________________
२००
न्यायागमानुसारिणीवृत्यलङ्कृतम् [द्वितीये विधिविध्यरे कारकाणि प्रयुङ्क्ते नियतानि यथाप्रयोगनियममेकविमर्दप्रवृत्तानि परस्परनियतानुग्रहोद्भावनवृत्तानि । न तु तदुपायसिद्धेरन्यथा तत्सिद्धिरस्ति । सिद्धिर्हि नियमेनानुद्भूतानां सम्मूर्छितानां स्वनियतेरेवाभिव्यक्तिः। तच्च स च तानि च नियतेरेव प्रवर्तन्ते न वा । तथा च दृश्यन्ते क्रियाणां विपत्तयोऽप्रवृत्तयश्च । अतस्तत् कृतमपि पूर्वनियतिस्थत्वादकृतं विनष्टमप्यविनष्टं तथानियतिस्थत्वात्, एवं तु विनश्येद् यदि
स्वे स्खे विषये देशकालविशिष्टे प्रयुक्तानीत्यर्थः । एकविमर्दप्रवृत्तानि ऐकप्रयोजनेनान्योन्यापेक्षेण व्यापारेण प्रवृत्तानि परस्परापेक्षं नियतं परस्परानुग्रहमुद्भावयन्ति प्रवर्तन्ते, अत उच्यते - परस्परनियतानुग्रहोद्भौवनवृत्तानीति स्वविषयक्रियाप्रसाध्यमर्थमभिनिवर्तयन्ति । तेषां वृत्तिर्विषयस्तानि तत्फलं च सर्वं नियतमेव,
ततो नियतिरेव सर्वस्य कारणम् । न तु तदुपायसिद्धेरन्यथा तत्सिद्धिरस्ति, काष्ठज्वलनादिसाधन10पंचिक्रियानिवर्त्यस्यौदनस्य न दण्डचक्रभ्रमणादिसाधनात् तत्सिद्धिर्न वा घटाद्यर्थस्य काष्ठज्वलनादिसाध्यतास्तीति ।
का सिद्धिस्तीति चेत् , उच्यते-सिद्धिहीत्यादि । नियमेनोक्तलक्षणेन अनुद्भूतानामनभिव्यक्तव्यापाराणां बीजावस्थायामङ्करादित्वेन रूपादीनां सम्मूञ्छितानां साङ्गत्येन समुदत्य स्थितानां स्वनियतेरे१४६-२ वाभिव्यक्तिर्वर्णाकृत्यादिनियत्या जनिर्या पूर्वमनभिव्यक्तानामभिव्यक्तिः सा सिद्धिरित्युच्यते । तत्रायं 15 मिथ्याभिमानः 'इदं मया कृतम्' इति पुरुषस्य । आह - किं कारणं मिथ्याभिमानो ननु मया कृतो घट इति ? तक्रियाविनाभावासिद्धजन्मत्वाद् घटस्य युक्तोऽभिमान इति । अत्रोच्यते- तच्च स चेत्यादि, तत्प्रवृत्त्यप्रवृत्त्योः सिद्ध्यसिद्धयोश्च व्यभिचारदर्शनात् तच्च कार्य घटादि स च कर्ता कुलालः तानि च कारकाणि दण्डादीनि नियतेरेव प्रवर्तन्ते न वा, तस्य चिकीर्षा कदाचिद् भवति कदाचिन्न, चिकीर्षुरप्यालस्यादिभिः प्रवर्तते न वा, प्रवृत्तोऽप्यकृत्वैव घटं विनिवर्ततेऽन्यद्वा करोति विघ्नो वास्य भवति । 20 तथान्यकारकाण्यपि वाच्यानि, तच्च कार्य कदाचित् सिध्यति कदाचिन्न, अन्यार्थप्रवृत्तावन्यत् सिध्येन्न वा सिध्येत् । तथा च दृश्यन्ते क्रियाणां विपत्तयोऽप्रवृत्तयश्चेति लोकप्रसिद्ध व्यभिचारं दर्शयति ।
अतस्तत् कृतमपि लोकप्रतीत्या पूर्वनियतिस्थत्वादकृतं पूर्वमेव नियत्या तथा स्थितत्वात् । विनष्टमप्यविनष्टं तथा नियत्योत्तरकालं कपालादित्वेनावस्थितत्वात् कपालादित्वेनैव घटस्य विनाशात् तन्त्वादित्वेनाविनाशात् । एवं तु विनश्यदित्यादि, यदि प्रविशीर्णो विशीर्य विशीर्यमाणो विशीर्णो वा 25 तां नियति कपालादिक्रमापत्तिरूपघटविनाशां नापद्यते खरविषाणवदत्यन्ताभावीभवेन्न वा विनश्येद्
घटत्वेनैव तिष्ठेत् । ततो विनश्येत्, न त्वेवमस्ति । तस्मान्न विनाशः । लक्षणतो ह्यन्यथाता विनाशः, स च नियतेरलङ्घयत्वात् कपालाद्यवस्थानरूपायाः । एवमुत्पत्तिरपि ।
१ खेस्वविषये य० । स्वविषये भा०॥ २ एकप्रष्यहेनान्योन्यापेक्षेण भा० । एकप्रप्याहनान्योन्यापेक्षेण य० ॥ ३°द्भावमवृत्तानीति य० । 'द्भावनवृत्तीनीति भा० ॥ ४ पचिनिर्व भा० ॥ ५ अनुद्भ(ग) ताना प्र०॥ ६ तत्र यस्मिन् मिथ्या य० ॥ ७नंत्वादित्तेविनाशात् भा० । य० प्रतिषु तु अयं पाठो नास्त्येव ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org