________________
२०४
. न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे सान्निध्यादेरङ्कुराद्युत्पत्त्यनुत्पत्त्योर्नियतिरेव कारणम् । एतेन पाकादिदोषाः प्रत्युक्ताः।
सर्वज्ञोऽपि च तामेवाखिलामनादिमध्यान्तां वरूपेणाविपरिणामां वस्तुनियतिमेकामनेकरूपां बन्धमोक्षप्रक्रियानियतिसूक्ष्मां पश्यन् नियतेरेव भवतीति।
., करणाधिकरणकर्तृकर्मसम्प्रदानापादानानां क्षमत्वं तरिक्रयासाधनसमर्थत्वमक्षमत्वमसमर्थत्वम् , यथो१४९-१ उक्तम् - एतत् परशोः सामर्थ्य यन्न तृणेन [पा० वा० १।४।२३ ] इत्यादि । तेषामेव सान्निध्यं कर्ता प्राप्तिः,
असान्निध्यमप्राप्तिः । आदिग्रहणात् प्राप्तानामपि करणादीनामन्तरे विघ्ना इत्येवमादेः कारणादकराद्युत्पत्त्यनुत्पत्त्योर्नियतिरेव कारणं तथानियतत्वादिति । एतेन पाकादिदोषाः प्रत्युक्ताः प्रतिषिद्धाः, यदुक्तं त्वया काले न पाकोऽकाले पाक इत्यादयो दोषा इति तदपि 'तथानियतित्वात्' इत्यतेनैव न दोषाय कालाकालयोरपाकेन पाकेन च तेषां तेषां भावानां नियतत्वात् सैव नियतिस्तथा तथा नियतं भवतीति ।। 10 किञ्चान्यत् , सर्वज्ञोऽपि चेत्यादि । यदपि च 'सम्यग्दर्शनज्ञानचारित्रतपोभिर्ज्ञानावरणाद्यशेषकर्मक्षयात् केवलज्ञानप्राप्तिः सार्वयं पौरुषेण' इति मन्यसे तदपि मा संस्था नियतिमन्तरेणेति । कथं तर्हि मन्तव्यम् ? सार्वयं नियतेरेव भवतीति, तामेवासौ नियतिमखिलां पश्यन् सर्वज्ञो भवतीति तयैव च नियत्या नान्यथेति । स हि भव्याभव्यसिद्धादिभेदेषु पुरुषेषु गतिस्थित्यवाहवर्तनारूपरसादिशरीरवाइमनः
प्राणादिपरिणतिरूपामसङ्कीर्णामनादिमध्यान्तां कालत्रयेऽपि अनुत्पत्तिमविनाशां स्वेन रूपेणाविपरिणामां 15 लोकस्थित्यनतिक्रमेणाप्रच्युतस्वरूपां वस्तुनियतिं बीजादिनियताङ्करादिवस्त्वात्मिकामेकां सर्वभेदेष्वभिन्नाम१४९-२ नेकरूपां तेषु तेषु भेदेषु तद्रूपनियतित्वादनेकां बन्धमोक्षप्रक्रियानियतिसूक्ष्मां जीवकर्मणोरनायेन
सम्बन्धेन सम्बद्धयोः कार्यकारणभूतैर्मिथ्यादर्शनादिभिर्नियतिवशात् सन्तत्यानाद्यो बन्धो भव्येषु बन्धोद्वर्तनसमर्थसम्यग्दर्शनादिभावनियतिविवर्ताद् मोक्षहेतोरमूर्तस्वभावस्य ज्ञानदर्शनवीर्यसुखादिस्वात्मनः स्वात्मनि अवस्थानं मोक्ष इत्येतां बन्ध-बन्धक-बन्धनीय-बन्धविधानाद्यनेकभेदप्रभेदां बन्धप्रक्रियां तसमितिगुप्तिधर्मा
१ "उद्यमननिपातनानि कर्तुश्छिदिक्रिया [पा० वा०] । उद्यमननिपातनानि कुर्वन्नेव देवदत्तश्छिनत्तीत्युच्यते । तत्र तदा छिदिर्वर्तते । एष प्रधानकर्तश्छेदः । एतत् प्रधानकर्तुः कर्तत्वम् । यन्न तणेन तत परशोदनम [पा० वा०] । यत तत समाने उद्यमने निपातने च परशुना छिद्यते, न तणेन, तत् परशोश्छेदनम् । अवश्यं चैतदेवं विज्ञेयम् । 'इतरथा ह्यसितृणयोश्छेदनेऽविशेषः स्यात्' [पा० वा०]। यो हि मन्यते उद्यमननिपातनादेवैतद् भवति च्छिनत्तीति, असितृणयोश्छेदने न तस्य विशेषः स्यात् , यदसिना छिद्यते तृणेनापि तच्छिद्येत ।" इति पाणिनीयव्याकरणे कात्यायनविरचितवार्तिकोपरि पातञ्जलमहाभाष्ये १।४।२३ ॥ २ दृश्यतां पृ० २०२ पं० २ ॥ ३ दृश्यतां पृ० २०२ पं० ७॥ ४ स्तथा नियतं भा०॥ ५°दिविभागेषु भा० ॥ ६ गाहे प्र०॥ ७ मनसःप्रा प्र० । “गतिस्थित्युपग्रहो धर्माधर्मयोपकारः ।१७। आकाशस्यावगाहः ।१८। शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ।१९। सुखदुःखजीवितमरणोपग्रहाश्च ।२०। परस्परोपग्रहो जीवानाम् ।२१। वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ।२२। स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ।२३। इति तत्त्वार्थाधिगमसूत्रे पञ्चमाध्याये ॥ ८ "हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ।।१। आस्रवनिरोधः संवरः ।।१। स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ।९।२। तपसा निर्जरा च ।९।३। क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबुद्धबोधितज्ञानावगाहनान्तरसत्याल्पबहुत्वतः साध्याः ।१०।७। कृत्स्नकर्मक्षयो मोक्षः ।१०।३।" इति तत्त्वार्थाधिगमसूत्रे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org