________________
नियत्या सर्वभावव्यवस्थोपपादनम्] द्वादशारं नयचक्रम्
२०१ प्रविशीर्णस्तां नियतिं नापद्यते । तथा चाम्रबीजाङ्करादीनां व्यवस्थावकाशक्रमेण व्यवस्थितपूर्वरूपा एव प्रवृत्तयस्तेषां तेषां मायाकारपताकिकावत्, यावदन्ते नियतिप्रवृत्तफलावस्थामनुभूय पुनर्बीजमेव, तस्मादपि बीजात् पुनरपि तथैव । अन्यथा च तथा तथा प्रादुर्भाववृत्तयो यवतिलभस्मादीनाम् । ताश्च पुरुषकारेणाप्यलङ्घयाः। पाककालस्यापि नियतिदर्शनात् षष्टिकाः षष्टिरात्रेण पच्यन्ते ।।
एवं च व्यवस्थित एवार्थेऽव्यक्तस्यैवार्थस्य व्यक्तेः सर्वं नियतमेव । तस्य खव्यक्तेः सर्वकालं व्यवस्थितादर्थादन्यो मया कृत इति मिथ्याभिमान एषः। न तु नियतौ किञ्चिन्नास्ति ।
"१४७-१
15
तथा चाम्रबीजेत्यादि, दृश्यन्त इति वर्तते । स्वया नियत्या लीनानां मूलाकुरपत्रनालकाण्डशाखा-, प्रशाखास्कन्धपुष्पादीनां व्यवस्थावकाशंक्रमेण व्यवस्थितपूर्वरूपैव प्रवृत्तिः, रक्तश्यामादिवर्णानामाम्रफलस्य 10 तुवराम्लषाडवादीनां च रसानां तेषां तेषामिति अवस्थायामवस्थायां ये ये भवन्त्यन्येऽन्ये तेषां तेषां विद्यमानानामेव नियतानाम् । किमिव ? मायाकारपताकिकावत् , यथा मायाकारः पताकिका गुलिकादिरूपीकृत्य पूर्वप्रस्ताः क्रमेण स्ववदनान्निष्काशयति नानावर्णनानाकारास्तथेहाप्याम्रबीजे, यावदन्ते नियतिप्रवृत्तफलावस्थामनुभूय पुनर्बीजमेव, तस्मादपि बीजात् पुनरपि तथैवेत्यङ्कुरादिप्रवृत्तिं प्रागभिहितां दर्शयति । सेयं व्यवस्थिता नियतिसन्ततिरनाद्यनन्ता।
स्यान्मतम् - ननु दग्धे बीजेऽङ्कराद्यत्यन्ताप्रादुर्भावान्नियतिकृतप्रादुर्भावतिरोभावव्यभिचार इति । अत्रोच्यते -दाहनियत्युदयेऽपि सा प्रतिनियतैव, अन्यथा च तथा दृश्यन्त इति वर्तते, कास्ताः ? तथा तथा प्रादुर्भाववृत्तयः, केषाम् ? यवतिलभस्मादीनाम् , अन्यादृग् यवभस्म अन्यादृक् तिलभस्मत्यत्रापि प्रादुर्भावतिरोभाववृत्तयो नियता एव । ताश्च पुरुषकारेणार्यलङ्घयाः, तत्त्वान्तरेण सिद्धाः पुरुषकारं चान्तरेण सिद्धाः । किं कारणम् ? पाककालस्यापि नियतिदर्शनात् षष्टिकाः षष्टिरात्रेण पच्यन्त 20 इत्युदाहरणानि गतार्थानि देशकालकर्तृकरणादिनियत्यैव पाकादिदर्शनात् । ____ एवं चेत्युपनयति, अनेनोक्तविधिना व्यवस्थित एवार्थेऽव्यक्तस्यैवार्थस्य तत्र व्यक्तेः सर्व नियतमेव तत् तत् । तस्य स्वव्यक्तेर्व्यतिरेकमतेः पुरुषस्य सर्वकोलं व्यवस्थितान्नियतादर्थादन्यो मृद्रव्याद् घटो मया कृत इति मिथ्याभिमान एष षष्टिकादयो वा केदारादिसंस्कारविधिना पाचिता .. इति, यस्मान्न तु नियतौ किश्चिन्नास्ति, सर्व विद्यमानमेव तिरोभूतं "क्रियया विना वा क्रिययाभि- 25 व्यज्यते कालादिनियत्यनुगृहीतम् ।
१ अवलोक्यतां पृ० २०० पं० ४ ॥ २ शाक्रमेण प्र०॥ ३ प्रवृत्ते(त्तेः ?) भा० ॥ ४ अन्यथान्यथा च दृश्यन्त भा० ॥ ५ अवलोक्यतां पृ० २०० पं० ४॥ ६ प्युलंध्याः य०॥ ७°णासिद्धाः पा० डे. ली । भा० प्रतौ तु तत्त्वान्तरेण सिद्धाः इति पाठो नास्त्येव ॥ ८°क्तेर्व्यतिरेकमतिः भा० वि० २० ही। क्तय॑तिरिकमतिः पा० डे० ली० ॥ ९काले पा० ॥ १० क्रियया विना वा य०प्रतिषु नास्ति ॥
नय० २६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org