________________
नियतिबलेन सर्वभावव्यवस्थोपपादनम्] द्वादशारं नयचक्रम्
१९९ न्यत् सततोपलब्धिनियतं यष्टिसाधनवजुत्वेन मृद्रव्यमूर्खादित्वक्रमापाद्यघटत्वेन भेदेनैव वा सत् साध्यं पुरुषादि स्थाण्वादिपरिग्रहापनयनेन ।
एतच साध्यमानमनयैव क्रियया साध्यते, एतस्याश्च एतान्येव कारकाणि, एवं नियतिस्थितेः कारकान्तरसमवस्थितितुल्यतायामपि पुरुषस्तथा प्रतिपद्य प्रत्यर्थं
साध्यविकल्पानतिवृत्तेश्चेति । अत्रोच्यते - नैष दोषः, 'सतोऽन्यदसत्' इत्यतोऽन्यत्रविधानप्रतिषेधपक्षाश्रयणाद् । द्रव्यार्थविकल्पत्वान्नियतेरसत्त्वाभावादित्यत आह -प्राक् तथा अवृत्तं तेन घटत्वप्रकारेणावृत्तम् , सच्छब्दस्य वृत्त्यर्थत्वात् , अस्तिभवतिविद्यतिपद्यतिवर्ततयः सन्निपातषष्ठाः सत्तार्थाः [ ] इति वच-२०१२ नादसदित्यवृत्तमित्यर्थः, मृत्पिण्डाद्यवस्थानकाले तत्कालेऽव्यक्त्या नियतं साध्यम् । आदिग्रहणात् पटकटादीति, एतत् कालभेदेन उपलब्ध्यनुपलब्धिभ्यां नियतम् ।
इदमन्यत् सततोपलब्धिनियतमित्यादि, तद्वदिदं च सदाव्यक्तिनियति सत् साध्यमित्यभि-10 सम्बन्धः । "किंवत् ? यष्टिसाधनवहजुत्वेन, यष्टिर्हि विद्यमानैरेवावयवैः सदा व्यक्ता संस्थानविशेषेण साध्यते सती साध्यते ऋजूक्रियते । इदमन्यत् सततोपलभ्यमेव सत् साध्यं मृद्रव्यमूर्खादित्वक्रमापाद्यघटत्वेन, पूर्वस्मिन्नुदाहरणे मनागाकृत्यन्तरभेदेन इह त्वत्यन्तभिन्नाकारभेदेनेति विशेषः, तद्दर्शयन्नोहमृदूर्खादित्वेन भेदेनैव वा सत् साध्यमिति । अथवा भेदेनैव वा सत् साध्यम् , इदं चान्यदिति वर्तते । यद् बुद्धयैव साध्यते न क्रियया परिस्पन्दात्मिकया विद्यमानं पुरुषादि स्था[ण्वादि]-15 परिग्रहापनयनेन तद्विषयसंशय विपर्ययपरिग्रहापनयनेन, नात्र 'किञ्चिन्निवर्तते पुरुषादि, किन्तु विद्यमानमेवानुपलब्धमुपलब्ध्या साध्यते, ऍषा तु नियतिनिरूपैवेति पूर्व विलक्षणा ।
एतासां क्रियाणां तत्साध्यानां च नियतिकृतत्वप्रतिपादनार्थमाह - एतच्च साध्यमानमित्यादि । ओदनविषयेयं पचिक्रिया घटादिविषयक्रियाविलक्षणा, एतच्चोदनादि साध्यमानमप्यन्य विषयगमनादिक्रियाविलक्षणयाऽनयैव पचिक्रियया साध्यते नान्ययेति क्रियानियत्या साध्यते । एतस्याश्च पचिक्रियाया 20 एतान्येव काष्ठादीनि कारकाणि न मृत्पिण्डदण्डादीनीति साध्यसाधनार्थनियतिः । एवमित्यादि । एवं च, कृत्वा यथा अर्थगतप्रतिविशिष्टसाध्यसाधननियमाभिव्यङ्ग्याया नियतेः स्थितिर्व्यवस्था तथा तस्याः स्थितेहेतोः कारणगुणपूर्वकतामनुमानप्रसिद्धां कार्यस्य प्रतिपद्य बुद्ध्या कारकान्तरसमवस्थितितुल्यतायामपि दण्डादिकारकान्तराणां साध्यनिर्वर्तनसमवस्थितेस्तुल्यतायामपि सत्यां पचिक्रियासमवस्थित्या सह नियतिप्रसिद्धेरेव बलात् पुरुषस्तथा प्रतिपद्य प्रत्यर्थ कारकाणि प्रयुङ्क्ते, यथास्वाध्यार्थमित्यर्थः । तानि च 25 कारकाणि नियतानि तस्या एव नियतायाः क्रियायाः । यथाप्रयोगनियमम् , यो यः प्रयोगनियम इति
१४६-१
१ दृश्यता पृ० ३४ पं० २० ॥ २ ले अव्यक्त्या भा०॥ ३ °नियमित्यादि प्र० ॥ ४ किंतत् प्र०॥ ५ न्नाह महादित्वन भेदेनैव भा० । न्नाह मर्धादित्वं घत्वेन भेदेनैव पा० डे. ली. २० ही । नाह मूर्धादित्वं घटत्वेन भेदेनैव वि० । अत्र 'मृदूर्खादित्वघटत्वेन भेदेनैव' इत्यपि पाठः स्यात् ॥ ६ किंचिन्निवर्तते प्र०॥ ७ एषा मु नियति भा० । एषामनियति य० ॥ ८°साध्यार्थः तानि भा० । °साध्यार्थीयमित्यर्थः तानि य० । अत्र 'यथास्वसाध्यार्थोपायमित्यर्थः' इत्यपि पाठः स्यात् ॥ ९ पौर्यः प्रयोग प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org