________________
२०२
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [द्वितीये विधिविध्यरे कथमस्ति यदा भूम्यम्ब्वादेविना न भवति केवलाया एव बीजनियतेराम्रफलपाकादि ? कालातपवातादिभ्यः पाकः, भूमिखननादिभ्यः फलादीनामप्राप्तेऽपि काले पाकदर्शनात्, काले चापि न भवति पाको द्रव्यान्तरसंयोगस्तम्भनादिभ्यः। अन्यच्च, तथा तथा ज्ञातुरिच्छानुविधानेन वस्तुनियतिमतीत्य पुष्पादीनां वर्णसंस्था5 नादिवपरीत्यम् । योनिप्राभृतादिभ्यश्चान्यथैव सर्वयोन्युत्पत्तय इति नियमाभावः । नियमाभावात् कृतकत्वानित्यत्वाभ्यां नियत्यभाव इति ।
न, तथानियतित्वात् । बीजादिनियतिरेव हि उदकादिषु वर्तते, तन्नियमानु
अत्राह - कथमस्तीत्यादि यावन्नियत्यभाव इति । यदुक्तं त्वया नियतौ सर्वमस्ति' इति तत् कथमस्ति यदा भूम्यम्ब्वादेर्विना न भवति केवलाया एव बीजनियतेराम्रफलपाकादि? रूपरस10 गन्धस्पर्शसङ्ख्यासंस्थानानि आदिग्रहणात् । भूमिरम्बु वायुरातपः काल इत्येतानि भूम्यम्ब्वादीनि, तद् व्याचष्टे-कालातपवातादिभ्यः पाकः, तस्माद् भूम्यम्बुकालवातातपाद्यपेक्षत्वान्न बीजनियतावस्त्यङ्करादि तत्फलपाकादि चेति । तथा अकालेऽपि कालनियतेर्व्यभिचारो दृश्यते भूमिखननादिभ्यः फलादीनामप्राप्तेऽपि काले पाकदर्शनात् , आदिग्रहणात् कोद्रवपलालवेष्टनव्रणकरणादिभिः । काले चापीति प्राप्तेऽपि पाककाले न भवति पाको द्रव्यान्तरसंयोगेन स्तम्भितानाम् , यथा शाखायां बद्धायां 15 वृक्षायुर्वेदविधानेन द्रव्यान्तरसंयोगेनैव द्रावणाद्वा सहकारतैलग्रहणार्थ कोमलस्य प्राप्तगन्धावस्थस्य द्रवीभावात् तैलत्वेन, आदिग्रहणात् पक्षिखञ्जरीटादिसत्कभक्षणात् । अन्यच्चेत्यादि, न केवलमात्मस्वरूपापरित्यागेनैव पाकाभावः, किं तर्हि ? अन्यच्च तथा तथा, यथा यथा पुरुषो ज्ञाता स्वयमिच्छति तथा तथा तस्य ज्ञातुरिच्छानुविधानेन वस्तुनियतिमतीत्य पुष्पादीनां वर्णसंस्थानादिवैपरीत्यम् ,
यथोत्पलस्य पार्श्वे रक्तता पार्श्वे नीलता, मातुलिङ्गफलस्य रक्ततादिवर्णता तद्वासितबीजस्य, तथा कूष्माण्ड20 फलस्य घटवर्धितस्य घटाकारता। योनिप्राभृतादिभ्यश्चान्यथैव सर्वयोन्युत्पत्तयः, द्विविधा योनि१४८-योनिप्राभृतेऽभिहिता - सचित्ता अचित्ता च । तत्र सचित्तयोनिद्रव्याणि संयोज्य भूमौ निखाते दन्तरहित.
मनुष्यसर्पादिजात्युत्पत्तिः । अचित्तयोनिद्रव्ययोगे च यथाविधि सुवर्णरजतमुक्ताप्रवालाद्युत्पत्तिरिति । इति नियमाभावः, इत्थं काले चापाकादकाले च पाकादर्थान्तरापेक्षत्वात् पुरुषेच्छायत्नानुविधानाच्च नियमाभावः, नियमाभावात् कृतकत्वं पाकादेः, कृतकत्वाच्चानित्यत्वम् , अभूत्वा भावो भूत्वा चाभाव इत्यर्थः । 25 ताभ्यां च नियत्यभावः । इति परिसमाप्त्यर्थः । एष पूर्वपक्षः ।
अत्रोच्यते -न तांनियतित्वात् यथोक्तं त्वया सापेक्षनियतित्वात् कालाप्रवृत्तिनियतित्वादकालप्रवृत्तिनियतित्वाच्च ‘नियत्यभावः, तद्दर्शयति -बीजादिनियतिरेव हीत्यादि, हिशब्दो यस्मादर्थे, यस्मात्
- भूम्यंत्वादीनि भा०॥ २चेत् प्र०॥ ३शाखायां चाद्वायां भा० । शाखायां चाद्वयां पा. डे. लीं० वि० । शाखायां बाम्रयां रं० ही० ॥ ४ यथोलस्य प्र०॥ ५नियमाभावः भा० प्रतौ नास्ति ॥ ६°नियतत्वात् भा० ॥ ७ सापेक्षं प्र० ॥ ८ नियत्याः भावः भा० । नियत्या भावः य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org