपद्यम् , युगस्य स्कन्धयोः पतनं युगपदेवमन्यत्रापि अनेकाश्रयं यौगपद्यम् , अतो रूपादयो युगपद् वर्तन्त इत्येषा वृत्तिप्रख्यातिदृष्टा अर्थतः । शब्दतोऽपि च वर्तनं कलनं सङ्ख्यानं प्रथनं बुद्ध्या शब्देन वा निरूपणमिति वृत्तिरेव । तस्मात् कलनं काल इत्यक्षरार्थानुसारेण वर्तनं कालः, तं कालात्मानं युगपद्धत्तिप्रख्यानात्मकमन्तरेण न ते केचिदूपादयो युगपद् भवितुमर्हन्ति, तस्माद् रूपादयो युगपदित्येतत् कालसामर्थ्यात् । एवं सूक्ष्मा रूपादय 25 उक्ताः । स्थूला अप्येवं घटो ग्रीवादयः, तथावृत्तेर्युगपद्वृत्तः, कस्य ? कालात्मन एव । वृत्तिश्च भवनमित्यत आह - तथाभवनादिति । मृल्लोष्टादयः, मृदिति लोष्टादय एंव युगपद्वृत्तेः । पृथिवी मृदादय
१कासिया प्र० ॥ २ मुक्खे य० ॥ ३ वृत्तिर्भ य० ॥ ४°लक्षत्वा प्र० ॥ ५ स्परं प्रवि य० ॥६च ते ऐक्या य च ने ऐक्या भा०॥ ७ दृश्यतां पृ० १५८-१॥ ८ एवं भा० रं० ही। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org