________________
नियतौ विहितानामाक्षेषाणां निरसनम् ] द्वादशारं नयचक्रम्
२०३
रोधेन हि तेषां सर्वेषां नियता प्रवृत्तिः । तथा ह्याह-सभावकं निर्भावकं वोदकं पतितमिति । यदा हि बीज नियतिरभि तदा तस्या देश उदकस्थ एव अङ्कुरोद्भावने प्रवर्तमानः सभावक इत्युच्यते, तद्भावांशापेक्षयोदकमपि सभावकमित्युच्यते, अन्यदा तु विपर्ययः । एवं भूमिवायुकालप्रभृतिष्वपि सभावकाभावकत्वे ।
पुरुषो व्यग्रोsव्यग्र इत्यादि नियतेरेव । करणादीनां क्षमत्वाक्षमत्व सान्निध्या- 5
सैव हि बीजादिनियतिरेकैव उदकादिषु वर्तते, काले वायावातपे पुरुषे तदिच्छाप्रयत्नयोश्च वर्तते, आदिग्रहणादुदकादिनियतिश्च बीजादिषु वर्ततेऽन्योन्यव्यतिहारेण, तन्नियमानुरोधेन हि परस्परनियमानुरोधेन, हिशब्दो यस्मादर्थे, यस्मादेवंरूपा तेषां सर्वेषां नियतिस्तस्मात् तेषां सर्वेषामितरेतरनियत्या 'नियता प्रवृत्तिरन्योन्याविनाभावात् तथैव प्रवर्तन्त इत्यर्थः ।
तथा ह्याहेति लोकसिद्धं ज्ञापकं दर्शयति । सह भावेन वर्तत इति सभावकम्, निर्गतो भावोऽस्मा - 10 दिति निर्भावकम्, किं तत् ? उदकं पतितमिति । तद्भावना - यदा हि बीजनियतिरंभि अङ्कुराभिव्यक्तेर्यदाभिमुखीभूता बीजनियतिर्भवति तदा तस्या नियतेर्देशोंऽशो भागोऽवयवः स उदकस्थ एव सन्न
रोद्भावने प्रवर्तमानः सभावक इत्युच्यते, तद्भावांशापेक्षया उदकमपि सभावकमित्युच्यते १४८-२ भेदविवक्षायां बहुव्रीहिसमासाश्रयणात् मतुब्लोपाद्वा अभेदोपचाराच्च भाव एवोदकमिति । स च भावोऽङ्कुरादिर्वनस्पत्यौषध्यादेः, मतुप्प्रत्ययनिर्देशोऽपि भेदेनोपपद्यते, तद्यथा - अस्ति अस्मिन्नस्य वा भावोङ्करस्त - 15 स्मिन्नुदके तस्मात् तत् सभावकमिति । अन्यदा तु विपर्ययः, क्षाराम्लाद्युदकेऽङ्कुरादयो न सन्त नियतत्वाद् विपर्ययः, तस्माद्भावकमुच्यते तज्जलमिति ।
एवं भूमिवायुकालप्रभृतिष्वपि सभावकाभावकत्वे । उपरभूमावभावः सस्यादेः, पादसौकुमार्यादेर्भावः, सुकृष्टे केदारादौ वा सर्ववीजानामङ्करादिभावः । पूर्ववायावभावोऽङ्कुरादेः, भावस्तु महिषीकर्पासप्रसूत्यादेः; अन्यस्य पुष्पादेरन्यस्य फलादेर्मनुष्याणां च पूर्ववायावभावः, तद्यथोक्तम् - दिवाtaratri प्राग्वातं चात्र वर्जयेत् । [
J
सस्यानामुत्तरे वायौ न भावः, प्रावृष्युप्तानां भावः, वैशाखादिष्वभावः । प्रभृतिग्रहणेन आतपेऽतिमृदावतितीक्ष्णे चाभावः, समे भाव:, आतपाभावेऽप्यभाव एवेति । एवं तावदबुद्धिप्रवृत्तेषु कालाङ्कुरादिष्वचेतनेषु नियतिरुक्ता ।
बुद्धिमत्स्वपि नियतिरेव । यदुक्तं प्राक् त्वया 'पुरुषस्य ज्ञातुरिच्छानुविधानेन वस्तुनियति वैपरी - 25 त्यम्' इति तन्नोपपद्यते, तत्रापि नियतेरेव कारणत्वात् । कुतः ? पुरुषो व्यग्रोऽव्यग्र इति नियतेरेव यतो भवति, साध्यापेक्षिकी तादृशी नियतिरेव । आदिग्रहणात् कुशलोऽकुशलः पुरुष इत्याद्यपि नियतेरेवेति । एवमप्रयुक्तेषु स्वातन्त्र्यादेव परनियोगानपेक्षप्रवृत्तिषु नियतिः । प्रयुक्तेष्वपि नियतिरेव, करणादीनां
१ नियत्यप्रवृत्ति प्र० ॥ २ रति प्र० ॥ ३ दाभिरभूता प्र० ॥ ४द्भावेन प्र० ॥ ५ भेदनोप प्र० ॥ ६ वात्र प्र० । “क्षारं दधि दिवास्वप्नं प्राग्वातं चात्र वर्जयेत् ।" इति चरकसंहितायाम् १।७।४५ ॥ ७ दृश्यतां पृ० २०२ पं० ४ ॥
Jain Education International
20
For Private & Personal Use Only
www.jainelibrary.org